०३२

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
लोहादिसप्तशालानां रक्षका एव सन्ति वै ।
तन्नामकीर्तय प्राज्ञ येन मे संशयच्छिदा ॥ ३.३२.१ ॥

मूलम्

हयग्रीव उवाच
नानावृक्षमहोद्याने वर्तते कुम्भसम्भव ।
महाकालः सर्वलोकभक्षकः श्यामविग्रहः ॥ ३.३२.२ ॥

श्यामकञ्चुकधारी च मदारुणविलोचनः ।
ब्रह्माण्डचषके पूर्णं पिबन्विश्वरसायनम् ॥ ३.३२.३ ॥

महाकालीं घनश्यामामनङ्गार्द्रामपाङ्गयन् ।
सिंहासने समासीनः कल्पान्ते कलनात्मके ॥ ३.३२.४ ॥

ललिताध्यानसम्पन्नो ललितापूजनोत्सुकः ।
वितन्वंल्लरिताभक्तेः स्वायुषो दीर्घ दीर्घताम् ।
कालमृत्युप्रमुख्यैश्च किङ्करैरपि सेवितः ॥ ३.३२.५ ॥

महाकालीमहाकालौ ललिताज्ञाप्रवर्त्तकौ ।
विश्वं कलयतः कृत्स्नं प्रथमेऽध्वनि वासिनौ ॥ ३.३२.६ ॥

कालचक्रं मतङ्गस्य तस्यैवासनतां गताम् ।
चतुरावरणोपेतं मध्ये बिन्दुमनोहरम् ॥ ३.३२.७ ॥

त्रिकोणम्पञ्चकोणं च षोडशच्छदपङ्कजम् ।
अष्टारपङ्कजं चैवं महाकालस्तु मध्यगः ॥ ३.३२.८ ॥

त्रिकोणे तु महाकाल्या महासन्ध्या महानिशा ।
एतास्तिस्रो महादेव्यो महाकालस्य शक्तयः ॥ ३.३२.९ ॥

तत्रैव पञ्चकोणाग्रे प्रत्यूषश्च पितृप्रसूः ।
प्राह्णापराह्णमध्याह्नाः पञ्च कालस्य शक्तयः ॥ ३.३२.१० ॥

अथ षोडशपत्राब्जे स्थिता शक्तीर्मुने शृणु ।
दिनमिश्रा तमिस्रा च ज्योत्स्नी चैव तु पक्षिणी ॥ ३.३२.११ ॥

प्रदोषा च निशीथा च प्रहरा पूर्णिमापि च ।
राका चानुमतिश्चैव तथैवामावस्यिका पुनः ॥ ३.३२.१२ ॥

सिनीवाली कुहूर्भद्रा उपरागा च षोडशी ।
एता षोडशमात्रस्थाः शक्तयः षोडश स्मृताः ॥ ३.३२.१३ ॥

कला काष्ठा निमेषाश्च क्षणाश्चैव लवास्त्रुटिः ।
मुहुर्ताः कुतपाहोरा शुक्लपक्षस्तथैव च ॥ ३.३२.१४ ॥

कृष्णपक्षायनाश्चैव विषुवा च त्रयोदशी ।
संवत्सरा च परिवत्सरेडावत्सरापि च ॥ ३.३२.१५ ॥

एताःषोडश पत्राब्जवासिन्यः शक्तयः स्मृताः ।
इद्वत्सरा ततश्चेन्दुवत्सरावत्सरेऽपि च ॥ ३.३२.१६ ॥

तिथिर्वारांश्च नक्षत्रं योगाश्च करणानि च ।
एतास्तु शक्तयो नागपत्राम्भोरुहसंस्थिताः ॥ ३.३२.१७ ॥

कलिः कल्पा च कलना काली चेति चतुष्टयम् ।
द्वारपालकतां प्राप्तं कालच क्रस्य भास्वतः ॥ ३.३२.१८ ॥

