०३६

विश्वास-प्रस्तुतिः

हयग्रीव उवाच
चिन्तामणिगृहस्याग्निदिग्भागे कुन्दमानकम् ।
योजनायामविस्तारं योजनोच्छासचातकम् ॥ ३.३६.१ ॥

मूलम्

तत्र ज्वलति चिद्वह्निः सुधाधाराशतार्चितः ।
परमैश्वर्यजनकः पावनो ललिताज्ञया ॥ ३.३६.२ ॥

अनिन्धनो महाज्वालः सुधया तर्पिताकृतिः ।
कङ्कोलीपल्लवच्छायस्तत्र ज्वलति चिच्छिखी ॥ ३.३६.३ ॥

तत्र होत्री महादेवी होता कामेश्वरः परः ।
उभौ तौ नित्यहोतारौ रक्षतः सकलं जगत् ॥ ३.३६.४ ॥

अनुत्तरपराधीना ललिता सम्प्रवर्तिता ।
ललिताचोदितः कामः शङ्करेण प्रवर्तितः ॥ ३.३६.५ ॥

चिन्तामणिगृहेन्द्रस्य रक्षोभागेम्बुजाटवौ ॥ ३.३६.६ ॥

विश्वास-प्रस्तुतिः

चक्रराजरथश्रेष्ठस्तिष्ठत्युन्नतविग्रहः ।
नवभिः पर्वभिर्युक्तः सर्वरत्नमयाकृतिः ॥ ३.३६.७ ॥

चतुर्योजनविस्तारो दशयोजनमुन्नतः ।
यथोत्तरे ह्रासयुक्तः स्थूलतः कूबरोज्ज्वलः ॥ ३.३६.८ ॥

चतुर्वेदमहाचक्रः पुरुषार्थमहाहयः ।
तत्त्वैरु पचरद्भिश्च चामरैरभिमण्डितः ॥ ३.३६.९ ॥

पूर्वोक्तलक्षणैर्युक्तो मुक्ताच्छत्रेण शोभितः ।
भण्डासुरमहायुद्धे कृतसाहसिकक्रियः ॥ ३.३६.१० ॥

वर्तते रथमूर्धन्यः श्रीदेव्यासनपाटितः ।
चिन्तामणिगृहेन्द्रस्य वायुभागेम्बुजाटवौ ॥ ३.३६.११ ॥

गेयचक्ररथेन्द्रस्तु मन्त्रिण्याः प्रान्ततिष्ठति ।
चिन्तामणिगृहेन्द्रस्य रुद्रभागेम्बुजाटवौ ॥ ३.३६.१२ ॥

वल्लभो दण्डनाथायाः किरिचक्रे महारथः ।
एतद्रथत्रयं सर्वक्षेत्रश्रीपुरपक्तिषु ।
समानमेव विज्ञेयमङ्गस्था देवता यथा ॥ ३.३६.१३ ॥

आनलं कुण्डमाग्नेये यत्तिष्ठति सदा ज्वलत् ।
तप्तमेतत्तु गायत्री तप्तं स्याद भयङ्करम् ॥ ३.३६.१४ ॥

घृणिसूर्यस्तु तत्पश्चादोङ्कारस्य च मन्दिरम् ।
देवी तुरीयगायत्री चक्षुष्मत्यपि तापस ॥ ३.३६.१५ ॥

अथ गन्धर्वराजश्च परिषद्रुद्र एव च ।
ताराम्बिका भगवती तत्पश्चाद्भागतः स्थिताः ॥ ३.३६.१६ ॥

चिन्तामणिगृहेन्द्रस्य रक्षोभागं समाश्रितः ।
नामत्रय पहामन्त्रवाच्योऽस्ति भगवान्हरिः ॥ ३.३६.१७ ॥

महागणपतिस्तस्योत्तरसंश्रितकेतनः ।
पञ्चाक्षरीमन्त्रवाच्यस्तस्य चाप्युत्तरे शिवः ॥ ३.३६.१८ ॥

अथ मृत्युञ्जयेशश्च वाच्यर्त्र्यक्षरमात्रतः ।
सरस्वती धारणाख्या ह्यस्य चोत्तरवासिनी ॥ ३.३६.१९ ॥

अकारादिक्षकारान्तवर्णमूर्तेस्तु मन्दिरम् ।
मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन ॥ ३.३६.२० ॥

उत्तरे सम्पदेशी वै कालसङ्कर्षणी तथा ।
श्रीमहाशम्भुनाथा च देव्याविर्भावकारणम् ॥ ३.३६.२१ ॥

