विश्वास-प्रस्तुतिः
अगस्त्य उवाच
श्रुतमेतन्महावृत्तमाविर्भावादिकं महत् ।
भण्डासुरवधश्चैव देव्याः श्रीनगरस्थितिः ॥ ३.३८.१ ॥
मूलम्

इदानीं श्रोतुमिच्छामि तस्या मत्रस्य साधनम् ।
तन्मन्त्राणां लक्षणं च सर्वमेतन्निवेदय ॥ ३.३८.२ ॥

हयग्रीव उवाच
सर्वेभ्योऽपि पदार्थेभ्यः शाब्दं वस्तु महत्तरम् ।
सर्वेभ्योऽपि हि शब्देभ्यो वेदराशिर्महान्मुने ॥ ३.३८.३ ॥

सर्वेभ्योऽपि हि वेदेभ्यो वेदमन्त्रा महत्तराः ।
सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः ॥ ३.३८.४ ॥

तेभ्योऽपि दौर्गमन्त्रास्तु महान्तो मुनिपुङ्गव ।
तेभ्यो गाणपता मन्त्रा मुने वीर्य महत्तराः ॥ ३.३८.५ ॥

तेभ्योऽप्यर्कस्य मन्त्रास्तु तेभ्यः शैवा महत्तराः ।
तेभ्योऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सारस्वता वराः ॥ ३.३८.६ ॥

तेभ्योऽपि गिरिजामन्त्रास्तेभ्यश्चाम्नायभेदजाः ।
सर्वाम्नायमनुभ्योऽपि वाराहा मनवो वराः ॥ ३.३८.७ ॥

तेभ्यः श्यामामनुवरा विशिष्टा इल्वलान्तक ।
तेभ्योऽपि ललितामन्त्रा दशभेदविभेदिताः ॥ ३.३८.८ ॥

तेषु द्वौ मनुराजौ तु वरिष्ठौ विन्ध्यमर्दन ।
लोपामुद्रा कामराज इति ख्यातिमुपागतौ ॥ ३.३८.९ ॥

ह्रादिस्तु लोपामुद्रा स्यात्कामराजस्तु कादिकाः ।
हंसादेर्वाच्यतां याताः कामराजो महेस्वरः ॥ ३.३८.१० ॥

स्मरादेर्वाच्यतां याता देवी श्रीललिताम्बिका ।
हादिकाद्योर्मन्त्रयोस्तु भेदो वर्णत्रयोद्भवः ॥ ३.३८.११ ॥

त्योश्च कामराजोऽयं सिद्धिदो भक्तिशालिनाम् ।
शिवेन शक्त्या कामेन क्षित्या चैव तु मायया ॥ ३.३८.१२ ॥

हंसेन भृगुणा चैव कामेन शशिमौलिना ।
शक्रेण भुवनेशेन चन्द्रेण च मनोभुवा ॥ ३.३८.१३ ॥

क्षित्या हृल्लेखया चैव प्रोक्तो हंसादिमन्त्रराट् ।
कामादिमन्त्रराजस्तु स्मरयोनिः श्रियो मुखे ॥ ३.३८.१४ ॥

पञ्चत्रिकमहाविद्या ललिताम्बा प्रवाचिकाम् ।
ये यजन्ति महाभागास्तेषां सर्वत्र सिद्धये ॥ ३.३८.१५ ॥

सद्गुरोस्तु मनुं प्राप्य त्रिपञ्चार्णपरिष्कृतम् ।
सम्यक्संसाधयेद्विद्वान्वक्ष्यमाणप्रकारतः ॥ ३.३८.१६ ॥

तत्क्रमेण प्रवक्ष्यामि सावधानो मुने शृणु ।
प्रातरुत्थाय शिरसिस्मृत्वा कमलमुज्ज्वलम् ॥ ३.३८.१७ ॥

सहस्रपत्रशोभाढ्यं सकेशरसुकर्णिकम् ।
तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयम् ॥ ३.३८.१८ ॥

ततोबहिर्विनिर्गत्य कुर्याच्छौचादिकाः क्रियाः ।
अथागत्य च तैलेन सामोदेन विलेपितः ॥ ३.३८.१९ ॥

उद्वर्तितश्च सुस्नातः शुद्धेनोष्णेन वारिणा ।
आपो निसर्गतः पूताः किं पुनर्वह्निसंयुताः ।
तस्मादुष्णोदके स्नायात्तदभावे यथोदकम् ॥ ३.३८.२० ॥

परिधाय पटौ शुद्धे कौसुम्भौ वाथ वारुणौ ।
आचम्य प्रयतो विद्वान्हृदि ध्यायन्पराम्बिकाम् ॥ ३.३८.२१ ॥

ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा पट्टवर्धनमेव वा ।
अगस्त्यपत्राकारं वा धृत्वा भाले निजोचितम् ।
अन्तर्हितश्च शुद्धात्मा सन्ध्यावन्दनमाचरेत् ॥ ३.३८.२२ ॥

अश्वत्थपत्राकारेण पात्रेण सकुशाक्षतम् ।
सपुष्पचन्दनं चार्ध्यं मार्तण्डाय समुत्क्षिपेत् ॥ ३.३८.२३ ॥

तथार्ध्यभावदेवत्वाल्ललितायै त्रिरर्ध्यकम् ।
तर्प्पयित्वा यथाशक्ति मूलेन ललितेश्वरीम् ॥ ३.३८.२४ ॥

देवर्षिपितृवर्गांश्च तर्पयित्वा विधानतः ।
दिवाकरमुपास्थाय देवीं च रविबिम्बगाम् ॥ ३.३८.२५ ॥

मौनी विशुद्धहृदयः प्रविश्य मखमन्दिरम् ।
चारुकर्पूरकस्तूरीचन्दनादिविलेपितः ॥ ३.३८.२६ ॥

भूषणैर्भूषिताङ्गश्च चारुशृङ्गारवेषधृक् ।
आमोदिकुसुमस्रग्भिरवतंसितकुन्तलः ॥ ३.३८.२७ ॥

सङ्कल्पभूषणो वाथ यथाविभवभूषणः ।
पूजाखण्डे वक्ष्यमाणान्कृत्वा न्यासाननुक्रमात् ॥ ३.३८.२८ ॥

मृद्वासने समासीनो ध्यायेच्छ्रीनगरं महत् ।
नानावृक्षमहोद्यानमारभ्य ललितावधि ॥ ३.३८.२९ ॥

ध्यायेच्छ्रीनगरं दिव्यं बहिरन्तरतः शुचिः ।
पूजाखण्डोक्तमार्गेम पूजां कृत्वा विलक्षणः ॥ ३.३८.३० ॥

अक्षमालां समादाय चन्द्रकस्तूरिवासिताम् ।
उदङ्मुखः प्राङ्खो वा जपेत्सिंहासनेश्वरीम् ।
षट्त्रिंशल्लक्षसङ्ख्यां तु जपेद्विद्या प्रसीदति ॥ ३.३८.३१ ॥

तद्दशांशस्तु होमः स्यात्तद्दशांशं च तर्पणम् ।
तद्दशांशं ब्राह्मणानां भोजनं समुदीरितम् ॥ ३.३८.३२ ॥

एवं स सिद्धमन्त्रस्तु कुर्यात्काम्यजपं पुनः ।
लक्षमात्रं जपित्वा तु मनुष्यान्वशमानयेत् ॥ ३.३८.३३ ॥

लक्षद्वितयजाप्येन नारीः सर्वा वशं नयेत् ।
लक्षत्रितयजापेन सर्वान्वशयते नृपान् ॥ ३.३८.३४ ॥

चतुर्लक्षजपे जाते क्षुभ्यन्ति फणिकन्यकाः ।
पञ्चलक्षजपे जाते सर्वाः पातालयोषितः ॥ ३.३८.३५ ॥

भूलोकसुन्दरीवर्गो वश्यःषड्लक्षजापतः ।
क्षुभ्यन्ति सप्त लक्षेण स्वर्गलोकमृगीदृशः ॥ ३.३८.३६ ॥

देवयोनिभवाः सर्वेऽप्यष्टलक्षजपाद्वशाः ।
नवलक्षेण गीर्वाणा नखिलान्वशमानयेत् ॥ ३.३८.३७ ॥

लक्षैकादशजाप्येन ब्रह्मविष्णुमहेश्वरान् ।
लक्षद्वादशजापेन सिद्धीरष्टौ वशं नयेत् ॥ ३.३८.३८ ॥

इन्द्रस्येन्द्रत्वमेतेन मन्त्रेण ह्यभवत्पुरा ।
विष्णोर्विष्णुत्वमेतेन शिवस्य शिवतामुना ॥ ३.३८.३९ ॥

इन्दोश्चन्द्रत्वमेतेन भानोर्भास्करतामुना ।
सर्वासां देवतानां च तास्ताः सिद्धय उज्ज्वलाः ।
अनेन मन्त्रराजेन जाता इत्यवधारय ॥ ३.३८.४० ॥

एतन्मन्त्रस्य जापी तु सर्वपापविवर्जितः ।
त्रैलोक्यसुन्दराकारो मन्मथस्यापि मोहकृत् ॥ ३.३८.४१ ॥

