०३४

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
षोडशावरणं चक्रं किं तद्रुद्राधिदैवतम् ।
तत्र स्थिताश्च रुद्राः के केन नाम्ना प्रकीर्तिताः ॥ ३.३४.१ ॥

मूलम्

केष्वावरणबिम्बेषु किन्नामानो वसन्ति ते ।
यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिधे ॥ ३.३४.२ ॥

हयग्रीव उवाच
तत्र रुद्रा लयः प्रोक्तो मुक्ताजालकनिर्मितः ।
पञ्चयोजनविस्तारस्तत्सङ्ख्यायामशोभितः ॥ ३.३४.३ ॥

षोडशावरणैर्युक्तो मध्यपीठमनोहरः ।
मध्यपीठे महारुद्रो ज्वलन्मन्युस्त्रिलोचनः ॥ ३.३४.४ ॥

सच्चकार्मुकहस्तश्च सर्वदा वर्तते मुने ।
त्रिकोणे कथिता रुद्रास्त्रय एव घटोद्भव ॥ ३.३४.५ ॥

हिरण्य बाहुः सेनानीर्दिशाम्पतिरथापरः ॥ ३.३४.६ ॥

विश्वास-प्रस्तुतिः

वृक्षाश्च हरिकेशाश्च तथा पशुपतिः परः ।
शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च ॥ ३.३४.७ ॥

एते षट्कोणगाः किं च बभ्रुशास्त्वष्टकोणके ।
विव्याध्यन्नपतिश्चैव हरिकेशोपवीतिनौ ॥ ३.३४.८ ॥

पुष्टानां पतिरप्यन्यो भवो हेतिस्तथैव च ।
दशापत्रे त्वावरणे प्रथमो जगतां पतिः ॥ ३.३४.९ ॥

रुद्रातताविनौ क्षेत्रपतिः सूतस्तथापरः ।
अहं त्वन्यो वनपती रोहितः स्थपतिस्तथा ॥ ३.३४.१० ॥

वृक्षाणां पतिरप्यन्यश्चैते सज्जशरासनाः ।
मन्त्री च वाणिजश्चैव तथा कक्षपतिः परः ॥ ३.३४.११ ॥

भवन्तिस्तु चतुर्थः स्यात्पञ्चमो वारिवस्ततः ।
ओषधीनां पतिश्चैव षष्ठः कलशसम्भव ॥ ३.३४.१२ ॥

उच्चैर्घोषाक्रन्दयन्तौ पतीनां च पतिस्तथा ।
कृत्स्नवीतश्च धावंश्च सत्त्वानां पतिरेव च ॥ ३.३४.१३ ॥

एते द्वादश पत्रस्थाः पञ्चमावरणस्थिताः ।
सहमानश्च निर्व्याधिरव्याधीनां पतिस्तथा ॥ ३.३४.१४ ॥

ककुभश्च निषङ्गी च स्तेनानां च पतिस्तथा ।
निचेरुश्चेति विज्ञेयाः षष्ठावरणदेवताः ॥ ३.३४.१५ ॥

अधः परिचरोऽरण्यः पतिः किं च सृकाविषः ।
जिघांसन्तो मुष्णतां च पतयः कुम्भसम्भव ॥ ३.३४.१६ ॥

असीमन्तश्च सुप्राज्ञस्तथा नक्तञ्चरो मुने ।
प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः ॥ ३.३४.१७ ॥

कुलुञ्चानां पतिश्चैवेषुमन्तः कलशोद्भव ।
धन्वाविदश्चातन्वानप्रतिपूर्वदधानकाः ॥ ३.३४.१८ ॥

आयच्छतः षोडशैते षोडशारनिवासिनः ।
विसृजन्तस्तथास्यन्तो विध्यन्तश्चापि सिन्धुप ॥ ३.३४.१९ ॥

आसीनाश्च शयानाश्च यन्तो जाग्रत एव च ।
तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः ॥ ३.३४.२० ॥

