विश्वास-प्रस्तुतिः
हयग्रीव उवाच
सर्वज्ञद्यन्तरालस्योपरिष्टात्कलशोद्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३.३७.१ ॥
मूलम्

वशिन्याद्यन्तरं ज्ञेयं प्राग्वत्सोपानमन्दिरम् ।
सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम् ॥ ३.३७.२ ॥

वशिन्याद्यास्तत्र देव्यः पूर्वादिदिगनुक्रमात् ।
स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी ॥ ३.३७.३ ॥

कवर्गसहिता पश्चात्कामेश्वर्याख्यवाह्मयी ।
चवर्गजुष्टा वागीशी मोदिनी स्यात्तृतीयका ॥ ३.३७.४ ॥

टवर्गमण्डिताकारा विमलाख्या सरस्वती ।
तवर्गेण तथोपेता पञ्चमी वाक्प्रधारणा ॥ ३.३७.५ ॥

पवर्गेण परिस्फीता षष्ठी तु जयिनी मता ।
यादिवर्णचतुष्कोणे सर्वैश्वर्यादिवाङ्मयी ॥ ३.३७.६ ॥

साधिकाक्षरषट्केन कौलिनी त्वष्टमी मता ।
एता देव्यो जपरता मुक्ताभरणमण्डिताः ॥ ३.३७.७ ॥

सदा स्फुरद्गद्यपद्यलहरीलालिता मताः ।
काव्यैश्च नाटकैश्चैव मधुरैः कर्णहारिभिः ।
विनोदयन्त्यः श्रीदेवीं वर्तन्ते कुम्भसम्भवः ॥ ३.३७.८ ॥

एता रहस्यनाम्नैव ख्याता वातापितापन ।
नायिका स्वस्य चक्रस्य सिद्धानाम्ना प्रकीर्तिता ॥ ३.३७.९ ॥

अस्य चक्रस्य संरक्षाकारिणी खेचरी मता ।
वशिन्याद्यन्तरालस्योपरिष्टाद्विन्ध्यमर्दन ॥ ३.३७.१० ॥

हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
अस्त्रं चक्रमितिज्ञेयं तत्र बाणादिदेवताः ॥ ३.३७.११ ॥

पञ्च बाणेश्वरीदेव्यः पञ्च कामेश्वराशुगाः ।
अङ्कुशद्वितयं दीप्तमादिस्त्रीपुंसयोर्द्वयोः ॥ ३.३७.१२ ॥

धनुर्द्वयं च विन्ध्यारे नव पुण्ड्रेषु कल्पितम् ।
पाशद्वयं च दीप्ताभं चत्वार्यस्त्राणि कुम्भज ॥ ३.३७.१३ ॥

कामेश्वर्यास्तु चत्वारि चत्वारि श्रीमहेशितुः ।
आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च ॥ ३.३७.१४ ॥

भण्डासुरमहायुद्धे दुष्टदानवशोणितैः ।
पीतैरतीव तृप्तानिदिव्यास्त्राण्यति जाग्रति ॥ ३.३७.१५ ॥

एतेषामायुधानां तु परिवारायुधान्यलम् ।
वर्तन्तेऽस्त्रान्तरे तत्र तेषां सङ्ख्या तु कोटिशः ॥ ३.३७.१६ ॥

वज्रशक्तिः शतघ्नी च भुशुण्डी मुसलं तथा ।
कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम् ॥ ३.३७.१७ ॥

एवमादीनि शस्त्राणि सहस्राणां सहस्रशः ।
अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः ॥ ३.३७.१८ ॥

अथ शस्त्रान्तरालस्योपरि वातापितापन ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम् ॥ ३.३७.१९ ॥

कामेशाद्यास्तत्र देव्यस्तिस्रोऽन्या तु चतुर्थिका ।
सैव निःशेषविश्वानां सवित्री ललितेश्वरी ॥ ३.३७.२० ॥

तिसृणां शृणु नामानि कामेशी प्रथमा मता ।
वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः ॥ ३.३७.२१ ॥

सर्वेषां दर्शनानां च या देव्यो विविधाः स्मृताः ।
ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः ॥ ३.३७.२२ ॥

