विश्वास-प्रस्तुतिः
अगस्त्य उवाच
श्रीकामकोष्ठपीठस्था महात्रिपुरसुन्दरी ।
कङ्कं विलासमकरोत्कामाक्षीत्यभिविश्रुता ॥ ३.४०.१ ॥
मूलम्

श्रीकामाक्षीति सा देवी महात्रिपुरसुन्दरी ।
भूमण्डलस्थिता देवी किं करोति महेश्वरी ।
एतस्याश्चरितं दिव्यं वद मे वदतां वर ॥ ३.४०.२ ॥

हयग्रीव उवाच
अत्र स्थितापि सर्वेषां हृदयस्था घटोद्भव ।
तत्तत्कर्मानुरूपं सा प्रदत्ते देहिनां फलम् ॥ ३.४०.३ ॥

यत्किञ्चिद्वर्तते लोके सर्वमस्या विचेष्टितम् ।
किञ्चिच्चिन्तयते कश्चित्स्वच्छन्दं विदधात्यसौ ॥ ३.४०.४ ॥

तस्या एवावतारास्तु त्रिपुराद्याश्च शक्तयः ।
इयमेव महालक्ष्मीः ससर्जाण्डत्रयं पुरा ॥ ३.४०.५ ॥

परत्रयाणामावासं शक्तीनां तिसृणामपि ।
एकस्मादण्डतो जातावम्बिकापुरुषोत्तमौ ॥ ३.४०.६ ॥

श्रीविरिञ्चौ ततोऽन्यस्मादन्य स्माच्च गिराशिवौ ।
इन्दिरां योजयामास मुकुन्देन महेश्वरी ।
पार्वत्या परमेशानं सरस्वत्या पितामहम् ॥ ३.४०.७ ॥

ब्रह्माणं सर्व लोकानां सृष्टिकार्ये न्ययुङ्क्त सा ।
वासुदेवं परित्राणे संहारे च त्रिलोचनम् ॥ ३.४०.८ ॥

ते सर्वेऽपि महालक्ष्मीं ध्यायन्तः शर्मदां सदा ।
ब्रह्मलोके च वैकुण्ठे कैलासे च वसन्त्यमी ॥ ३.४०.९ ॥

कदाचित्पार्वती देवी कैलासशिखरे शुभे ।
विहरन्ती महेशस्य पिधानं नेत्रयोर्व्यधात् ॥ ३.४०.१० ॥

चन्द्रसूर्यौं यतस्तस्य नेत्रात्तस्माज्जगत्त्रयम् ।
अन्धकारावृतमभूदतेजस्कं समन्ततः ॥ ३.४०.११ ॥

ततश्च सकला लोका स्त्यक्तदेवपितृक्तियाः ।
इति कर्त्तव्यतामूढा न प्रजानन्त किञ्चन ॥ ३.४०.१२ ॥

तद्दृष्ट्वा भगवान्रुद्रः पार्वतीमिदमब्रवीत् ।
त्वया पापं कृतं देवि मम नेत्रपिधानतः ॥ ३.४०.१३ ॥

ऋषयस्त्यक्ततपसो हतसन्ध्याश्च वैदिकाः ।
सर्वं च वैदिकं कर्म त्वया नाशितमम्बिके ॥ ३.४०.१४ ॥

तस्मात्पापस्य शान्त्यर्थं तपः कुरु सुदुष्करम् ।
गत्वा काशीं व्रतं तत्र किञ्चित्कालं समाचर ॥ ३.४०.१५ ॥

पश्चात्काञ्चीपुरं गत्वा कामाक्षीं तत्र द्रक्ष्यसि ।
आराधयैतां नित्यां त्वं सर्वपापहरीं शिवाम् ॥ ३.४०.१६ ॥

तुलसीमग्रतः कृत्त्वा कम्पाकूले तपः कुरु ।
इत्यादिश्य महादेवस्तत्रैवान्तरधीयत ॥ ३.४०.१७ ॥