अश्वाश्चैवाश्वपतय अव्याधिन्यस्तथैव च ।
विविध्यन्तो गणाध्यक्षा बृहन्तो विन्ध्यमर्द्दन ॥ ३.३४.२१ ॥

गृत्सश्चाष्टादशविधा देवता अष्टमावृतौ ।
अथ गृत्साधिपतयो व्राता व्राताधिपास्तथा ॥ ३.३४.२२ ॥

गणाश्च गणपाश्चैव विश्वरुपा विरूपकाः ।
महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे ॥ ३.३४.२३ ॥

रथाश्च रथपत्त्याख्याः सेनाः सेनान्य एव च ।
क्षत्तारः सङ्ग्रही तारस्तक्षाणो रथकारकाः ॥ ३.३४.२४ ॥

कुलालश्चेति रुद्रास्ते नवमावृतिदेवताः ।
कर्माराश्चैव पुञ्जिष्ठा निषादाश्चेषुकृद्गणाः ॥ ३.३४.२५ ॥

धन्वकारा मृगयवः श्वनयः श्वान एव च ।
अश्वाश्चैवश्वपतयो भवो रुद्रो घटोद्भव ॥ ३.३४.२६ ॥

शर्वः पशुपतिर्नीलग्रीवश्च शितिकण्ठकः ।
कपर्दी व्युप्तकेशश्च सहस्रक्षस्तथापरः ॥ ३.३४.२७ ॥

शतधन्वा च गिरिशः शिपिविष्टश्च कुम्भज ।
मीढुष्टम इति प्रोक्ता रुद्रा दशमशालगाः ॥ ३.३४.२८ ॥

अथैकादशचक्रस्था इषुमद्ध्रस्ववामनाः ।
बृहंश्च वर्षीयां श्चैव वृद्धः समृद्धिना सह ॥ ३.३४.२९ ॥

अग्र्यः प्रथम आशुश्चाजिरोन्यः शीघ्रशिभ्यकौ ।
उर्म्यावस्वन्यरुद्रौ च स्रोतस्यो दिव्य एव च ॥ ३.३४.३० ॥

ज्येष्ठश्चैव कनिष्ठश्च पूर्वजावरजौ तथा ।
मध्यमश्चावगम्यश्च जघन्यश्च घटोद्भव ॥ ३.३४.३१ ॥

चतुर्विंशतिराख्याता एते रुद्रा महाबलाः ।
अथ बुध्न्यः सोम्यरुद्रः प्रतिसर्पकयाम्यकौ ॥ ३.३४.३२ ॥

क्षेम्योवोचवखल्यश्च ततः श्लोक्यावसान्यकौ ।
वन्यः कक्ष्यः श्रवश्चैव ततोऽन्यस्तु प्रतिश्रवः ॥ ३.३४.३३ ॥

आशुषेणश्चाशुरथः शूरश्च तपसां निधे ।
अवभिन्दश्च वर्मी च वरूथी बिल्मिना सह ॥ ३.३४.३४ ॥

कवची च श्रुतश्चैव सेनो दुन्दुभ्य एव च ।
आहनन्यश्च धृष्णुश्च ते च षड्विंशतिः स्मृताः ।
द्वादशावरणस्थास्ते महाकाया महाबलाः ॥ ३.३४.३५ ॥

प्रभृशाश्चैव दूताश्च प्रहिताश्च निपङ्गिणः ।
अन्यस्त्विषुधिमानन्यस्तक्ष्णेषुश्च तथा युधि ॥ ३.३४.३६ ॥

स्वायुधश्च सुधन्वा च स्तुत्यः पथ्यश्च कुम्भज ।
काप्यो नाढ्यस्तथा सूधः सरस्यो विन्ध्यमर्दन ॥ ३.३४.३७ ॥

ततश्चान्यो नाधमानो वेशन्तः कुप्य एव च ।
अवधवर्ष्योऽवर्ष्यश्च मेध्यो विद्युत्य एव च ॥ ३.३४.३८ ॥