एतासाञ्च प्रसङ्गेषु नित्यानां च प्रसञ्जने ।
चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका ॥ ३.३७.२३ ॥

या कामेश्वरदेवाङ्कशायिनी ललिताम्बिका ।
कामेश्यादिचतुर्थी सा नित्यानां षोडशी मता ॥ ३.३७.२४ ॥

योगिनी चक्रदेवीनां नवमी परिकीर्तिता ।
समयेश्यन्तरालस्योपरिष्टादिल्वलान्तक ॥ ३.३७.२५ ॥

नाथान्तरमिति प्रोक्तं हस्तविंशतिरुन्नतम् ।
चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ॥ ३.३७.२६ ॥

तत्र नाथामहादेव्या योगशास्त्रप्रवर्त्तकाः ।
सर्वेषां मन्त्रगुरवः सर्वविद्यामहार्णवाः ॥ ३.३७.२७ ॥

चत्वारो यागनाथाश्च लोकानामिह गुप्तये ।
सृष्टाः कामंशदेवेन तेषां नामानि मे शृणु ॥ ३.३७.२८ ॥

मित्री च शोडिशश्चैव चर्याख्यः कुम्भसम्भव ।
तैः सृष्टा बहवो लोकारक्षार्थं पादुकात्मकाः ॥ ३.३७.२९ ॥

दिव्यविद्या मानवौघसिद्धौघाः सुरतापसाः ।
प्राप्तसालोक्यसारूप्यसायुज्यादिकसिद्धयः ॥ ३.३७.३० ॥

महान्तो गुरवस्तांस्तु सेवन्ते प्रचुरा गुरून् ।
अथ नाथान्तरालस्योपरिष्टाद्धिष्ण्यमुत्तमम् ॥ ३.३७.३१ ॥

हस्तविंशतिरुन्नमं चतुर्नल्वप्रविस्तरम् ।
नित्यान्तरमिति प्रोक्तं नित्याः पञ्चदशात्र वै ॥ ३.३७.३२ ॥

अथ कामेश्वरी नित्या नित्या च भगमालिनी ।
नित्यक्लिन्ना अपि तथा भेरुण्डा वह्निवासिनी ॥ ३.३७.३३ ॥

महावज्रेश्वरी दूती त्वरिता कुलसुन्दरी ।
नित्या नीलपताका च विजया सर्वमङ्गला ॥ ३.३७.३४ ॥

ज्वालामालिनिका चित्रेत्येताः पञ्चदशोदिताः ।
एता देवीस्वरूपाः स्युर्महाबलपराक्रमाः ॥ ३.३७.३५ ॥

प्रथमा मुख्यतिथितां प्राप्ता व्याप्य जगत्त्रयाः ।
कालत्रितयरूपाश्च कालग्रासविचक्षणाः ॥ ३.३७.३६ ॥

ब्रह्मादीनामशेषाणां चिरकालमुपेयुषाम् ।
तत्तत्कालशतायुष्यरूपा देव्याज्ञया स्थिताः ॥ ३.३७.३७ ॥

नित्योद्यता निरान्तकाः श्रीपराङ्गसमुद्भवाः ।
सेवन्ते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम् ॥ ३.३७.३८ ॥

तासां भवनतां प्राप्ता दीप्ताः पञ्चदशेश्वराः ।
विसृष्टिबिन्दुचक्रे तु षोडश्या भवनं मतम् ॥ ३.३७.३९ ॥

अथ नित्यान्तरालस्योपरिष्टात्कुम्भसम्भव ।
अङ्गदेव्यन्तरं प्रोक्तं हस्तविंशातिरुन्नतम् ॥ ३.३७.४० ॥

चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमन्दिरम् ।
तस्मिन्हृदयदेव्याद्याः शक्तयः सन्ति वै मुने ॥ ३.३७.४१ ॥

हृद्देवी च शिरोदेवी शिखादेवी तथैव च ।
वर्मदेवी दृष्टिदेवी शस्त्रदेवी षडीरिताः ॥ ३.३७.४२ ॥