सर्वाभिः सिद्धिभिर्युक्तः सर्वज्ञः सर्वपूजितः ।
दर्शनादेव सर्वषामन्तरालस्य पूरकः ॥ ३.३८.४२ ॥

वाचा वाचस्पतिसमः श्रिया श्रीपतिसानभः ।
बले मरुत्समानः स्यात्स्थिरत्वे हिमवानिव ॥ ३.३८.४३ ॥

औन्नत्ये मेरुतुल्यः स्याद्गाम्भीर्येण महार्णवः ।
क्षणात्क्षोभकरो मूर्त्या ग्रामपल्लीपुरादिषु ॥ ३.३८.४४ ॥

ईषद्भूभङ्गमात्रेण स्तम्भको जृम्भकस्तथा ।
उच्चाटको मोहकश्च मारको दुष्टचेतसाम् ॥ ३.३८.४५ ॥

क्रुद्धः प्रसीदति हठात्तस्य दर्शनहर्षितः ।
अष्टादशसु विद्यासु निरूढिमभिगच्छति ॥ ३.३८.४६ ॥

मन्दाकिनीपूरसमा मधुरा तस्य भारती ।
न तस्याविदितं किञ्चित्सर्वशास्त्रेषु कुम्भज ॥ ३.३८.४७ ॥

दर्शनानि च सर्वाणि कर्तु खण्डयितुं पटुः ।
तत्त्वञ्जानाति निखिलं सर्वज्ञत्वं च गच्छति ॥ ३.३८.४८ ॥

सदा दयार्द्रहृदयं तस्य सर्वेषु जन्तुषु ।
तत्कोपाग्नेर्विषयतां गन्तुं नालं जगत्त्रयी ॥ ३.३८.४९ ॥

तस्य दर्शनवेलायां श्लथन्नीवीनिबन्धनाः ।
विश्रस्तरशनाबन्धा गलत्कुण्डलसञ्चयाः ॥ ३.३८.५० ॥

घर्मवारिकणश्रेणीमुक्ताभूषितमूर्तयः ।
अत्यन्तरागतरलव्यापारनयनाञ्चलाः ॥ ३.३८.५१ ॥

स्रंसमानकराम्भोजमणिकङ्कणपङ्क्तयः ।
ऊरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया ॥ ३.३८.५२ ॥

द्रवत्कन्दर्पसदनाः पुलकाङ्कुरभूषणाः ।
अन्यमाकारमिव च प्राप्ता मानसजन्मना ॥ ३.३८.५३ ॥

दीप्यमाना इवोद्दामरागज्वालाकदम्बकैः ।
वीक्ष्यमाणा इवानङ्गशरपावकवृष्टिभिः ॥ ३.३८.५४ ॥

उत्कण्ठया तुद्यमानाः खिद्यमाना तनूष्मणा ।
सिच्यमानाः श्रमजलैः शुच्यमानाश्च लज्जया ॥ ३.३८.५५ ॥

कुलं जातिं च शीलं च लज्जां च परिवारकम् ।
लोकाद्भयं बन्धुभयं परलोकभये तथा ॥ ३.३८.५६ ॥

मुञ्चन्त्यो हृदि याचन्त्यो भवन्ति हरिणीदृशः ।
अरण्ये पत्तने वापि देवालयमठेषु वा ।
यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः ॥ ३.३८.५७ ॥

अत्याहतो यथैवाम्भोबिन्दुर्भ्रमति पुष्करे ।
तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम् ॥ ३.३८.५८ ॥

विनीतानवनीतानां विद्रावणमहाफलम् ।
तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः ॥ ३.३८.५९ ॥

चन्द्रार्कमण्डलद्वन्द्वकुचमण्डलशोभिनी ।
त्रिलोके ललना तस्य दर्शनादनुरज्यति ।
अन्यासां तु वराकीणां वक्तव्यं किं तपोधन ॥ ३.३८.६० ॥

पत्तनेषु च वीथीषु चत्वरेषु वनेषु च ।
तत्कीर्तिघोषणा पुण्या सदा द्युसद्द्रुमायते ॥ ३.३८.६१ ॥

तस्य दर्शनतः पाप जालं नश्यति पापिनाम् ।
तद्गुणा एव घोक्ष्यन्ते सर्वत्र कविपुङ्गवैः ॥ ३.३८.६२ ॥

भिन्नैर्वर्णैरायुधैश्च भिन्नैर्वाहनभूषणैः ।
ये ध्यायन्ति महादेवीं तास्ताः सिद्धीर्भञ्जति ते ॥ ३.३८.६३ ॥