इध्र्यातप्यौ तथा वात्यौ रेष्म्यश्चैव तथापरः ।
वास्तव्यो वास्तुपश्चैव सोमश्चेति महाबलाः ॥ ३.३४.३९ ॥

त्रयोदशावरणगाञ्छृणु रुद्रांश्च तान्मुने ।
रुद्रस्ताम्रारुणः शङ्गस्तथा पशुपतिर्मुने ॥ ३.३४.४० ॥

उग्रो भीमस्तथैवाग्रेवधदूरेवधावपि ।
हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः ॥ ३.३४.४१ ॥

तारः शम्भुर्मयोभूश्च शङ्करश्च मयस्करः ।
शिवः शिवतरश्चैव तीर्थ्यः कुल्यस्तथैव च ।
पार्योऽपार्यः प्रतरणस्तथा चोत्तरणो मुने ॥ ३.३४.४२ ॥

आतर्यश्च तथा लभ्यः षष्ठः फेन्यस्तथैव च ।
चतुर्दशावरणके कथिता रुद्रदेवताः ॥ ३.३४.४३ ॥

सिकत्यश्च प्रवाह्यश्च तथेरिण्यस्तपोनिधे ।
प्रपथ्यः किंशिलश्चैव क्षयणस्तदनन्तरम् ॥ ३.३४.४४ ॥

कपर्दी च पुलस्त्यंश्च गोष्ठ्यो गृह्यस्तथैव च ।
तल्पयो गेह्य स्तथा काट्यो गह्वरेष्ठोरुदीपकः ॥ ३.३४.४५ ॥

निवेष्ट्यश्चापि पान्तव्यो रथन्यः शुक्य एव च ।
हरीत्यलोथा लोप्याश्च उर्य्यसूर्म्यै तथा मुने ॥ ३.३४.४६ ॥

पयेयश्च पर्णशश्च तथा वगुरमाणकः ।
अभिघ्ननाशिदुश्चैव प्रखिदन किरिकास्तथा ॥ ३.३४.४७ ॥

देवानां हृदयश्चैव द्वात्रिंशद्रुद्रदेवताः ।
वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ ॥ ३.३४.४८ ॥

षोडशे त्वावरणके पूर्वादिद्वारवर्तिनः ।
विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः ॥ ३.३४.४९ ॥

आमीवक्ताश्च निष्टप्ता महारुद्रमुपासते ।
इति षोडशशालेषु स्थितै रुद्रैः सहस्रशः ॥ ३.३४.५० ॥

सेवितस्तु महारुद्रो ललिताज्ञाप्रवर्तकः ।
वर्तते जगतामृद्ध्यै मुक्ताशालेशकोणके ॥ ३.३४.५१ ॥

शतरुद्रियसङ्ख्याता एते रुद्रा महाबलाः ।
ललिताभक्तिमम्पन्नान्पालयन्ति दिवानिशम् ।
अभक्तांल्लरितादेव्याः प्रत्यूहैर्योजयन्त्यमी ॥ ३.३४.५२ ॥

इत्थं शक्रादिदिक्पाला सुक्ताशालं समाश्रिताः ।
ललितापरमेश्वर्याः सेवामेव वितन्वते ॥ ३.३४.५३ ॥

अथ मुक्ताख्यशालस्यान्तरे मारुतयोजने ।
शालोमारकताभिख्यश्चतुर्योजनमुच्छ्रितः ॥ ३.३४.५४ ॥

पूर्ववद्गोपुरादीना संस्थानैश्च सुशोभितः ।
तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः ॥ ३.३४.५५ ॥

चत्वारो निलयाः प्रोक्ता मन्त्रिणीगृहविस्तराः ।
गीतिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः ॥ ३.३४.५६ ॥

भण्डासुरमहायुद्धे ता देव्यस्तत्र जाग्रति ।
सर्वाः स्थल्यो मरकतश्रेणिभिः खचिताः शुभाः ॥ ३.३४.५७ ॥

