विश्वास-प्रस्तुतिः
अगस्त्य उवाच
अश्वानन महाप्राज्ञ श्रुतमाख्यानमुत्तमम् ।
विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया ॥ ३.३०.१ ॥
मूलम्

चरितैरनघैर्देव्याः सुप्रीतोऽस्मि हयानन ।
श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः ॥ ३.३०.२ ॥

पश्चात्किमकरोत्तत्र युद्धानन्तरमम्बिका ।
चतुर्थदिनशर्वर्यां विभातायां हयानन ॥ ३.३०.३ ॥

हयग्रीव उवाच
शृणु कुम्भज तत्प्राज्ञ यत्तया जगदम्बया ।
पश्चादाचरितं कर्म निहते भण्डदानवे ॥ ३.३०.४ ॥

शक्तीनामखिलं सैन्यं दैत्ययुधशतार्दितम् ।
मुहुराह्लादयामास लोचनैरमृताप्लुतैः ॥ ३.३०.५ ॥

ललितापरमेशान्याः कटाक्षामृतधारया ।
जहुर्युद्धपरिश्रान्तिं शक्तयः प्रीतिमानसाः ॥ ३.३०.६ ॥

अस्मिन्नवसरे देवा भण्डमर्दनतोषिताः ।
सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः ॥ ३.३०.७ ॥

ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्यास्त्रिदशास्तथा ।
आदित्या वसवो रुद्रा मरुतः साध्यदेवताः ॥ ३.३०.८ ॥

सिद्धाः किम्पुरुषा यक्षा निरृत्याद्या निशाचराः ।
प्रह्लादाद्या महादैत्याः सर्वेऽप्यण्डनिवासिनः ॥ ३.३०.९ ॥

आगत्य तुष्टुवुः प्रीत्या सिंहासनमहेश्वरीम् ॥ ३.३०.१० ॥
विश्वास-प्रस्तुतिः
ब्रह्माद्या ऊचुः
नमोनमस्ते जगदेकनाथे नमोनमः श्रीत्रिपुराभिधाने ।
नमोनमो भण्डमहासुरघ्ने नमोऽस्तु कामेश्वरि वामकेशि ॥ ३.३०.११ ॥

चिन्तामणे चिन्तितदानदक्षेऽचिन्तये चिराकारतरङ्गमाले ।
चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते ॥ ३.३०.१२ ॥

मोक्षप्रदे मुग्धशशाङ्कचूडे मुग्धस्मिते मोहनभेददक्षे ।
मुद्रेश्वरीचर्चितराजतन्त्रे मुद्राप्रिये देवि नमोनमस्ते ॥ ३.३०.१३ ॥

क्रूरान्तकध्वंसिनि कोमलाङ्गे कोपेषु कालीं तनुमादधाने ।
क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते ॥ ३.३०.१४ ॥

षडङ्गदेवीपरिवारकृष्णे षडङ्गयुक्तश्रुतिवाक्यमृग्ये ।
षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते ॥ ३.३०.१५ ॥

कामे शिवे मुख्यसमस्तनित्ये कान्तासनान्ते कमलायताक्षि ।
कामप्रदे कामिनि कामशम्भोः काम्ये कलानामधिपे नमस्ते ॥ ३.३०.१६ ॥

दिव्यौषधाद्ये नगरौघरूपे दिव्ये दिनाधीशसहस्रकान्ते ।
देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते ॥ ३.३०.१७ ॥

सदाणिमाद्यष्टकसेवनीये सदाशिवात्मोज्ज्वलमञ्चवासे ।
सभ्ये सदेकाल यपादपूज्ये सवित्रि लोकस्य नमोनमस्ते ॥ ३.३०.१८ ॥

ब्राह्मीमुखैर्मातृगणैर्निषेव्ये ब्रह्मप्रिये ब्राह्मणबन्धमेत्रि ।
ब्रह्मामृतस्रोतसि राजहंसिब्रह्मेश्वरि श्रीललिते नमस्ते ॥ ३.३०.१९ ॥

सङ्क्षोभिणीमुख्यसमस्तमुद्रासंसेविते संसरणप्रहन्त्रि ।
संसारलीलाकृतिसारसाक्षि सदा नमस्ते ललितेऽधिनाथे ।
नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये ॥ ३.३०.२० ॥

