०२९

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
अश्वानन महाप्राज्ञ वर्णितं मन्त्रिणीबलम् ।
विषङ्गस्य वधो युद्धे वर्णितो दण्डनाथया ॥ ३.२९.१ ॥

मूलम्

श्रीदेव्याः श्रोतुमिच्छामि रणचक्रे पराक्रमम् ।
सोदरस्यापदं दृष्ट्वा भण्डः किमकरोच्छुचा ॥ ३.२९.२ ॥

कथं तस्य रणोत्साहः कैः समं समयुध्यत ।
सहायाः केऽभवंस्तस्य हतभ्रातृतनूभुवः ॥ ३.२९.३ ॥

हयग्रीव उवाच
इदं शृणु महाप्राज्ञ सर्वपापनिकृन्तनम् ।
ललिताचरितं पुण्यमणिमादिगुमप्रदम् ॥ ३.२९.४ ॥

वैषुवायनकालेषु पुण्येषु समयेषु च ।
सिद्धिदं सर्वपापघ्नं कीर्तिदं पञ्चपर्वसु ॥ ३.२९.५ ॥

तदा हतौ रणे तत्र श्रुत्वा निजसहोदरौ ।
शोकेन महताविष्टो भण्डः प्रविललाप सः ॥ ३.२९.६ ॥

विकीर्मकेशो धरणौ मूर्छितः पतितस्तदा ।
न लेभे किञ्चिदाश्वासं भ्रातृव्यसनकर्शितः ॥ ३.२९.७ ॥

पुनः पुनः प्रविलपन्कुटिलाक्षेण भूरिशः ।
आश्वास्यामानः शोकेन युक्तः कोपमवाप सः ॥ ३.२९.८ ॥

फालं वहन्नतिक्रूरं भ्रमद्भ्रुकुटिभीषणम् ।
अङ्गारपाटलाक्षश्च निःश्वसन्कृष्णसर्पवत् ॥ ३.२९.९ ॥

उवाच कुटिलाक्षं द्राक्समस्तपृतनापतिम् ।
क्षिप्रं मुहुर्मुहुः स्पृष्ट्वा धुन्वानः करवालिकाम् ॥ ३.२९.१० ॥

क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत् ॥ ३.२९.११ ॥

विश्वास-प्रस्तुतिः

ययैव दृष्टया मायाबलाद्युद्धे विनाशिताः ।
भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः ॥ ३.२९.१२ ॥

तस्याः स्त्रियाः प्रमत्तायाः कण्ठोत्थैः शोणितद्रवैः ।
भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम् ॥ ३.२९.१३ ॥

गच्छ रे कुटिलाक्ष त्वं सज्जीकुरु पताकिनीम् ।
इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत् ॥ ३.२९.१४ ॥

दधानो भुजमध्येन बध्नन्पृष्ठ तथेषुधी ।
उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः ॥ ३.२९.१५ ॥

कालाग्निरिव सङ्क्रुद्धो निर्जगाम निजात्पुरात् ।
तालजङ्घादिकैः सार्द्धम्पूर्वद्वारे निवेशिते ॥ ३.२९.१६ ॥

चतुर्भिर्धृतशस्त्रौघैर्धृतवर्मभिरुद्धतैः ।
पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः ॥ ३.२९.१७ ॥

सर्वसेनापतीन्द्रेण कुटिलाक्षेण स क्रुधा ।
मिलितेन च भण्डेन चत्वारिंशच्चमूवराः ॥ ३.२९.१८ ॥

दीप्तायुधा दीप्तकेशा निर्जग्मुर्दीप्तकङ्कटाः ।
द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका ॥ ३.२९.१९ ॥

तदेनमन्वगादेकहेलया मथितुं द्विषः ।
भण्डासुरे विनिर्याते सर्वसैनिकसङ्कुले ॥ ३.२९.२० ॥

शून्यके नगरे तत्र स्त्रीमात्रमवशेषितम् ।
आभिलो नाम दैत्येन्द्रो रथवर्यो महारथः ।
सहस्रयुग्यसिंहाढ्यमारुरोह रणोद्धतः ॥ ३.२९.२१ ॥

तत्वरे विज्वलज्ज्वालाकालाग्निरिव दीप्तिमान् ।
घातको नाम वै खड्गश्चन्द्रहाससमाकृतिः ॥ ३.२९.२२ ॥

इतस्ततश्चलन्तीनां सेनानां धूलिरुत्थिता ।
वोढुं तासां भरं भूमिरक्षमेव दिवं ययौ ॥ ३.२९.२३ ॥

केचिद्भूमेरपर्याप्ताः प्रचेलुर्व्योमवर्त्मना ।
केषाञ्चित्स्कन्धमारूढाः केचिच्चेलुर्महारथाः ॥ ३.२९.२४ ॥

न दिक्षु न च भूचक्रे न व्योमनि च ते ममुः ।
दुःखदुखेन ते चेलुरन्योन्याश्लेषपीडिताः ॥ ३.२९.२५ ॥