हेमतालवनाढ्याश्च सर्ववस्तुसमाकुलाः ।
तत्रदेव्यः समस्ताश्च दण्डनाथासमश्रियः ॥ ३.३४.५८ ॥

हलोद्धर्णहलाद्धर्णमुसलाः सञ्चरन्त्यपि ।
सङ्ख्यातीतास्तालवृक्षा नवस्वर्णविचित्रिताः ॥ ३.३४.५९ ॥

योजनायतकाण्डाश्च दलैर्युक्ता विशङ्कटैः ।
हेमत्वचोऽतिसुस्निग्धाः सच्छायाः फलभङ्गुराः ॥ ३.३४.६० ॥

आमूलाग्रं लम्बमानास्ताला हालाघटाकुलाः ।
वर्तन्ते दण्डनाथायाः प्रीत्यर्थं शिल्पिभिः कृताः ॥ ३.३४.६१ ॥

तं च तालरसापूरं पीत्वापीत्वा मदाकुलाः ।
जृम्भिण्याद्याश्चक्रदेव्यो हेतुकाद्याश्च भैरवाः ॥ ३.३४.६२ ॥

सप्तनिग्रहदेव्यश्च नृत्यन्ति मदविह्वलाः ।
चतुर्विदिक्षु दण्डिन्या यत्रयत्र महादृशः ॥ ३.३४.६३ ॥

तत्र पूर्वादिदिग्भागे देवीसदृशवर्चसः ।
उन्मत्तभैरवी चव स्वप्नेशी सर्वतोदिशम् ॥ ३.३४.६४ ॥

निवासो दण्डनाथायाः केवलं त्वाभिमानिकः ।
तस्यास्तु सेवावासोऽन्यो महापद्माटवीस्थले ।
तत्कक्षातिदवीयस्त्वान्सेवार्थं तत्र तद्गृहः ॥ ३.३४.६५ ॥

अथो मरकताकारे शाले तत्सप्तयोजने ।
प्राकारो विद्रुमाकारः प्रातरर्यमपाटलः ॥ ३.३४.६६ ॥

तत्र स्थलास्तु सकला विद्रुमैरेव निर्मिताः ।
तद्वद्विद्रुमसङ्काशो ब्रह्मा नलिनविष्टरः ॥ ३.३४.६७ ॥

ब्रह्मलोकात्समागत्य सार्द्धं सर्वैर्मुनीश्वरैः ।
सदा श्रीललितादेव्याः सेवनार्थमतन्द्रितः ॥ ३.३४.६८ ॥

मरीच्याद्यैः प्रजासृग्भिर्वर्तते साकमब्धिप ।
चतुर्दशापि विद्यास्ता उपविद्याः सहस्रशः ॥ ३.३४.६९ ॥

चतुष्षष्टिकलाश्चैव शरीरिण्यो महत्तराः ।
प्राकारे विद्रुमाकारे ब्रह्मलोकसमाश्रिताः ।
वर्तन्ते जगतामृद्ध्यै ललिता देवताज्ञया ॥ ३.३४.७० ॥

अथ विद्रुमशालस्यानतरे मारुतयोजने ।
माणिक्यमण्डपस्थाने परीतः सर्वतोदिशम् ।
वर्तते विष्णुलोकस्तु ललितासेवनोत्सुकः ॥ ३.३४.७१ ॥

तत्र वैष्णवलोके तु विष्णुः साक्षात्सनातनः ।
चतुर्घा दशधा चैव तथा द्वादशधा पुनः ।
विभिन्नमूर्तिः सततं वर्तते माधवः सदा ॥ ३.३४.७२ ॥

भण्डासुरमहायुद्धे ये श्रीदेवीनखोद्भवाः ।
दशावतारदेवास्तु तेऽपि माणिक्यमण्डपे ॥ ३.३४.७३ ॥