मनोरादिमखण्डस्तु कुन्देन्दुधवलद्युतिः ।
अहश्चक्रे ज्वलज्ज्वालश्चिन्तनीयस्तु मूलके ॥ ३.३८.६४ ॥

इन्द्रगोपक सङ्काशो द्वितीयो मनुखण्डकः ।
नीभालनीयेऽहश्चक्रे आबालान्तज्वलच्छिखः ॥ ३.३८.६५ ॥

अथ बालादिपद्मस्थद्विदलाम्बुजकोटरे ।
नीभालनीयस्तार्तीयखण्डो दुरितखण्डकः ॥ ३.३८.६६ ॥

मुक्ता ध्येया शशिजोत्स्ना धवलाकृतिरम्बिका ।
रक्तसन्ध्यकरोचिः स्याद्वशीकरणकर्मणि ॥ ३.३८.६७ ॥

सर्वसम्पत्तिलाभे तु श्यामलाङ्गी विचिन्त्यते ।
नीला च मूकीकरणे पीता स्तम्भनकर्मणि ॥ ३.३८.६८ ॥

कवित्वे विशदाकारा स्फटिकोपलनिर्मला ।
धनलाभे सुवर्णाभा चिन्त्यते ललिताम्बिका ॥ ३.३८.६९ ॥

आमूलमाब्रह्मबिलं ज्वलन्माणिक्यदीपवत् ।
ये ध्यायन्ति महापुञ्जं ते स्युः संसिद्धसिद्धयः ॥ ३.३८.७० ॥

एवं बहुप्रकारेण ध्यानभेदेन कुम्भज ।
निभालयन्तः श्रीदेवीं भजन्ति महतीं श्रियम् ।
प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचन ॥ ३.३८.७१ ॥

यैस्तु तप्तं तपस्तीव्रं तैरेवात्मनि ध्यायते ।
तस्य नो पश्चिमं जन्म स्वयं यो वा न शङ्करः ।
न तेन लभ्यते विद्या ललिता परमेश्वरी ॥ ३.३८.७२ ॥

वंशे तु यस्य कस्यापि भवेदेष मनुर्यदि ।
तद्वंश्याः सर्व एव स्युर्मुक्तास्तृप्ता न संशयः ॥ ३.३८.७३ ॥

गुप्ताद्गुप्ततरैवैषा सर्वशास्त्रेषु निश्चिता ।
वेदाः समस्तशास्त्राणि स्तुवन्ति ललितेश्वरीम् ॥ ३.३८.७४ ॥

परमात्मेयमेव स्यादियमेव परा गतिः ।
इयमेव महत्तीर्थमियमेव महत्फलम् ॥ ३.३८.७५ ॥

इमां गायन्ति मुनयो ध्यायन्ति सनकादयः ।
अर्चन्तीमां सुरश्रेष्ठा ब्रह्माद्याः पञ्चसिद्धिदाम् ॥ ३.३८.७६ ॥

न प्राप्यते कुचारित्रैः कुत्सितैः कुटिलाशयैः ।
दैवबाह्यैर्वृथातर्कैर्वृथा विभ्रान्त बुद्धिभिः ॥ ३.३८.७७ ॥

नष्टैरशीलैरुच्छिष्टैः कुलभ्रष्टैश्च निष्ठुरैः ।
दर्शनद्वेषिभिः पापशीलैराचारनिन्दकैः ॥ ३.३८.७८ ॥

उद्धतैरुद्धतालापैर्दाम्भिकैरतिमानिभिः ।
एतादृशानां मर्त्यानां देवानां चातिदुर्लभा ॥ ३.३८.७९ ॥

देवतानां च पूज्यत्वमस्याः प्रोक्तं घटोद्भव ।
भण्डासुर वधायैषा प्रादुर्भूता चिदग्नितः ॥ ३.३८.८० ॥

महात्रिपुरसुन्दर्या सूर्तिस्तेजोविजृम्भिता ।
कामाक्षीति विधात्रा तु प्रस्तुता ललितेश्वरी ॥ ३.३८.८१ ॥

ध्यायतः परया भक्त्या तां परां ललिताम्बिकाम् ।
सदाशिवस्य मनसो लालनाल्ललिताभिधा ॥ ३.३८.८२ ॥

यद्यत्कृतवती कृत्यं तत्सर्वं विनिवेदितम् ।
पूजाविधानमखिलं शास्त्रोक्तेनैव वर्त्मना ।
खण्डान्तरे वदिष्यामि तद्विलासं महाद्भुतम् ॥ ३.३८.८३ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मन्त्रराजसाधनप्रकारकथनन्नामाष्टत्रिंशोऽध्यायः