अत्यन्तसन्निकृष्टास्ताः श्रीकामेश्वरसुभ्रुवः ।
नवलावण्यपूर्णाङ्ग्यः सावधाना धृतायुधाः ॥ ३.३७.४३ ॥

परितो बिन्दुपीठे च भ्राम्यन्तो दृप्तमूर्तयः ।
ललिताज्ञाप्रवर्तिन्यो वशीनां पीठवर्तिकाः ॥ ३.३७.४४ ॥

अथाङ्गदेव्यन्तरस्योपरिष्टान्मण्डलाकृति ।
बिन्दुनाद महापीठं दशहस्तसमुन्नतम् ॥ ३.३७.४५ ॥

नल्वाष्टकप्रविस्तारमुद्यदादित्यसन्निभम् ।
बिन्दुपीठमिदं ज्ञेयं श्रीपीठमपि चेष्यते ॥ ३.३७.४६ ॥

महापीठमिति ज्ञेयं विद्यापीठमपीष्यते ।
आनन्दपीठमपि च पञ्चाशत्पीठरूपधृक् ॥ ३.३७.४७ ॥

तत्र श्रीललितादेव्याः पञ्चब्रह्ममये महत् ।
जागर्ति मञ्चरत्नं तु प्रपञ्चत्रयमूलकम् ॥ ३.३७.४८ ॥

तस्य मञ्चस्य पादास्तु चत्वारः परिकीर्तिताः ।
दशहस्तसमुन्नम्रा हस्तत्रितयविष्ठिताः ॥ ३.३७.४९ ॥

ब्रह्मविष्णुमहेशानेश्वररूपत्वमागताः ।
शक्तिभावमनुप्राप्ताः सदा श्रीध्यानयोगतः ॥ ३.३७.५० ॥

एकस्तु पञ्चपादः स्याज्जपाकुसुमसन्निभः ।
ब्रह्मात्मकः स विज्ञेयो वह्निदिग्भागमाश्रितः ॥ ३.३७.५१ ॥

चतुर्थो मञ्चपादस्तु कर्णिकारकसाररुक् ।
ईश्वरात्मा स विज्ञेय ईशदिग्भागमाश्रितः ॥ ३.३७.५२ ॥

एते सर्वे सायुधाश्च सर्वालङ्कारभूषिताः ।
उपर्यधःस्तम्भरूपा मध्ये पुरुषरूपिणः ॥ ३.३७.५३ ॥

श्रीध्यानमीलिताक्षाश्च श्रीध्यानान्निश्चलाङ्गकाः ।
तेषामुपरि मञ्चस्य फलकस्तु सदाशिवः ॥ ३.३७.५४ ॥

विकासिदाडिमच्छायश्चतुर्नल्वप्रविस्तरः ।
नल्वषट्कायामवांश्च सदाभास्वरमूर्तिमान् ॥ ३.३७.५५ ॥

अङ्गदेव्यन्तरारम्भान्मञ्चस्य फलकावधि ।
चिन्तामणिमयाङ्गानि तत्त्वरूपाणि तापस ॥ ३.३७.५६ ॥

सोपानानि विभासन्ते षट्त्रिंशद्वै निवेशनैः ।
आरोहस्य क्रमेणैव सोपानान्यभिदध्महे ॥ ३.३७.५७ ॥

भूमिरापोऽनलो वायुराकाशो गन्ध एव च ।
रसो रूपं स्पर्शसम्ब्दोपस्थपायुपदानि च ॥ ३.३७.५८ ॥

पाणिवाग्घ्राणजिह्वाश्चत्वक्चक्षुः श्रोत्रमेव च ।
अहङ्कारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ ॥ ३.३७.५९ ॥

नियतिः कालरागौ च कला विद्ये च मायया ।
शुद्धाविद्येश्वरसदाशिवशक्तिः शिवा इति ॥ ३.३७.६० ॥

एताः षट्त्रिंशदाख्यातास्तत्त्वसोपानपङ्क्तयः ।
पूषा सोपानपङ्क्तिश्च मञ्चपूर्वदिशंश्रिताः ॥ ३.३७.६१ ॥

अथ मञ्चस्योपरिष्टाद्धंसतूलिकतल्पकः ।
हस्तमात्रं समुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३.३७.६२ ॥