पूर्वकक्षान्तरेभ्यस्तु तत्कक्षायां विशेषतः ।
उपर्याच्छादनामात्रं माणिक्यदृषदां गणैः ॥ ३.३४.७४ ॥

तत्र कक्षान्तरे देवः शङ्खचक्रगदाधरः ।
भिन्नो द्वादशमूर्त्या च पूर्वाद्याशासुरक्षति ॥ ३.३४.७५ ॥

जाम्बूनदप्रभश्चक्री पूर्वस्यां दिशि केशवः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः ॥ ३.३४.७६ ॥

इन्दीवरदलश्या मो मधुमान्माधवोऽवति ।
गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ ३.३४.७७ ॥

उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसन्निभः ।
आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ३.३४.७८ ॥

त्रिविक्रमः खड्गपाणिर्नैरृत्ये च्वलनप्रभः ।
वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान् ॥ ३.३४.७९ ॥

ईशान्यां पुण्डरीकाभः श्रीधरः पट्टिशायुधः ।
विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ३.३४.८० ॥

पद्मनाभः शार्ङ्गपाणिः सहस्रार्कसमप्रभः ।
माणिक्यमण्डपस्थानमनुलोम्येन वेष्टते ॥ ३.३४.८१ ॥

सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः ।
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः ॥ ३.३४.८२ ॥

दामोदरस्तु सर्वात्मा ललिताभक्तिनिर्भरः ।
माणिक्यमण्डपस्थानं विलोमेन विवेष्टते ॥ ३.३४.८३ ॥

इति द्वादशभिर्देहैर्भगवानम्बुजेक्षणः ।
माणिक्यमण्डपगतो विष्णुलोके विराजते ॥ ३.३४.८४ ॥

अथ नानारत्नशालान्तरे मारुतयोजने ।
सहस्रस्तम्भकं नाम मण्डपं सुमनोहरम् ॥ ३.३४.८५ ॥

नानारत्नैस्तु खचितं नानारत्नैरलङ्कृतम् ।
नानारत्नकृतश्शालस्तुङ्गस्तत्राभिवर्तते ॥ ३.३४.८६ ॥

एका पङ्क्तिः सहस्रैस्तु स्तम्भस्तियक्प्रवर्तते ।
तादृशाः पङ्क्तयो बह्व्यः स्तम्भानां तु चतुर्दिशम् ॥ ३.३४.८७ ॥

उपर्याच्छादनं चापि पूर्ववद्रत्नदारुभिः ।
शिवलोकस्तत्र महाञ्जागर्ति स्फुरितद्युतिः ॥ ३.३४.८८ ॥

शैवागमा मूर्तिमन्तस्तत्राष्टाविंशतिः स्मृताः ।
नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः ॥ ३.३४.८९ ॥

षड्विंशत्तत्त्वदेवाश्च गजवक्त्राः सहस्रशः ।
शिवलोकोत्तमे तस्मिन्सहस्रस्तम्भमण्डपे ॥ ३.३४.९० ॥

ईशानः सर्वविद्यानामधिपश्चन्द्रशेखरः ।
ललिताज्ञापालकश्च ललिताज्ञाप्रवर्तकः ॥ ३.३४.९१ ॥

ललितामन्त्र जापी च नित्यमानन्दमानसः ।
शैव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये ॥ ३.३४.९२ ॥

अन्तर्बहिस्तमः पुञ्जनिर्भेदनपटी यसीम् ।
महाप्रकाशरूपां तां मेधाशक्ति प्रकाशयन् ॥ ३.३४.९३ ॥

सर्वज्ञः सर्वकर्ता च सहस्रस्तम्भमण्डपे ।
वर्तमानो महादेव देवीः श्रीभक्तिनिर्भरः ।
तत्तच्छालान्समाश्रित्य वर्तते कुम्भसम्भवः ॥ ३.३४.९४ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्य संवादे ललितोपाख्याने दिक्पालादिशिवलोकान्तरकथनं ना चतुस्त्रिंशोऽध्यायः