नित्ये निरातङ्कदयाप्रपञ्चे नीलालकश्रेणि नमोनमस्ते ।
अनङ्गपुष्पादिभिरुन्नदाभिरनङ्गदेवीभिरजस्रसेव्ये ।
अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते ॥ ३.३०.२१ ॥

सङ्क्षोभिणीमुख्यचतुर्दशार्चिर्मालावृतोदारमहाप्रदीप्ते ।
आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते ॥ ३.३०.२२ ॥

सशर्वसिद्धादि कशक्तिवन्द्ये सर्वज्ञविज्ञातपदारविन्दे ।
सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥ ३.३०.२३ ॥

सर्वज्ञजातप्रथमाभिरन्यदेवी भिरप्याश्रितचक्रभूमे ।
सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि ॥ ३.३०.२४ ॥

वन्दे वशिन्यादिकवाग्विभूते वर्द्धिष्णुचक्र द्युतिवाहवाहे ।
बलाहकश्यामकचे वचोऽब्धे वरप्रदे सुन्दरि पाहि विश्वम् ॥ ३.३०.२५ ॥

बाणादिदिव्यायुधसार्वभौमे भण्डासुरानीकवनान्तदावे ।
अत्युग्रतेजोज्ज्वलिताम्बुराशे प्रसेव्यमाने परितो नमस्ते ॥ ३.३०.२६ ॥

कामेशि वज्रेशि भगेश्यरूपे कन्ये कले कालविलोपदक्षे ।
कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते ॥ ३.३०.२७ ॥

बिन्दुस्थिते बिन्दुकलैकरूपे बिन्द्वात्मिके बृंहितचित्प्रकाशे ।
बृहत्कुचम्भोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते ॥ ३.३०.२८ ॥

कामेश्वरोत्सङ्गसदानिवासे कालात्मिके देवि कृतानुकम्पे ।
कल्पावसानोत्थित कालिरूपे कामप्रदे कल्पलते नमस्ते ॥ ३.३०.२९ ॥

सवारुणे सान्द्रसुधांशुशीते सारङ्गशावाक्षि सरोजवक्त्रे ।
सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि सन्नतिस्ते ॥ ३.३०.३० ॥

तव प्रभावेण चिदग्निजायां श्रीशम्भुनाथप्रकडीकृतायाः ।
भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः ॥ ३.३०.३१ ॥

नव्यानि सर्वाणि वपूंषि कृत्वा हि सान्द्रकारुण्यसुधाप्लवैर्न्नः ।
त्वया समस्तं भुवनं सहर्षं सुजीवितं सुन्दरि सभ्यलभ्ये ॥ ३.३०.३२ ॥

श्रीशम्भुनाथस्य महाशयस्य द्वितीयतेजः प्रसरात्मके यः ।
स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः ॥ ३.३०.३३ ॥

तेनाद्रिवंशे धृतजन्मलाभां कन्यामुमां योजयितुं प्रवृत्ताः ।
एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य ॥ ३.३०.३४ ॥

तेनाथ वैराग्यतपोविघातक्रोधेन लालाटकृशानुदग्धः ।
भस्मावशेषो मदनस्ततोऽभूत्ततो हि भण्डासुर एष जातः ॥ ३.३०.३५ ॥

ततो वधस्तस्य दुराशयस्य कृतो भवत्या रणदुर्मदस्य ।
अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसञ्जीवनमाशुकुर्याः ॥ ३.३०.३६ ॥

इयं रतिर्भर्तृवियोगखिन्ना वैधव्यमत्यन्तमभव्यमाप ।
पुनस्त्वदुत्पादितकामसङ्गाद्भविष्यति श्रीललिते सनाथा ॥ ३.३०.३७ ॥

तया तु दृष्टेन मनोभवेन सम्मोहितः पूर्ववदिन्दुमौलिः ।
चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्राक्परिणेष्यतीशः ॥ ३.३०.३८ ॥

तयोश्च सङ्गाद्भविता कुमारः समस्तगीर्वाणचमूविनेता ।
तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः ॥ ३.३०.३९ ॥

यो भण्डदैत्यस्य दुराशयस्य मित्रं स लोकत्रयधूमकेतुः ।
श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः ॥ ३.३०.४० ॥

तस्मात्त्वमम्बत्रिपुरे जनानां मानापहं मन्मथवीरवर्यम् ।
उत्पाद्यरत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः ॥ ३.३०.४१ ॥