पादोपधानमूर्धोपधान दन्द्वविराजितम् ।
गड्डकानां चतुः षष्टिशोभितं पाटलत्विषा ॥ ३.३७.६३ ॥

तस्योपरिष्टात्कौसुम्भवसनेनोत्तरच्छदः ।
शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा ॥ ३.३७.६४ ॥

तस्योपरि वसन्पूर्वदिङ्मुखो दययान्वितः ।
शृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः ॥ ३.३७.६५ ॥

उद्यद्भास्करबिम्बाभश्चतुर्हस्तस्त्रिलोचनः ।
हारकेयूरमुकुटकटकाद्यैरलङ्कृतः ॥ ३.३७.६६ ॥

कमनीयस्मितज्योत्स्नामरिपूर्णकपोलभूः ।
जागर्ति भगवानादिदेवः कामेश्वरः शिवः ॥ ३.३७.६७ ॥

तस्योत्सङ्गे समासीना तरुणादित्यपाटला ।
सदा षोडशवर्षा च नवयौवनदर्पिता ॥ ३.३७.६८ ॥

अमृष्टपद्मरागाभा चन्दनाब्जनखच्छटा ।
यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी ॥ ३.३७.६९ ॥

कलनिस्वानमञ्जीरपतत्कङ्कणमोहना ।
अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका ॥ ३.३७.७० ॥

करिशुण्डदोः कदलिकाकान्तितुल्योरुशोभिनी ।
अरुणेन दुकूलेन सुस्पर्शेन तनीयसा ।
अलङ्कृतनितम्बाढ्या जघनाभोगभासुरा ॥ ३.३७.७१ ॥

अर्धोरुकग्रन्थिमती रत्नकाञ्चीविराजिता ।
नतनाभिमहावर्तत्रि वल्यूर्मिप्रभासरित् ॥ ३.३७.७२ ॥

स्तनकुड्मलहिन्दोलमुक्तादामशतावृता ।
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ३.३७.७३ ॥

शिरीषदाममृदुलच्छदाभांश्चतुरो भुजान् ॥ ३.३७.७४ ॥
विश्वास-प्रस्तुतिः
केयूरकङ्कणश्रेणीमण्डितान्सोर्मिकाङ्गुलीन् ।
वहन्ती पतिसंसृष्टशङ्खसुन्दरकन्धरा ॥ ३.३७.७५ ॥

मुखदर्पण वृत्ताभचिबुका पाटलाधरा ।
शुचिभिः पङ्क्तिशुद्धैस्च विद्यारूपैर्विभास्वरैः ।
कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितचन्द्रिका ॥ ३.३७.७६ ॥

स्थूलमौक्तिकसनद्धनानाभरणभासुरा ।
केतकान्तर्दलश्रोणी दीर्घदीर्घविलोचना ॥ ३.३७.७७ ॥

अर्धेन्दुललिते भाले सम्यक्कॢप्तालकच्छटा ।
पालीवतं समाणिक्यकुण्डलामण्डितश्रुतिः ॥ ३.३७.७८ ॥

नवकर्पूरकस्तूरीसदामोदितवीटिका ।
शरच्चञ्चन्निशानाथमण्डलीमधुरानना ॥ ३.३७.७९ ॥

चिन्तामणीनां सारेण कॢप्तचारुकिरीटिका ।
स्फुरत्तिलकरत्नाभभालनेत्रविराजिता ॥ ३.३७.८० ॥

गाढान्धकारनिबिडक्षामकुन्तलसंहतिः ।
सीमन्तरेशाविन्यस्तकिन्दूरश्रेणिभासुरा ॥ ३.३७.८१ ॥

स्फुरच्चन्द्रकलोत्तंसमदलोलविलोचना ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ३.३७.८२ ॥

समस्तलोकमाता च सदानन्दविवर्धिनी ।
ब्रह्मविष्णुगिरीशेशसदाशिवनिदानभूः ॥ ३.३७.८३ ॥

अपाङ्गरिङ्खत्करुणानिर्झरीतर्पिताखिला ।
भासते सा भगवती पापघ्नी ललिताम्बिका ॥ ३.३७.८४ ॥