तथा कृतवतीशानी भर्तुराज्ञानुवर्तिनी ।
चिरेण तपसा क्लिष्टामनन्यहृदयां शिवाम् ॥ ३.४०.१८ ॥

अग्रतः कृतसान्निध्या कामाक्षी वाक्यमब्रवीत् ।
वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते ॥ ३.४०.१९ ॥

उन्मील्य नयने पश्चात्पार्वती स्वपुरः स्थिताम् ।
बालार्कायुतसङ्काशां सर्वाभरणभूषिताम् ॥ ३.४०.२० ॥

किरीटहारकेयूरकटकाद्यैरलङ्कृताम् ।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ३.४०.२१ ॥

किरीटमुकुटोल्लासिचन्द्ररेखाविभूषणाम् ।
विधातृहरिरुद्रेशसदाशिवपदप्रदाम् ॥ ३.४०.२२ ॥

सगुणं ब्रह्मतामाहुरनुत्तरपदाभिधाम् ।
प्रपञ्चद्वयनिर्माणकारिणीं तां पराम्बिकाम् ॥ ३.४०.२३ ॥

तां दृष्ट्वाथ महाराज्ञीं महा नन्दपरिप्लुता ।
पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना ॥ ३.४०.२४ ॥

चण्डिकामङ्गलाद्यैश्च सहसा स्वसखीजनैः ।
प्रणिपत्य च साष्टाङ्गं कृत्वा चैव प्रदक्षिणाम् ॥ ३.४०.२५ ॥

बद्धाञ्जलिपुटा भूयः प्रणता स्वैक्यरूपिणी ।
तामाह कृपया वीक्ष्य महात्रिपुरसुन्दरी ॥ ३.४०.२६ ॥

बाहुभ्यां सम्परिष्वज्य सस्नेहमिदमब्रवीत् ।
वत्से लभस्व भर्तारं रुद्रं स्वमनसेप्सितम् ॥ ३.४०.२७ ॥

लोके त्वमपि रक्षार्थं ममाज्ञाम नुवर्तय ।
अहं त्वमिति को भेदस्त्वमेवाहं न संशयः ॥ ३.४०.२८ ॥

किं पापं तव कल्याणि त्वं हि पापनिकृन्तनी ।
आमनन्ति हि योगीन्द्रास्त्वामेव ब्रह्मरूपिणीम् ॥ ३.४०.२९ ॥

लीलामात्रमिदं वत्से परलोकविडम्बनम् ।
इत्यूचिषीं महाराज्ञीमबिकां सर्वमङ्गला ।
भक्त्या प्रणम्य पश्यन्ती परां प्रीतिमुपाययौ ॥ ३.४०.३० ॥

स्तुवत्यामेव पार्वत्यां तदानीमेव सापरा ।
प्रविष्टा हृदयं तस्याः प्रहृष्टाया महामुने ॥ ३.४०.३१ ॥

अथ विस्मयमापन्ना चिन्तयन्ती मुहुर्मुहुः ।
स्वप्नः किमेष दृष्टो वा मया किमथ वा भ्रमः ॥ ३.४०.३२ ॥

इत्थं विमृश्य परितः प्रेरयामास लोचने ।
जयां च विजयां पश्चात्सख्यावालोक्य सस्मिते ।
प्रसन्नवदना सा तु प्रणते वदति स्म सा ॥ ३.४०.३३ ॥

एतावन्तमलं कालं कुत्र याते युवां प्रिये ।
मया दृष्टां तु कामाक्षीं युवां चेत्किमपश्यतम् ॥ ३.४०.३४ ॥

सख्यौ तु तद्वचः श्रुत्वा प्रहर्षोत्फुल्ललोचने ।
पुष्पाणि पूजनार्हाणि निधायाग्रे समूचतुः ॥ ३.४०.३५ ॥