अत्यन्त सेनासम्मर्दाद्रथचक्रैर्विचूर्णिताः ।
केचित्पादेन नागानां मर्दिता न्यपतन्भुवि ॥ ३.२९.२६ ॥

इत्थं प्रचलिता तेन समं सर्वैश्च सैनिकैः ।
वज्रनिष्पेषसदृशो मेघनादो व्यधीयत ॥ ३.२९.२७ ॥

तेनातीव कठोरेण सिंहनादेन भूयसा ।
भण्डदैत्यमुखोत्थेन विदीर्णमभवज्जगत् ॥ ३.२९.२८ ॥

सागराः शोषमापन्नाश्चन्द्राकारै प्रपलायितौ ।
उडूनि न्यपतन्व्योम्नो भूमिर्देलायिताभवत् ॥ ३.२९.२९ ॥

दिङ्नागाश्चाभवंस्त्रस्ता मूर्च्छिताश्च दिवौकसः ।
शक्तीनां कटकं चासीदकाण्डत्रासविह्वलम् ॥ ३.२९.३० ॥

प्राणान्सन्धारयामासुः कथञ्चिन्मध्य आहवे ।
शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः ॥ ३.२९.३१ ॥

वह्निप्राकारवलयं प्रशान्तं पुनरुत्थितम् ।
दैत्येन्द्रसिंहनादेन चमूनाथधनुःस्वनैः ॥ ३.२९.३२ ॥

क्रन्दनैश्चापि योद्धॄणामभूच्छब्दमयं जगत् ।
तेन नादेन महता भण्डदैत्यविनिर्गमम् ।
निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे ॥ ३.२९.३३ ॥

अशक्यमन्यशक्तीनामाकलय्य महाहवम् ।
भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता ॥ ३.२९.३४ ॥

चक्रराजरथस्तस्याः प्रचचाल महोदयः ।
चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥ ३.२९.३५ ॥

आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः ।
नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः ॥ ३.२९.३६ ॥

परार्धाधिकसङ्ख्यातपरिवारसमृद्धिभिः ।
पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम् ॥ ३.२९.३७ ॥

दशयोजनमुन्नद्धश्चतुर्योजन विस्तृतः ।
महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ ॥ ३.२९.३८ ॥

तस्मिन्प्रचलिते जुष्टे श्यामया दण्डनाथया ।
गेयचक्रं तु बालाग्रे किरिचक्रं तु बृष्ठतः ॥ ३.२९.३९ ॥

अन्यासामपि शक्तीनां वाहनानि परार्द्धशः ।
नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ॥ ३.२९.४० ॥

गजभेरुण्डशरभ व्याघ्रवातमृगास्तथा ।
एतादृशश्च तिर्यञ्चोऽप्यन्ये वाहनतां गताः ॥ ३.२९.४१ ॥

मुहुरुच्चावचाः शक्तीर्भण्डासुरवधोद्यताः ।
योजनायामविस्तारमपि तद्द्वारमण्डलम् ।
वह्निप्राकारचक्रस्य न पर्याप्तं चमूपतेः ॥ ३.२९.४२ ॥

ज्वालामालिनिका नित्या द्वारस्यात्यन्तविस्तृतिम् ।
विततान समस्तानां सैन्यानां निर्गमैषिणी ॥ ३.२९.४३ ॥

अथ सा जगतां माता महाराज्ञी महोदया ।
निर्जगामा ग्निपुरता वरद्वारात्प्रतापिनी ॥ ३.२९.४४ ॥

देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः ।
महामुक्तातपत्रं तद्दिवि दीप्तमदृश्यत ॥ ३.२९.४५ ॥

निमित्तानि प्रसन्नानि शंसकानि जयश्रियाः ।
अभवंल्ललितासैन्ये उत्पातास्तु द्विषां बले ॥ ३.२९.४६ ॥

ततः प्रववृते युद्धं सेन योरुभयोरपि ।
प्रसर्पद्विशिखैः स्तोमबद्धान्धतमसच्छटम् ॥ ३.२९.४७ ॥

हन्यमानगजस्तोमसृतशोणितबिन्दुभिः ।
ह्नीयमाणशिरश्छन्नदैत्यश्वेतातपत्रकम् ॥ ३.२९.४८ ॥

न दिशो न नभो नागा न भूमिर्न च किञ्चन ।
दृश्यते केवलं दृष्टं रजोमात्रं च सूर्च्छितम् ॥ ३.२९.४९ ॥

नृत्यत्कबन्धनिवहाविर्भूततटपादपम् ।
दैत्यकेशसहस्रैस्तु शैवालाङ्कुरकोमला ॥ ३.२९.५० ॥

श्वेतातपत्रयवलयश्वेतपङ्कजभासुरा ।
चक्रकृत्तकरिग्रामपादकूर्मपरम्परा ॥ ३.२९.५१ ॥

शक्तिध्वस्तमहादैत्यगलगण्डशिलोच्चया ।
विलूनकाण्डैः पतितैः सफेना बलचामरैः ॥ ३.२९.५२ ॥

तीक्ष्णासिवल्लरीजालैर्निबिडीकृततीरभूः ।
दैत्यवीरेक्षमश्रेणिमुक्तिंसपुटभासुरा ॥ ३.२९.५३ ॥