एता महाकालदेव्यो मदप्रहसिताननाः ।
मदिरापूर्णचषकमशेषं चारुणप्रभम् ।
दधानाः श्यामलाकाराः सर्वाः कालस्य योषितः ॥ ३.३२.१९ ॥

ललितापूजनध्यानजपस्तोत्रपरायणाः ।
निषेवन्ते महाकालं कालचक्रासनस्थितम् ॥ ३.३२.२० ॥

अथ कल्पकवट्यास्तु रक्षकः कुम्भसम्भव ।
वसन्तर्तुर्महातेजा ललिताप्रियकिङ्करः ॥ ३.३२.२१ ॥

पुष्पसिंहासनासीनः पुष्पमाध्वीमदारुणाः ।
पुष्पायुधः पुष्पभूषः पुष्पच्छत्रेण शोभितः ॥ ३.३२.२२ ॥

मधुश्रीर्माधवश्रीश्च द्वे देव्यौ तस्य दीव्यतः ।
प्रसूनमदिरामत्ते प्रसूनशरलालसे ॥ ३.३२.२३ ॥

सन्तानवाटिकापालो ग्रीष्मर्तुस्तीक्ष्णलोचनः ।
ललिताकिङ्करो नित्यं तस्यास्त्वाज्ञाप्रवर्तकः ॥ ३.३२.२४ ॥

शुक्र श्रीश्च शुचिश्रीश्च तस्य भार्ये उभे स्मृते ।
हरिचन्दनवाटी तु मुने वर्षर्तुना स्थिता ॥ ३.३२.२५ ॥

स वर्षर्न्तुर्महातेजा विद्युत्पङ्गललोचनः ।
वज्राट्टहासमुखरो मत्तजीमूतवाहनः ॥ ३.३२.२६ ॥

जीमूतकवचच्छन्नो मणिकार्मुकधारकः ।
ललितापूजनध्यानजपस्तोत्रपरायणः ॥ ३.३२.२७ ॥

वर्तते विन्ध्यमथन त्रैलोक्याह्लाददायकः ।
नभःश्रीश्च नभस्यश्रीः स्वरस्वारस्वमालिनी ॥ ३.३२.२८ ॥

अम्बा दुला निरलिश्चाभ्रयन्ती मेघयन्त्रिका ।
वर्षयन्ती चिबुणिका वारिधारा च शक्तयः ॥ ३.३२.२९ ॥

वर्षन्त्यो द्वादश प्रोक्ता मदारुणविलोचनाः ।
ताभिः समं स वर्षर्तुः शक्तिभिः परमेश्वरीम् ॥ ३.३२.३० ॥

सदैव सञ्जपन्नास्ते निजोत्थैः पुष्पमण्डलैः ।
ललिताभक्तदेशांस्तु भूषयन्स्वस्य सम्पदा ॥ ३.३२.३१ ॥

तद्वैरिणां तु वसुधामनाबृष्ट्या निपीडयन् ।
वर्तते सततं देवीकिङ्करौ जलदागमः ॥ ३.३२.३२ ॥

मन्दारवाटिकायां तु सदा शरदृतुर्वसन् ।
तां कक्षां रक्षति श्रीमांल्लोकचित्तप्रसादनः ॥ ३.३२.३३ ॥

इषश्रीश्च तथोर्जश्रीस्तस्यर्तोः प्राणनायिके ।
ताब्यां सञ्जह्रतुस्तोयं निजोत्थैः पुष्पमण्डलैः ।
अभ्यर्चयति साम्राज्ञीं श्रीकामेश्वरयोषितम् ॥ ३.३२.३४ ॥

हेमन्तर्तुर्महातेजा हिमशीतलविग्रहः ।
सदा प्रसन्नवदनो ललिताप्रियकिङ्करः ॥ ३.३२.३५ ॥