सत्यमेवाधुना दृष्टा ह्यावाभ्यामपि सा परा ।
न स्वप्नो न भ्रमो वापि साक्षात्ते हृदयं गता ।
इत्युक्त्वा पार्श्वयोस्तस्या निषण्णे विनयानते ॥ ३.४०.३६ ॥

एकाम्रमूले भगवान्भवानीविरहार्तिमान् ।
गौरीसम्प्राप्तये दध्यौ कामाक्षीं नियतेन्द्रियः ॥ ३.४०.३७ ॥

तत्रापि कृतसान्निध्या श्रीविद्यादेवता परा ।
अचष्ट कृपया तुष्टा ध्यायन्तं निश्चलं शिवम् ॥ ३.४०.३८ ॥

अलं ध्यानेन कन्दर्पदर्पघ्न त्वं ममाज्ञया ।
अङ्गीकुरुष्व कन्दर्पं भूयो मच्छासने स्थितम् ॥ ३.४०.३९ ॥

एकाम्रसञ्ज्ञे मत्पीठे त्विहैव निवसन्सदा ।
त्वमेवागत्य मत्प्रीत्यै सन्निधौ मम सुव्रत ।
गौरीमनुगृहाण त्वं कम्पानीरनिवासिनीम् ॥ ३.४०.४० ॥

तापद्वयं जहीह्याशु योगजं तद्वियोगजम् ।
इत्युक्त्वान्तर्दधे तस्य हृदये परमा रमा ॥ ३.४०.४१ ॥

शिवो व्युत्थाय सहसा धीरः संहृष्टमानसः ।
तस्या अनुग्रहं लब्ध्वा सर्वदेवनिषेवितः ॥ ३.४०.४२ ॥

हृदिध्यायंश्च तामेव महात्रिपुरसुन्दरीम् ।
यद्विलासात्समुत्पन्नं लयं याति च यत्र वै ॥ ३.४०.४३ ॥

जगच्चराचरं चैतत्प्रपञ्चद्वितयात्मकम् ।
भूषयन्तीं शिवां कम्पामनुकम्पार्द्रमानसाम् ॥ ३.४०.४४ ॥

अङ्गीकृत्य तदा गौरी वैवाहिकविधानतः ।
आदाय वृषमारुह्य कैलासशिखरं ययौ ॥ ३.४०.४५ ॥

पुनरन्यं महप्राज्ञं समाकर्णय कुम्भज ।
आदिलक्ष्म्याः प्रभावं तु कथयामि तवानघ ॥ ३.४०.४६ ॥

सभायां ब्रह्मणो गत्वा समासेदुस्त्रिमुर्त्तयः ।
दिक्पालाश्च सुराः सर्वे सनकाद्याश्च योगिनः ॥ ३.४०.४७ ॥

देवर्षयो नारदाद्या वशिष्ठाद्याश्च तापसाः ।
ते सर्वे सहितास्तत्र ब्रह्मणश्च कपर्दिनः ।
द्वयोः पञ्चमुखत्वेन भेदं न विविदुस्तदा ॥ ३.४०.४८ ॥

अन्योन्यं पृष्टवन्तस्ते ब्रह्मा कः कश्चशङ्करः ।
तेषां संवदतां मध्ये क्षिप्रमन्तर्हितः शिवः ॥ ३.४०.४९ ॥

तदा पञ्चमुखो ब्रह्मा सितो नारायणस्तयोः ।
उभयोरपि संवादस्त्वहं ब्रह्मेत्यजायत ॥ ३.४०.५० ॥

अ५ अन्नाभिकमलाज्जातस्त्वं यन्ममात्मजः ।
सृष्टिकर्ता त्वहं ब्रह्मा नामसाधर्म्यतस्तथा ।
त्वं च रुद्रश्च मे पुत्रौ सृष्टिकर्तुरुभौ युवाम् ॥ ३.४०.५१ ॥