एषा त्वनाथा भवतीं प्रपन्ना भर्तृप्रणाशेन कृशाङ्गयष्टिः ।
नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि ॥ ३.३०.४२ ॥

इति स्तुत्वा महेशानी ब्रह्माद्या विबुधोत्तमाः ।
तां रतिं दर्शयमासुर्मलिनां शोककर्शितम् ॥ ३.३०.४३ ॥

सा पर्यश्रुमुखी कीर्णकुन्तला धूलिधूसरा ।
ननाम जगदम्बां वै वैधव्यत्यक्तभूषणा ॥ ३.३०.४४ ॥

अथ तद्दर्शनोत्पन्नकारुण्या परमेश्वरी ।
ततः कटाक्षादुत्पन्नः स्मयमानसुखाम्बुजः ॥ ३.३०.४५ ॥

पूर्वदेहाधिकरुचिर्मन्मथो मदमेदुरः ।
द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः ॥ ३.३०.४६ ॥

आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् ।
अथ सापि रतिर्देवी महत्यानन्दसागरे ।
मज्जन्ती निजभर्तारमवरोक्य मुदं गता ॥ ३.३०.४७ ॥

मज्जन्ती निजभर्तारमवलोक्य मुदं गता ॥ ३.३०.४८ ॥

श्यामले स्नापयित्वैनां वस्त्रकाञ्च्यादिभूषणैः ।
अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह ॥ ३.३०.४९ ॥

तदाज्ञां शिरसा धृत्वा श्यामा सर्वं तथाकरोत ।
ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः ॥ ३.३०.५० ॥

कारयामास दम्पत्योः पाणिग्रहणमङ्गलम् ।
अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम् ॥ ३.३०.५१ ॥

एतद्दृष्ट्वा महेन्द्राद्या ऋषयश्च तपोधनाः ।
साधुसाध्विति शंसन्तस्तुष्टुवुर्ललिताम्बिकाम् ॥ ३.३०.५२ ॥

पुष्पवृष्टिं विमुञ्चन्तः सर्वे सन्तुष्टमानसाः ।
बभूवुस्तौ महाभक्त्या प्रणम्य ललितेश्वरीम् ॥ ३.३०.५३ ॥

तत्पार्श्वे तु समागत्य बद्धाञ्जलिपुटौ स्थितौ ।
अथ कन्दर्पवीरोऽपि नमस्कृत्य महेश्वरीम् ।
व्यज्ञापयदिदं वाक्यं भक्तिनिर्भरमानसः ॥ ३.३०.५४ ॥

यद्दग्धमीशनेत्रेण वपुर्मे ललिताम्बिके ।
तत्त्वदीयकटाक्षस्य प्रसादात्पुनरागतम् ॥ ३.३०.५५ ॥

तव पुत्रोऽस्मि दासोऽस्मि क्वापि कृत्ये नियुङ्क्ष्व माम् ।
इत्युक्ता परमेशानी तमाह मकरध्वजम् ॥ ३.३०.५६ ॥

श्रीदेव्युवाच
वत्सागच्छ मनोजन्मन्न भयं तव विद्यते ।
मत्प्रसादाज्जगत्सर्वं मोहयाव्याहताशुग ॥ ३.३०.५७ ॥

तद्बाणपातनाज्जातधैर्यविप्लव ईश्वरः ।
पर्वतस्य सुतां गौरीं परिणेष्यति सत्वरम् ॥ ३.३०.५८ ॥

सहस्रकोटयः कामा मत्प्रसादात्त्वदुद्भवाः ।
सर्वेषां देहमाविश्य दास्यन्ति रतिमुत्तमाम् ॥ ३.३०.५९ ॥

मत्प्रसादेन वैराग्यात्सङ्क्रुद्धोऽपि स ईश्वरः ।
देहदाहं विधातुं ते न समर्थो भविष्यति ॥ ३.३०.६० ॥

अदृश्यमूर्तिः सर्वेषां प्राणिनां भवमोहनः ।
स्वभार्याविरहाशङ्की देहस्यार्धं प्रदास्यति ।
प्रयातोऽसौ कातरात्मा त्वद्बाणाहतमानसः ॥ ३.३०.६१ ॥