निजोत्थैः पुष्पसम्भारैरर्चयन्परमेश्वरीम् ।
पारिजातस्य वाटीं तु रक्षति ज्वलनार्दनः ॥ ३.३२.३६ ॥

सहःश्रीश्च सहस्यश्रीस्तस्य द्वे योषिते शुभे ।
कदम्बवनवाट्यास्तु रक्षकः शिशिराकृतिः ॥ ३.३२.३७ ॥

शिशिरर्तुर्मुनिश्रेष्ठ वर्तते कुम्भसम्भव ।
सा कक्ष्या तेन सर्वत्र शीशिरीकृतभूतला ॥ ३.३२.३८ ॥

तद्वासिनी ततः श्यामा देवता शिशिराकृतिः ।
तपःश्रीश्च तपस्यश्रीस्तस्य द्वे योषिदुत्तमे ।
ताभ्यां सहार्चयत्यम्बां ललितां विश्वपावनीम् ॥ ३.३२.३९ ॥

गन्धर्ववदन श्रीमन्नानावृक्षादिसप्तकैः ।
प्रथमोद्यानपालस्तु महाकालो मया श्रितः ॥ ३.३२.४० ॥

चतुरावरणं चक्रं त्वया तस्य प्रकीर्तितम् ।
षण्णामृतूनामन्येषां कल्पकोद्यानवाटिषु ।
पालकत्वं श्रुतं त्वत्तश्चक्रदेव्यस्तु न श्रुताः ॥ ३.३२.४१ ॥

अत एव वसन्तादिचक्रावरणदेवताः ।
क्रमेण ब्रूहि भगवन्सर्वज्ञोऽसि यतो महान् ॥ ३.३२.४२ ॥

मूलम्

अत एव वसन्तादिचक्रावरणदेवताः ।
क्रमेण ब्रूहि भगवन्सर्वज्ञोऽसि यतो महान् ॥ ३.३२.४२ ॥

विश्वास-प्रस्तुतिः

हयग्रीव उवाच
आकर्णय मुनिश्रेष्ट तत्तच्चक्रस्थदेवताः ॥ ३.३२.४३ ॥

कालचक्रं पुरा प्रोक्तं वासन्तं चक्रमुच्यते ।
त्रिकोणं पञ्चकोणं च नागच्छदसरोरुहम् ।
षोडशारं सरोजं च दशारद्वितयं पुनः ॥ ३.३२.४४ ॥

चतुरस्रं च विज्ञेयं सप्तावरणसंयुतम् ।
तन्मध्ये बिन्दुचक्रस्थो वसन्तर्तुर्महाद्युति ॥ ३.३२.४५ ॥

तदेकद्वयसंलग्ने मधुश्रीमाधवश्रियौ ।
उभाभ्यां निजहस्ताभ्यामुभयोस्तनमेककम् ॥ ३.३२.४६ ॥

निपीडयन्स्वहस्तस्य युगलेन ससौरभम् ।
सपुष्पमदिरापूर्मचषकं पिशितं वहन् ॥ ३.३२.४७ ॥

एवमेव तु सर्वर्तुध्यानं विन्ध्यनिषूदन ।
वर्षर्तोस्तु पुनर्ध्याने शक्तिद्वितयमादिमम् ।
अङ्कस्थितं तु विज्ञेयं शक्तयोऽन्याः समीपगाः ॥ ३.३२.४८ ॥

अथ वासन्तचक्रस्थदेवीः शृणु वदाम्यम् ।
मधुशुक्लप्रथमिका मधुशुक्लद्वितीयिका ॥ ३.३२.४९ ॥

मधुशुक्लतृतीया च मधुशुक्लचतुर्थिका ।
मधुशुक्ला पञ्चमी च मधुशुक्ला च षष्ठिका ॥ ३.३२.५० ॥

मधुशुक्ला सप्तमी च मधुशुक्लाष्टमी पुनः ।
नवमी मधुशुक्ला च दशमी मधुशुक्लिका ॥ ३.३२.५१ ॥