श्रीः पराम्बा च विशदज्योत्स्ना निर्मलविग्रहा ।
उत्तरोत्तरमेतास्तु देवताः कृतमन्दिराः ॥ ३.३६.२२ ॥

बालाचैवान्नपूर्णा च हयारूढा तथैव च ।
श्रीपादुकाचतस्रस्तदुत्तरोत्तरमन्दिराः ॥ ३.३६.२३ ॥

चिन्तामणिगृहेन्द्रस्य वायव्यवसुधादितः ।
महापद्माटवौ त्वन्या देवताः कृतमन्दिराः ॥ ३.३६.२४ ॥

उन्मत्तभैरवी चैव स्वप्नवाराहिका परा ।
तिरस्करणिकाम्बा च तथान्या पञ्चमी परा ॥ ३.३६.२५ ॥

यथापूर्वं कृतगृहा एता देव्यो महोदयाः ।
श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च ॥ ३.३६.२६ ॥

यथापूर्वं कृतगृहे द्वे एते देवतोत्तमे ।
शङ्करेण षडाम्नायसागरे प्रतिपादिताः ।
या विद्यास्ताः समस्ताश्च महापद्माटवीस्थले ॥ ३.३६.२७ ॥

इत्थं श्रीरश्मिमालाया मणिकॢप्ता गहागृहाः ।
उच्चध्वजा उच्चशालास्ससोपानास्तपोधन ॥ ३.३६.२८ ॥

चिन्तामणिगृहेन्द्रस्य पूर्वद्वारे समुद्रप ।
दक्षिणे पार्श्वभागेतु मन्त्रिनाथागृहं महत् ॥ ३.३६.२९ ॥

वामभागे दण्डनाथाभवनं रत्ननिर्मितम् ।
ब्रह्मविष्णुमहेशानामर्ध्यस्थानम्य पूर्वतः ॥ ३.३६.३० ॥

भवनं दीपिताशेषदिक्चक्रं रत्नरश्मिभिः ।
समस्ता देवता एता ललिताभक्तिनिर्भराः ।
ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते ॥ ३.३६.३१ ॥

पूर्वोक्त मर्ध्यस्थानं च पूर्वोक्तं चार्ध्यकल्पनम् ।
याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम् ॥ ३.३६.३२ ॥

अथ चिन्तामणिगृहं वक्ष्ये शृणु महामुने ।
तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम् ॥ ३.३६.३३ ॥

तस्य चिन्तामणिभयी भित्तिः कोशसुविस्तृता ।
चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि ॥ ३.३६.३४ ॥

संवृता कूटरूपेण तत्रतत्र समुन्नता ।
गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः ॥ ३.३६.३५ ॥

विंशतिर्योजनं तस्याश्चोन्नम्रा भूमिरुच्यते ।
ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला ॥ ३.३६.३६ ॥

तानि चेच्छाक्रियाज्ञानरूपाणि मुकुटान्यृषे ।
सदा देदीप्यमानानि चिन्तामणिमयान्यपि ॥ ३.३६.३७ ॥

चिन्तामणिगृहे सर्वं चिन्तामणिमयं स्मृतम् ।
यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च ॥ ३.३६.३८ ॥

क्रोशार्द्धार्द्धं च विस्तारो द्वाराणां कथितो मुने ।
द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे ॥ ३.३६.३९ ॥

पिहिता ललिता देव्या मूतर्लोहितसिन्धुवत् ।
तरुणार्कसहस्राभा चन्द्रवच्छीतला ह्यपि ।
मुहुः प्रवाहरूपेण प्रसरन्ती महामुने ॥ ३.३६.४० ॥

पूर्वाम्नाय मयं चैव पूर्वद्वारं प्रकीर्तितम् ।
दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः ॥ ३.३६.४१ ॥

पश्चिमद्वारदेशस्तु पश्चिमाम्नायलक्षणः ।
उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः ॥ ३.३६.४२ ॥

गृहराजस्यान्तराले भित्तौ खचितदण्डकाः ।
रत्नप्रदीपा भास्वन्तः कोट्यर्कसदृशत्विषः ।
परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम् ॥ ३.३६.४३ ॥

चिन्तामणिगृहस्यास्य मध्यस्थाने महीयसि ।
अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम् ॥ ३.३६.४४ ॥

चिन्तारत्नगृहोत्तुङ्गभिन्त्तेर्बिन्दोश्च मध्यभूः ।
भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम् ॥ ३.३६.४५ ॥

तत्र क्रोशत्रयस्थाने ह्यणिमाद्यात्मरोचिषा ।
क्रोशत्रयं समस्तं तद्धस्तसङ्ख्याप्रकारतः ।
चतुर्विंशतिसाहस्रहस्तैः सम्मितमुच्यते ॥ ३.३६.४६ ॥