अन्यदैवतपूजानां यस्याः पूजाफलं विदुः ।
यस्याः पूजाफलं प्राहुयस्या एव हि पूजनम् ॥ ३.३७.८५ ॥

तस्याश्च ललितादेव्या वर्णयामि कथं पुनः ।
वर्षकोटिसहस्रेणाप्येकांशो वर्ण्यते न हि ॥ ३.३७.८६ ॥

वर्ण्यमाना ह्यवाग्रूपा वाचस्तस्यां कुतो गतिः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ३.३७.८७ ॥

बहुना किमिहोक्तेन तत्त्वभूतमिदं शृणु ।
न पक्षपातान्न स्नेहान्न मोहाद्वा मयोच्यते ॥ ३.३७.८८ ॥

सन्तु कल्पतरोः शाखा लेखिन्यस्तपसां निधे ।
मषीपात्राणि सर्वेऽपि सप्त सन्तु महार्णवाः ॥ ३.३७.८९ ॥

पञ्चाशत्कोटिविस्तीर्णा भूमिः पत्रत्वमृच्छतु ।
तस्य लेखनकालोऽस्तु परार्ध्याधिकवत्सरैः ॥ ३.३७.९० ॥

लिखन्तु सर्वे लोकाश्च प्रत्येकं कोटिबाहवः ।
सर्वे बृहस्पतिसमा वक्तारो यदि कुम्भज ॥ ३.३७.९१ ॥

अथापि तस्याः श्रीदेव्याः पादाब्जैकाङ्गुलिद्युतेः ।
सहस्रांशेष्वेकैकांशवर्णना न हि जायते ।
अथ वा वृत्तिरखिला निष्फला तद्गुणस्तुतौ ॥ ३.३७.९२ ॥

बिन्दुपीठस्य परितश्चतुरस्रवया स्थिता ।
महामायाजवनिका लम्बते मेचकप्रभा ॥ ३.३७.९३ ॥

देव्या उपरि हस्तानां विंशतिद्वितयोर्ध्वतः ।
इन्द्रगोपवितानं तु बद्धं त्रैलोक्यदुर्लभम् ॥ ३.३७.९४ ॥

तत्रालङ्कारजालं तु वर्तमानं सुदुर्लभम् ।
मद्वाणी वर्णयिष्यन्ती कण्ठ एव ह्रिया हता ॥ ३.३७.९५ ॥

सैव जानाति तत्सर्वं तत्रत्यमखिलं गुणम् ।
मनसोऽपि हि दूरे तत्सौभाग्यं केनवर्ण्यते ॥ ३.३७.९६ ॥

इत्थं भण्डमहादैत्यवधाय ललिताम्बिका ।
प्रादुर्भुता चिदनलाद्दग्धनिःशेषदानवा ॥ ३.३७.९७ ॥

दिव्यशिल्पिजनैः कॢप्तं षोडशक्षेत्रवेशनम् ।
अधिष्ठाय श्रीनगरं सदा रक्षति विष्टपम् ॥ ३.३७.९८ ॥

इत्थमेव प्रकारेण श्रीपुराण्यन्यकान्यपि ।
न भेदकोऽपि विन्यासो नाममात्रं पुरां भिदा ॥ ३.३७.९९ ॥

नानावृक्षमहोद्यानमारभ्येतिक्रमेण ये ।
वदन्ति श्रीपुरकथां ते यान्ति परमां गतिम् ॥ ३.३७.१०० ॥

आकर्णयन्ति पृच्छन्ति विचिन्वन्ति च ये नराः ।
ये पुस्तके धारयन्ति ते यान्ति परमां गतिम् ॥ ३.३७.१०१ ॥

ये श्रीपुरप्रकारेण तत्तत्स्थानविभेदतः ।
कृत्वा शिल्पिजनैः सर्वं श्रीदेव्यायतनं महत् ।
सम्पादयन्ति ये भक्तास्ते यान्ति परमां गतिम् ॥ ३.३७.१०२ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गृहराजान्तरकथनं नाम सप्तत्रिंशोऽध्यायः