मधुशुक्लैकादशी च द्वादशी मधुशुक्लतः ।
मधुशुक्लत्रयोदश्यां मधुशुक्ला चतुर्दशी ॥ ३.३२.५२ ॥

मधुशुक्ला पौर्णमासी प्रथमा मधुकृष्णिका ।
मधुकृष्णा द्वितीया च तृतीया मधुकृष्णिका ॥ ३.३२.५३ ॥

चतुर्थी मधुकृष्णा च मधुकृष्म च पञ्चमी ।
षष्टी तु मधुकृष्णा स्यात्सप्तमी मधुकृष्मतः ॥ ३.३२.५४ ॥

मधुकृष्णाष्टमी चैव नवमीमधुकृष्णतः ।
दशमी मधुकृष्णा च विन्ध्यदर्पनिषूदन ॥ ३.३२.५५ ॥

मधुकृष्णैकादशी तु द्वादशी मधुकृष्णतः ।
मधुकृष्णत्रयोदश्या मधुकृष्णचतुर्दशी ॥ ३.३२.५६ ॥

मध्वमा चेति विज्ञेयास्त्रिंशदेतास्तु शक्तयः ।
एवमेव प्रकारेण माधवाख्यो परिस्थिताः ॥ ३.३२.५७ ॥

शुक्लप्रतिपदाद्यास्तु शक्तयस्त्रिंशदन्यकाः ।
मिलित्वा षष्टिसङ्ख्यास्तु ख्याता वासन्तशक्तयः ॥ ३.३२.५८ ॥

स्वैः स्वैर्मन्त्रैस्तत्र चक्रे पूजनीया विधानतः ।
वासन्तचक्रराजस्य सप्तावरणभूमयः ॥ ३.३२.५९ ॥

षष्टिः स्युर्दैवतास्तासु षष्टिभूमिषु संस्थिताः ।
विभज्य चार्चनीयाः स्युस्तत्तन्मन्त्रैस्तु साधकैः ॥ ३.३२.६० ॥

तथा वासन्तचक्रं स्यात्तथैवान्येषु च त्रिषु ।
देवतास्तु परं भिन्नाः शुक्रशुच्यादिभेदतः ॥ ३.३२.६१ ॥

शक्तयः षष्टिसङ्ख्याता ग्रीष्मचक्रे महोदयाः ।
एवं वर्षादिके चक्रे भेदान्नभवभस्यजान् ॥ ३.३२.६२ ॥

षष्टि षष्टिसु शक्तीनां चक्रेचक्रे प्रतिष्ठिताः ।
ग्रन्थविस्तारभीत्या तु तत्सङ्ख्यानाद्विरम्यते ॥ ३.३२.६३ ॥

आर्तव्याः शक्तयस्त्वेता ललिताभक्त सौख्यदाः ।
ललितापूजनध्यानजपस्तोत्रपरायणाः ॥ ३.३२.६४ ॥

कल्पादिवाटिकाचक्रे सञ्चरन्त्यो मदालसाः ।
स्वस्वपुष्पोत्थमधुभिस्तर्पयन्त्यो महेश्वरीम् ॥ ३.३२.६५ ॥

मिलित्वा चैव सङ्ख्याताः षष्ट्युत्तरशतत्रयम् ।
एवं सप्तसु शालेषु पालिकाश्चक्रदेवताः ॥ ३.३२.६६ ॥

नामकीर्तनपूर्वं तु प्रोक्तस्तुभ्यं प्रपृच्छते ।
अन्येषामपि शालानामुपादानं तु पूरकम् ।
विस्तारं तत्र शक्तिं च कथयाम्यवधारय ॥ ३.३२.६७ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसम्वादे ललितोपाख्याने श्रीनगरत्रिपुरासप्तकक्षापालकदेवताप्रकाशन कथनं नाम द्वात्रिंशोऽध्यायः