इति मायामोहितयोरुभयोरन्तरे तदा ।
तयोश्च स्वस्य माहात्म्यमहं ब्रह्मेति दर्शयन् ।
प्रादुरासीन्महाज्योतिस्तम्भरूपो महेश्वरः ॥ ३.४०.५२ ॥

ज्ञात्वैवैनं महेशानं विष्णुस्तूष्णीं ततः स्थितः ।
पञ्चवक्त्रस्ततो ब्रह्मा ह्यवमत्यैवमास्थितः ।
ब्रह्मणः शिरसामूर्ध्वं ज्योतिश्चक्रमभूत्पुरः ॥ ३.४०.५३ ॥

तन्मध्ये संस्थितो देवः प्रादुरासोमया सह ।
ऊर्ध्वमैक्षथ भूयस्तमवमत्य वचोऽब्रवीत् ॥ ३.४०.५४ ॥

तन्निशम्य भृशं क्रोधमवाप त्रिपुरान्तकः ।
विष्णुमेवं तदालोक्य क्रोधेनैव विकारतः ॥ ३.४०.५५ ॥

तयोरेव समुत्पन्नो भैरवः क्रोधसंयुतः ।
मूर्धानमेकं चिच्छेद नखेनैव तदा विधेः ।
हाहेति तत्र सर्वेऽपि क्रन्दन्तश्च पलायिताः ॥ ३.४०.५६ ॥

अथ ब्रह्मकपालं तु नखलग्नं स भैरवः ।
भूयोभूयो धुनोति स्म तथापि न मुमोच तम् ॥ ३.४०.५७ ॥

तद्ब्रह्महत्यामुक्त्यर्थं चचार धरणीतले ।
पुण्यक्षेत्राणि सर्वाणि गङ्गाद्याश्च महानदीः ॥ ३.४०.५८ ॥

न च ताभिर्विमुक्तोऽभूत्कपाली ब्रह्महत्यया ।
विषण्णवदनो दीनो निःश्रीक इव लक्षितः ।
चिरेण प्राप्तवान्काञ्चीं ब्रह्मणा पूर्वमोषिताम् ॥ ३.४०.५९ ॥

तत्र भिक्षामटन्नित्यं सेवमानः परा श्रियम् ।
पञ्चतीर्थे प्रतिदिनं स्नात्वा भूलक्षणाङ्किते ॥ ३.४०.६० ॥

कञ्चित्कालमुवासाथ प्रभ्रान्त इव बिल्वलः ।
काञ्चीक्षेत्रनिवासेन क्रमेण प्रयताशयः ॥ ३.४०.६१ ॥

निर्धूतनिखिलातङ्कः श्रीदेवीं मनसा वान् ।
उत्तरे सेवितुं लक्ष्म्या वासुदेवेन दक्षिणे ॥ ३.४०.६२ ॥

श्रीकामकोष्ठमागत्य पुरस्तात्तस्य संस्थितः ।
आदिलक्ष्मीपदध्यानमाततान यतात्मवान् ॥ ३.४०.६३ ॥

यथा दीपो निवातस्थो निस्तरङ्गो यथाम्बुधिः ।
तथान्तर्वायुरोधेन न चचाला चलेश्वरः ॥ ३.४०.६४ ॥

तैलधारावदच्छिन्नामनवच्छिन्नभैरवः ।
वितेने शैलतनयानाथश्रीध्यानसन्ततिम् ।
न ब्रह्मा नैव विष्णुर्वा न सिद्धः कपिलोऽपि वा ॥ ३.४०.६५ ॥

नान्ये च सनकाद्या ये मुनयो वा शुकादयः ।
तया समाधिनिष्ठायां न समर्थाः कथञ्चन ॥ ३.४०.६६ ॥

अथ श्रीभावयोगेन श्रीभावं प्राप्तवाञ्शिवः ।
ततः प्रसन्ना श्रीदेवी प्रभामण्डलवर्तिनी ।
अर्धरात्रे पुरः स्थित्वा वाचं प्रोवाच वाङ्मयी ॥ ३.४०.६७ ॥