अद्य प्रभृति कन्दर्प मत्प्रसादान्महीयसः ।
त्वन्निन्दां ये करिष्यन्ति त्वयि वा विमुखाशयाः ।
अवश्यं क्लीबतैव स्यात्तेषां जन्मनिजन्मनि ॥ ३.३०.६२ ॥

ये पापिष्ठा दुरात्मानो मद्भक्तद्रोहिणश्च हि ।
तानगम्यासु नारीषु पातयित्वा विनाशय ॥ ३.३०.६३ ॥

येषां मदीय पूजासु मद्भक्तेष्वादृतं मनः ।
तेषां कामसुखं सर्वं सम्पादय समीप्सितम् ॥ ३.३०.६४ ॥

इति श्रीललितादेव्या कृताज्ञावचनं स्मरः ।
तथेति शिरसा बिभ्रत्साञ्जलिर्निर्ययौ ततः ॥ ३.३०.६५ ॥

तस्यानङ्गस्य सर्वेभ्यो रोमकूपेभ्य उत्थिताः ।
बहवः शोभनाकारा मदना विश्वमोहनाः ॥ ३.३०.६६ ॥

तैर्विमोह्य समस्तं च जगच्चक्रं मनोभवः ।
पुनः स्थाण्वाश्रमं प्राप चन्द्रमौलेर्जिगीषया ॥ ३.३०.६७ ॥

वसन्तेन च मित्रेण सेनान्या शीतरोचिषा ।
रागेण पीठमर्देन मन्दानिलरयेण च ॥ ३.३०.६८ ॥

पुंस्कोकिलगलत्स्वानकाहलीभिश्च संयुतः ।
शृङ्गारवीरसम्पन्नो रत्यालिङ्गितविग्रहः ॥ ३.३०.६९ ॥

जैत्र शरासनं धुन्वन्प्रवीराणां पुरोगमः ।
मदनारेरभिमुखं प्राप्य निभय आस्थितः ॥ ३.३०.७० ॥

तपोनिष्ठं चन्द्रचूडं ताडयामास सायकैः ।
अथ कन्दर्पबाणौधैस्ताडितश्चन्द्रशेखरः ।
दूरीचकार वैराग्यं तपस्तत्त्याज दुष्करम् ॥ ३.३०.७१ ॥

नियमानखिलांस्त्यक्त्वा त्यक्तधैर्यः शिवः कृतः ।
तामेव पार्वतीं ध्यात्वा भूयोभूयः स्मरातुरः ॥ ३.३०.७२ ॥

निशश्वास वहञ्शर्वः पाण्डुरं गण्डमण्डलम् ।
बाष्पायमाणो विरही सन्तप्तो धैर्यविप्लवात् ।
भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन् ॥ ३.३०.७३ ॥

अनङ्गबाणदहनैस्तप्यमानस्य शूलिनः ।
न चन्द्ररेखा नो गङ्गा देहतापच्छिदेऽभवत् ॥ ३.३०.७४ ॥

नन्दिभृङ्गिमहाकालप्रमुखैर्गणमण्डलैः ।
आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः ॥ ३.३०.७५ ॥

नन्दिनो हस्तमालम्ब्य पुष्पतल्पान्तरात्पुनः ।
पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः ॥ ३.३०.७६ ॥

न पुष्पशयनेनेन्दुखण्डनिर्गलितामृते ।
न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः ॥ ३.३०.७७ ॥

स तनेरतनुज्वालां शमयिष्यन्मुहुर्मुहुः ।
शिलीभूतान्हिमपयः पट्टानध्यवसच्छिवः ।
भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत् ॥ ३.३०.७८ ॥

तदालोकनतोऽदूरमनङ्गार्तिमवर्धयत् ।
तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः ॥ ३.३०.७९ ॥

तच्चित्रपट्टमङ्गेषु रोमहर्षेषु चाक्षिपत् ।
चिन्तासङ्गेन महता महात्या रतिसम्पदा ।
भूयसा स्मरतापेन विव्यथे विषमेक्षणः ॥ ३.३०.८० ॥

तामेव सर्वतः पश्यंस्तस्यामेव मनो दिशन् ।
तथैव संल्लपन्सार्धमुन्मादेनोपपन्नया ॥ ३.३०.८१ ॥