बिन्दुपीठेशपर्यन्तं चतुर्दशविभेदतः ।
अन्तरे भेदिते जाते हस्तसङ्ख्या मयोच्यते ॥ ३.३६.४७ ॥

पद्माटवीस्थलाच्चिन्तामणिवेश्मान्तरं मुने ।
हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः ॥ ३.३६.४८ ॥

अणिमान्तरविस्तारश्चतुर्नल्वसमन्वितः ।
किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते ॥ ३.३६.४९ ॥

तत्रान्तरेऽणिमाद्यास्तु पूर्वादिकृतमन्दिराः ।
अणिमा महिमा चैव लघिमा गरिमा तथा ॥ ३.३६.५० ॥

ईशित्वं च वशित्वं च प्राकाम्यं मुक्तिरेव च ।
इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः ॥ ३.३६.५१ ॥

रससिद्धिर्मोक्षसिद्धिर्बलसिद्धिस्तथैव च ।
खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः ॥ ३.३६.५२ ॥

वाक्सिद्धिर्लोकसिद्धिश्च देहसिद्धिरनन्तरम् ।
एता अष्टौ सिद्धयस्तु बह्व्योऽन्या योगिसम्मताः ॥ ३.३६.५३ ॥

तत्रान्तरे तु परितः सेवते परमेश्वरीम् ।
कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने ॥ ३.३६.५४ ॥

नवलावण्यसम्पूर्णाः स्मयमानमुखाम्बुजाः ।
ज्वलच्चिन्तामणि कराः मदा षोडशवर्षिकाः ।
अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः ॥ ३.३६.५५ ॥

तस्याणिमाद्यन्तरस्योपरिष्टात्सुमनोहरम् ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३.३६.५६ ॥

चतुर्दिक्षु च सोपानपङ्क्तिभिः सुमनोहरम् ।
ब्रह्माद्यम्बरधिष्ण्यं स्यात्तत्रदेवीः स्थिताः शृणु ॥ ३.३६.५७ ॥

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डाप्यथ सप्तमी ।
महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः ॥ ३.३६.५८ ॥

नानाविधायुधाढ्याश्च नानाशक्तिपरिच्छदाः ।
पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः ॥ ३.३६.५९ ॥

अथ ब्राह्यन्तरा तस्योपरिष्टात्कुम्भसम्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
मुद्रान्तरमिति त्रैधं तत्र मुद्राः कृतालयाः ॥ ३.३६.६० ॥

सङ्क्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः ।
खेचरी बीजयोन्याख्या त्रिखण्डा दशमी पुनः ॥ ३.३६.६१ ॥

पूर्वादिदिशमारभ्य मुद्रा एताः प्रतिष्ठिताः ।
अत्यन्तसुन्दराकारा नवयौवनविह्वलाः ॥ ३.३६.६२ ॥

कान्तिभिः कमनीयाभिः पूरयन्त्यो गृहान्तरम् ।
सेवन्ते मुनिशार्दूल ललितापरमेश्वरीम् ॥ ३.३६.६३ ॥

अन्तरं त्रयमेतत्तु चक्रं त्रैलोक्यमोहनम् ।
एतस्मिञ्छक्तयो यासु ता उक्ताः प्रकटाभिधाः ॥ ३.३६.६४ ॥

एतसां समधिष्ठात्री त्रिपुरा चक्रनायिका ।
तच्चक्रपालनकरी मुद्रासङ्क्षोभणात्मिका ॥ ३.३६.६५ ॥

अथ मुद्रान्तरस्योर्ध्वं प्रोक्ता नित्याकलां तरम् ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते ॥ ३.३६.६६ ॥

नित्याकलान्तरे तस्मिन्कामाकर्षणिकासुखाः ।
परितः कृतसंस्थानाः षोडशेन्दुकलात्मिकाः ॥ ३.३६.६७ ॥

तर्पयन्त्यो दिशां चक्रं सुधास्यन्दैः सुशीतलैः ।
तासां नामानि मत्तस्त्वमवधारय कुम्भज ॥ ३.३६.६८ ॥

कामाकर्षिणिका नित्या बुद्ध्याकर्षणिकापरा ।
रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ३.३६.६९ ॥

चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला ।
स्मृत्याकर्षणिका नित्या नामाकर्षणिका कला ॥ ३.३६.७० ॥

बीजाकर्षणिका नित्या चार्थाकर्षणिका कला ।
अमृताकर्षणी चान्या शरीराकर्षणी कला ॥ ३.३६.७१ ॥