श्रीकण्ठ सर्वपापघ्न किं पापं तव विद्यते ।
मद्रूपस्त्वं कथं देहः सेयं लोकविडम्बना ॥ ३.४०.६८ ॥

श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि ।
इत्युक्त्वान्तर्दधे तत्र महासिंहासनेश्वरी ॥ ३.४०.६९ ॥

भैरवोऽपि प्रहृष्टात्मा कृतार्थः श्रीविलोकनात् ।
विनीय तं निशाशेषं श्रीध्यानैकपरायणः ॥ ३.४०.७० ॥

प्रातः पञ्चमहातीर्थे स्नात्वा सन्ध्यामुपास्य च ।
पुनः पुनर्धूनुते स्म करलग्नं कपालकम् ॥ ३.४०.७१ ॥

तथापि तत्तु नास्रंसत्स निर्वेदं परं गतः ।
स्वप्नः किमेष माया वा मानसभ्रान्तिरेव वा ॥ ३.४०.७२ ॥

मुहुरेवं विचिन्त्येशः शोकव्याकुलमानसः ।
स्वयमेव निगृह्याथ शोकं धीराग्रणीः शिवः ॥ ३.४०.७३ ॥

तुलसीमण्डलं नत्वा पूजयित्वा पुरः स्थितः ।
निगृहीतेन्द्रियग्रामः समाधिस्थोऽभवत्पुनः ॥ ३.४०.७४ ॥

याममात्रे गते देवी पुनः सान्निध्यमागता ।
अलं समाधिना शम्भो निमज्जात्र सरोवरे ॥ ३.४०.७५ ॥

इत्या दिश्य तिरोऽधत्त सोऽपि चिन्तामुपागमत् ।
इयं च माया स्वप्नो वा किं कर्त्तव्यं मयाथ वा ॥ ३.४०.७६ ॥
मूलम्
इत्या दिश्य तिरोऽधत्त सोऽपि चिन्तामुपागमत् ।
इयं च माया स्वप्नो वा किं कर्त्तव्यं मयाथ वा ॥ ३.४०.७६ ॥
विश्वास-प्रस्तुतिः
श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि ।
इत्युक्तं श्रीपरादेव्या यामातीतमिदं दिनम् ॥ ३.४०.७७ ॥

एवं सर्वं च मिथ्यैवेत्यधिकं चिन्तयावृतः ।
भगवान्व्यो मवाण्या तु निमज्जाप्स्विति गर्जितम् ॥ ३.४०.७८ ॥

श्रुत्वा शङ्कां समुत्सृज्य तत्त्वं निश्चित्य शङ्करः ।
निममज्ज सरस्यां तु गङ्गायां पुनरुत्थितः ॥ ३.४०.७९ ॥

तत्र काशीं समालोक्य किमेतदिति चिन्तयन् ।
स मुहुर्तं स्थितस्तूष्णीं नखलीनकपालकः ॥ ३.४०.८० ॥

ललाटन्त पमुद्वीक्ष्य तरणिं तरुणोन्दुभृत् ।
भिक्षार्थं नगरीमेनां प्रविवेश वशी शिवः ॥ ३.४०.८१ ॥

गृहाणि कानिचिद्गत्वा प्रतोल्यां पर्यटन्भवः ।
सोऽपश्यदग्रतः काञ्चित्काञ्चीं श्रीदेवताकृतिम् ॥ ३.४०.८२ ॥

भिक्षां ज्योतिर्मयीं तस्मै दत्त्वा क्षिप्रं तिरोदधे ।
क्षणाद्ब्रह्मकपालं तत्प्रच्युतं तन्नखाग्रतः ॥ ३.४०.८३ ॥