तन्मात्रभूतहृदयस्तच्चित्तस्तत्परायणः ।
तत्कथासुधया नीतसमस्तरजनीदिनः ॥ ३.३०.८२ ॥

तच्छीलवर्णन रतस्तद्रूपालोकनोत्सुकः ।
तच्चारुभोगसङ्कल्पमालाकरसुमालिकः ।
तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः ॥ ३.३०.८३ ॥

इमां मनोभव रुजमचिकित्स्यां स धूर्जटिः ।
अवलोक्य विवाहाय भृशमुद्यमवानभूत् ॥ ३.३०.८४ ॥

इत्थं विमोह्य तं देवं कन्दर्पो ललिताज्ञया ।
अथ तां पर्वतसुतामाशुगैरभ्यतापयत् ॥ ३.३०.८५ ॥

प्रभूतविरहज्वालामलिनैः श्वसितानलैः ।
शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः ॥ ३.३०.८६ ॥

नाहारे वा न शयने न स्वापे धृतिमिच्छति ।
मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः ॥ ३.३०.८७ ॥

पुनः पुनस्तप्यमाना पुनरेव च विह्वला ।
न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः ॥ ३.३०.८८ ॥

न निद्रां पार्वती भेजे विरहेणोपतापिता ।
स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत् ॥ ३.३०.८९ ॥

अप्रतीकारपुरुषं विरहं तुहितुः शिवे ।
अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान् ॥ ३.३०.९० ॥

भद्रे त्वं तपसा देवं तोषयित्वा महेश्वरम् ।
भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा ॥ ३.३०.९१ ॥

हिमवच्छैलशिखरे गौरीशिखरनामनि ।
वकार पतिलाभाय पार्वती दुष्करं तपः ॥ ३.३०.९२ ॥

शिशिरेषु जलावासा ग्रीष्मे दहनमध्यगा ।
अर्के निविष्टदृष्टिश्च सुघोरं तप आस्थिता ॥ ३.३०.९३ ॥

तेनैव तपसा तुष्टः सान्निध्यं दत्तवाञ्छिवः ।
अङ्गीचकार तां भार्यां वैवाहिकविधानतः ॥ ३.३०.९४ ॥

अथाद्रिपतिना दत्तां तनयां नलिनेक्षणाम् ।
सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः ॥ ३.३०.९५ ॥

तया च रममाणोऽसौ बहुकालं महेश्वरः ।
ओषधीप्रस्थनगरे श्वशुरस्य गृहेऽवसत् ॥ ३.३०.९६ ॥

पुनः कैलासमागत्य समस्तैः प्रमथैः सह ।
पार्वतीमानिनायाद्रिनाथस्य प्रीतिमावहत् ॥ ३.३०.९७ ॥

रममाणस्तया सार्थं कैलासे मन्दरे तथा ।
विन्ध्याद्रौ हेमशैले च मलये पारियात्रके ॥ ३.३०.९८ ॥

नानाविधेषु स्थानेषु रतिं प्राप महेश्वरः ।
अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा ॥ ३.३०.९९ ॥

भुव्यत्यजत्सापि वह्नौ कृत्तिकासु स चाक्षिपत् ।
ताश्च गङ्गाजलेऽमुञ्चन्सा चैव शरकानने ॥ ३.३०.१०० ॥

तत्रोद्भूतो महावीरो महासेनः षडाननः ।
गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धि मागमत् ॥ ३.३०.१०१ ॥

स वर्धमानो दिवसेदिवसे तीव्रविक्रमः ।
शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान् ॥ ३.३०.१०२ ॥

अथ तातकृतानुज्ञः सुरसैन्यपतिर्भवन् ।
तारकं मारयामास समस्तैः सह दानवैः ॥ ३.३०.१०३ ॥

ततस्तारकदैत्येन्द्रवधसन्तोषशालिना ।
शक्रेण दत्तां स गुहो देवसेनामुपानयत् ॥ ३.३०.१०४ ॥

सा शक्रतनया देवसेना नाम यशस्विनी ।
आसाद्यरमणं स्कन्दमानन्दं मृशमादधौ ॥ ३.३०.१०५ ॥

इत्थं सम्मोहिताशेषविश्वचक्रो मनोभवः ।
देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः ॥ ३.३०.१०६ ॥

यत्र श्रीनगरे पुण्ये ललिता परमेश्वरी ।
वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ ॥ ३.३०.१०७ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनपुनर्भवो नाम त्रिंशोऽध्यायः