एतास्तु गुप्तयोगिन्यस्त्रिपुरेशी तु चक्रिणी ।
सर्वाशापूरिकाभिख्या चक्राधिष्ठानदेवता ॥ ३.३६.७२ ॥

एतच्चक्रे पालिका तु मुद्रा द्राविणिकाभिधा ।
नित्या कलान्तरादूर्ध्वं धिष्ण्य मत्यन्तसुन्दरम् ॥ ३.३६.७३ ॥

मूलम्

एतच्चक्रे पालिका तु मुद्रा द्राविणिकाभिधा ।
नित्या कलान्तरादूर्ध्वं धिष्ण्य मत्यन्तसुन्दरम् ॥ ३.३६.७३ ॥

विश्वास-प्रस्तुतिः

हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
प्राग्वत्सोपानसंयुक्तं सर्वसङ्क्षोभणाभिधम् ॥ ३.३६.७४ ॥

तत्राष्टौ शक्तयस्तीव्रा मदारुणविलोचनाः ।
नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीम् ॥ ३.३६.७५ ॥

कुसुमा मेखला चैव मदना मदनातुरा ।
रेखा वेगिन्यङ्कुशा च मालिन्यष्टौ च शक्तयः ॥ ३.३६.७६ ॥

कोटिशस्तत्परीवारः शक्तयोऽनङ्गपूर्विकाः ।
सर्वसङ्क्षोभमिदं चक्रं तदधिदेवता ॥ ३.३६.७७ ॥

सुन्दरी नाम विज्ञेया नाम्ना गुप्ततरापि सा ।
तच्चक्रपालनकरी मुद्राकर्षणिका स्मृता ॥ ३.३६.७८ ॥

अनङ्गशक्त्यन्तरस्योपरिष्टात्कुम्भसम्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
सङ्क्षोभिण्याद्यन्तरं स्यात्सर्वसौभाग्यदायकम् ॥ ३.३६.७९ ॥

सर्वसङ्क्षोभिणीमुख्यास्तत्र शक्तय उद्धताः ।
चतुर्दश वसन्त्येव तासां नामानि मच्छृणु ॥ ३.३६.८० ॥

सर्वसङ्क्षोभिणी शक्तिः सर्वविद्राविणी तथा ।
सर्वाकर्षणिका शाक्तिः सर्वाह्लादनिका तथा ॥ ३.३६.८१ ॥

सर्वसम्मोहिनी शक्तिः सर्वस्तम्भनशक्तिका ।
सर्वजृम्भिणिका शक्तिस्तथा सर्ववशङ्करी ॥ ३.३६.८२ ॥

सर्वरञ्जनशक्तिश्च सर्वोन्मादनिशक्तिका ।
सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिपूरिणी ॥ ३.३६.८३ ॥

सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ।
एताश्च सम्प्रदायाख्याश्चक्रिणीपुरवासिनीः ॥ ३.३६.८४ ॥

मुद्राश्च सर्ववश्याख्यास्तच्चक्रे रक्षिका मताः ।
कोटिशः शक्तयस्तत्र तासां किङ्कर्य्य उद्धृताः ॥ ३.३६.८५ ॥

सङ्क्षोभिण्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ।
सर्वसिद्धादिकानां तु मन्दिरं विष्ट्यमुच्यते ॥ ३.३६.८६ ॥

सर्वसिद्धिप्रदा चैव सर्वसम्पत्प्रदा तथा ।
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३.३६.८७ ॥

सर्वकामप्रदा देवी सर्वदुःखविमोचनी ।
सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ॥ ३.३६.८८ ॥

सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ।
एता देव्यः कलोत्कीर्णा योगिन्यो नामतः स्मृताः ॥ ३.३६.८९ ॥

चक्रिणी श्रीश्च विज्ञेया चक्रं सर्वार्थसाधकम् ।
सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः ॥ ३.३६.९० ॥

सर्वसिद्ध्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव ।
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३.३६.९१ ॥

सर्वज्ञाद्यन्तरं नाम्ना सर्वरक्षाकरं स्मृतम् ।
चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः ॥ ३.३६.९२ ॥

सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदायिनी ।
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ३.३६.९३ ॥

सर्वाधारस्वरूपा च सर्वपापहरी तथा ।
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥ ३.३६.९४ ॥

सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः ॥ ३.३६.९५ ॥

विश्वास-प्रस्तुतिः

मालिनी चक्रिणी प्रोक्ता मुद्रा सर्वमहाङ्कुशा ।
इति चिन्तामणि गृहे सर्वज्ञाद्यन्तरावधि ।
चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने शृणु ॥ ३.३६.९६ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चिन्तामणिगृहान्तरकथनं नाम षट्त्रिंशोऽध्यायः