तद्दृष्ट्वाद्भुतमीशानः कामाक्षी शीलमुत्तमम् ।
प्रसन्नवदनाम्भोजो बहु मेने मुहुः परम् ॥ ३.४०.८४ ॥

पुरी काञ्ची पुरी पुण्या नदी कम्पा नदी परा ।
देवता सैव कामाक्षीत्यासीत्सम्भावना पुरः ॥ ३.४०.८५ ॥

इत्थं देवीप्रभावेण विमुक्तः सङ्कटाद्धरः ।
स्वस्थः स्वस्थानमगमच्छ्लाघमानः परां श्रियम् ॥ ३.४०.८६ ॥

पुनरन्यत्प्रवक्ष्यामि विलासं शृणु कुम्भज ।
प्रभावं श्रीमहादेव्याः कामदं शृण्वतां सदा ॥ ३.४०.८७ ॥

अयोध्याधिपतिः श्रीमान्नाम्ना दशरथो नृपः ।
सन्तानरहितोऽतिष्ठद्बहुकालं शुचाकुलः ॥ ३.४०.८८ ॥

रहस्याहूय मतिमान्वशिष्ठं स्वपुरोहितम् ।
उवाचाचारसंशुद्धः सर्वशास्त्रार्थवेदिनम् ॥ ३.४०.८९ ॥

श्रीनाथ बहवोऽतीताः कालानाधिगतः सुतः ।
सन्ततेर्मम सन्तापः सन्ततं वर्धतेतराम् ।
किं कुर्वे यदि सन्तानसम्पत्स्यात्तन्निवेदय ॥ ३.४०.९० ॥

वशिष्ठ उवाच
मम वंश महाराज रहस्यं कथयामि ते ।
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
एता पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः ॥ ३.४०.९१ ॥

अस्याः सान्निध्यमात्रेण महात्रिपुरसुन्दरीम् ।
अर्चयन्ति ह्ययोध्यायां मनुष्या अधिदेवताम् ॥ ३.४०.९२ ॥

नैतस्याः सदृशी काचिद्देवता विद्यते परा ।
एनामेवर्चयन्त्यन्ये सर्वे श्रीदेवतां नृप ॥ ३.४०.९३ ॥

ब्रह्मविष्णुमहेशाद्याः सस्त्रीकाः सर्वदा सदा ।
नारिकेलफलालीभिः पनसैः कदलीफलैः ॥ ३.४०.९४ ॥

मध्वाज्यशर्कराप्राज्यैर्महापायसराशिभिः ।
सिद्धद्रव्यविशेषैश्च पूजयेत्त्रिपुराम्बिकाम् ।
अभीष्टमचिरेणैव सम्प्रदास्यति सैव नः ॥ ३.४०.९५ ॥

इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः ।
स्वाङ्गजप्राप्तये भूयो विससर्ज विशाम्पतिः ॥ ३.४०.९६ ॥

ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम् ।
अर्चयामास राजेन्द्रो भक्त्या परमया युतः ॥ ३.४०.९७ ॥

एवं प्रतिदिनं पूजां विधाय प्रीतमानसः ।
अयोध्यादेवताधामामशिषत्तत्र सङ्गतः ॥ ३.४०.९८ ॥

अर्धरात्रे व्यतीते तु निभृतोल्लासदीपिके ।
किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुराम्बिका ॥ ३.४०.९९ ॥

पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।
स्थित्वा वाचमुवाचेमां मन्दमिन्दुमतीसुतम् ॥ ३.४०.१०० ॥

अस्ति पङ्क्तिरथ श्रीमन्पुत्रभाग्यं तवानघ ।
विश्वासघातकर्माणि सन्ति पूर्वकृतानि ते ॥ ३.४०.१०१ ॥

तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम् ।
स्नात्वा कम्पासरस्यां च तत्र मां पश्य पावनीम् ॥ ३.४०.१०२ ॥

मध्ये काञ्चीपुरस्य त्वं कन्दराकाशमध्यगम् ।
कामकोष्ठं विपाप्मापि सप्तद्वारबिलान्वितम् ॥ ३.४०.१०३ ॥

साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम् ।
प्राङ्मुखी तत्र वर्तेऽहं महासिंहासनेश्वरी ॥ ३.४०.१०४ ॥

महालक्ष्मीस्वरूपेण द्विभुजा पद्मधारिणी ।
चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम् ॥ ३.४०.१०५ ॥

ममाक्षिजा महागौरी वर्तते मम दक्षिणे ।
सौन्दर्यसारसीमा सा सर्वाभरणभूषिता ॥ ३.४०.१०६ ॥

मया च कल्पिताऽवासा द्विभुजा पद्मधारिणी ।
महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता ॥ ३.४०.१०७ ॥

आपीठमौलिपर्यन्तं पश्य तस्तां ममांशजाम् ।
पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥ ३.४०.१०८ ॥

कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।
कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥ ३.४०.१०९ ॥

कुरुष्व मे महापूजां सितामध्वाज्यपायसैः ।
विविधैर्भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः ॥ ३.४०.११० ॥

तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम् ।
उपदिश्येति सम्राज्ञी दिव्यमूर्तिस्तिरोदधे ॥ ३.४०.१११ ॥

राजापि सहसोत्थाय किमेतदिति विस्मितः ।
देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम् ॥ ३.४०.११२ ॥

तस्यै तद्रात्रिवृत्तान्तं कथयामास सादरम् ।
तत्समा कर्ण्य सा देवी सन्तोषमभजत्तदा ॥ ३.४०.११३ ॥

प्राप्तहर्षो नृपः प्रातस्तया दयितया सह ।
अनीकसचिवोपेतः काञ्चीपुरमुपागमत् ॥ ३.४०.११४ ॥

स्नात्वा कम्पातरङ्गिण्यां दृष्ट्वा देवीं च पावनीम् ।
पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः ॥ ३.४०.११५ ॥

गोभूवस्त्र हिरण्याद्यैस्तत्तीर्थक्षेत्रवासिनः ।
प्रीणयित्वा सपत्नीकस्तथा तद्भक्तिपूजकान् ॥ ३.४०.११६ ॥

अथालयं समाविश्य महाभक्त्या नृपोत्तमः ।
प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः ॥ ३.४०.११७ ॥

ततः सन्निधिमागत्य देव्या कौसल्यया सह ।
श्रीकामकोष्ठनिलयं महात्रिपुरसुन्दरीम् ॥ ३.४०.११८ ॥

त्रिमूर्तिजननीमम्बां दृष्ट्वा श्रीचक्ररूपिणीम् ।
प्रणिपत्य तु साष्टाङ्गं भार्यया सह भक्तिमान् ॥ ३.४०.११९ ॥

स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते ।
दुर्वासा सशिष्येण पूजार्थं पूर्वकल्पिते ॥ ३.४०.१२० ॥

दासीदासध्वजारोहगृहोत्सवसमन्विते ।
तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्घपूजनम् ॥ ३.४०.१२१ ॥

रात्रौ स्वप्ने तु यद्रूपं दृष्टवान्स्वपुरे महः ।
तदेवात्रापि सन्दध्यौ सन्निधौ राजसत्तमः ॥ ३.४०.१२२ ॥

चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च ।
दिव्यान्यायतनान्यस्यै दत्त्वा स्तोत्रं चकार ह ॥ ३.४०.१२३ ॥

पादाग्रलम्बिपरमाभरणाभिरामेमञ्जीररत्नरुचिमञ्जुलपादपद्मे ।
पीताम्बरस्फुरितपेशलहेमकाञ्चि केयूरकङ्कणपरिष्कृतबाहुवल्लि ॥ ३.४०.१२४ ॥

पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे रत्नोर्मिकासुमशराञ्चितदक्षहस्ते ।
वक्षोजमण्डलविलासिवलक्षहारि पाशाङ्कुशाङ्गदलसद्भुजशोभिताङ्गि ॥ ३.४०.१२५ ॥

वक्त्रश्रिया विजितशारदचन्द्रबिम्बे ताटङ्करत्नकरमण्डितगण्डभागे ।
वामे करे सरसिजं सुबिसं दधाने कारुण्यनिर्झरदपाङ्गयुते महेशि ॥ ३.४०.१२६ ॥

माणिक्यसूत्रमणिभासुरकम्बुकण्ठि भालस्थचन्द्रशकलोज्जवलितालकाढ्ये ।
मन्दस्मितस्फुरणशालिनि मञ्जुनासे नेत्रश्रिया विजितनीलसरोजपत्रे ॥ ३.४०.१२७ ॥

सुभ्रूलते सुवदने सुललाटचित्रे योगीन्द्रमानससरोजनिवासहंसि ।
रत्नानुबद्धतपनीयमहाकिरीटे सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये ॥ ३.४०.१२८ ॥

काङ्क्षानुरूपवरदे करुणार्द्रचित्ते साम्राज्यसम्पदभिमानिनि चक्रनाथे ।
इन्द्रादिदेवपरिसेवितपादपद्मे सिंहासनेश्वरी परे मयि सन्निदध्याः ॥ ३.४०.१२९ ॥

इति स्तत्वा स भूपालो बहिर्निर्गत्य भक्तितः ।
तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह ॥ ३.४०.१३० ॥

प्रणम्य दण्डवद्भूमौ कृत्वा चास्याः स्तुतिं पुनः ।
दत्त्वा चास्यै महार्हाणि वासांसि विविधानि च ॥ ३.४०.१३१ ॥

अमुल्यानि महार्हाणि भूषणानि महान्ति च ।
ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया ॥ ३.४०.१३२ ॥

स्वगुरूक्तविधानेन महापूजां विधाय च ।
तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः ॥ ३.४०.१३३ ॥

अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् ।
अम्बाभीष्टं प्रदेहीति प्रार्थयामास चेतसा ॥ ३.४०.१३४ ॥

सुप्रसन्ना च कामाक्षी सान्तरिक्षगिरावदत् ।
भविष्यन्ति मदंशास्ते चत्वारस्तनया नृप ॥ ३.४०.१३५ ॥

इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः ।
श्रियं प्रणम्य साष्टाङ्गमननन्यशरणः पराम् ॥ ३.४०.१३६ ॥

आमन्त्र्य मनसैवाम्बां सस्त्रीकः सह मन्त्रिभिः ।
अयोध्यां नगरीं प्रापदिन्दुमत्यास्तु नन्दनः ॥ ३.४०.१३७ ॥

एवं प्रभावा कामाक्षी सर्वलोकहितैषिणी ।
सर्वेषामपि भक्तानां काङ्क्षितं पूरयत्यलम् ॥ ३.४०.१३८ ॥

एनां लोकेषु बहवः कामाक्षीं परदेवताम् ।
उपास्य विधिवद्भक्त्या प्राप्ताः कामानशेषतः ॥ ३.४०.१३९ ॥

अद्यापि प्राप्नुवन्त्येव भक्तिमन्तः फलं मुने ।
अनेके च भविष्यन्ति कामाक्ष्याः करुणादृशः ॥ ३.४०.१४० ॥

माहात्म्यमस्याः श्रीदेव्याः को वा वर्णयितुं क्षमः ।
नाहं न शम्भुर्न ब्रह्मा न विष्णुः किमुतापरे ॥ ३.४०.१४१ ॥

इति ते कथितं किञ्चित्कामाक्ष्याः शीलमुज्ज्वलम् ।
शृण्वतां पठतां चापि सर्वपापहरं स्मृतम् ॥ ३.४०.१४२ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चत्वारिंशोऽध्यायः