दैत्यवाहनसङ्घातन क्रमीनशताकुला ।
प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः ॥ ३.२९.५४ ॥

इत्थं प्रववृते युद्धं मृत्योश्च त्रासदायकम् ।
चतुर्थयुद्धदिवसे प्रातरा रभ्यभीषणम् ।
प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि ॥ ३.२९.५५ ॥

ततः श्रीललितादेव्या भण्डस्याथाभवद्रणः ।
अस्त्रप्रत्यस्त्रसङ्क्षोभैस्तुमुलीकृतदिक्तटः ॥ ३.२९.५६ ॥

धनुर्ज्यातलटङ्कारहुङ्कारैरतिभीषणः ।
तूणीरवदनात्कृष्टधनुर्वरविनिः सृतैः ।
विमुक्तैर्विशिशैर्भीमैराहवे प्राणहारिभिः ॥ ३.२९.५७ ॥

हस्तलाघववेगेन न प्राज्ञायत किञ्चन ।
महाराज्ञीकराम्भोजव्यापारं शरमोक्षणे ।
शृणु सर्वं प्रवक्ष्यामि कुम्भसम्भव सङ्गरे ॥ ३.२९.५८ ॥

सन्धाने त्वेकधा तस्य दशधा चापनिर्गमे ।
शतधा गगने दैत्यसैन्यप्राप्तौ सहस्रधा ।
दैत्याङ्गसङ्गे सम्प्राप्ताः कोटिसङ्ख्याः शिलीमुखाः ॥ ३.२९.५९ ॥

परान्धकारं सृजती भिन्दती रोदसी शरैः ।
मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः ॥ ३.२९.६० ॥

वहत्कोपारुणं नेत्रं ततो भण्डः स दानवः ।
ववष शरजालेन महता ललितेश्वरीम् ॥ ३.२९.६१ ॥

अन्धतामिस्रकं नाम महास्त्रं प्रमुमोच सः ।
महातरणिबाणेन तन्नुनोद महेश्वरी ॥ ३.२९.६२ ॥

पाखण्डास्त्रं महावीरो भण्डः प्रमुमुचे रणे ।
गायत्र्यस्त्रं तस्य नुत्यै ससर्ज जगदम्बिका ॥ ३.२९.६३ ॥

अन्धास्त्रमसृजद्भण्डः शक्तिदृष्टिविनाशनम् ।
चाक्षुष्मतमहास्त्रेण शमयायास तत्प्रसूः ॥ ३.२९.६४ ॥

शक्तिनाशाभिधं भण्डो मुमोचास्त्रं महारणे ।
विश्वावसोरथास्त्रेण तस्य दर्पमपाकरोत् ॥ ३.२९.६५ ॥

अन्तकास्त्रं ससर्जोच्चैः सङ्क्रुद्धो भडदानवः ।
महामृत्युञ्जयास्त्रेण नाशयामास तद्बलम् ॥ ३.२९.६६ ॥

सर्वास्त्रस्मृतिनाशाख्यमस्त्रं भण्डो व्यमुञ्चत ।
धारणास्त्रेण चक्रेशी तद्बलं समनाशयत् ॥ ३.२९.६७ ॥

भयास्त्रमसृजद्भण्डः शक्तीनां भीतिदायकम् ।
अभयङ्करमैन्द्रास्त्रं मुमुचे जगदम्बिका ॥ ३.२९.६८ ॥

महारोगास्त्रमसृजच्छक्तिसेनासु दानवः ।
राजयक्ष्मादयो रोगास्ततोऽभूवन्सहस्रशः ॥ ३.२९.६९ ॥

तन्निवारणसिद्ध्यर्थं ललिता परमेश्वरी ।
नामत्रयमहामन्त्रमहास्त्रं सा मुमोच ह ॥ ३.२९.७० ॥

अच्युतश्चाप्यनन्तश्च गोविन्दस्तु शरोत्थिताः ।
हुङ्कारमात्रतो दग्ध्वारोगांस्ताननयन्मुदम् ॥ ३.२९.७१ ॥

नत्वा च तां महेशानीं तद्भक्तव्याधिमर्दनम् ।
विधातुं त्रिषु लोकेषु नियुक्ताः स्वपदं ययुः ॥ ३.२९.७२ ॥

आयुर्नाशनमस्त्रं तु मुक्तवान्भण्डदानवः ।
कालसङ्कर्षणीरूपमस्त्रं राज्ञी व्यमुञ्चत ॥ ३.२९.७३ ॥

महासुरास्त्रमुद्दामं व्यसृजद्भण्डदानवः ।
ततः सहस्रशो जाता महाकाया महाबलाः ॥ ३.२९.७४ ॥

मधुश्च कैटभश्चैव महिषासुर एव च ।
धूम्रलोचनदैत्यश्च चण्डमुण्डादयोऽसुराः ॥ ३.२९.७५ ॥

चिक्षुभश्चामरश्चैव रक्तबीजोऽसुरस्तथा ।
शुम्भश्चैव निशुम्भश्च कालकेया महाबलाः ॥ ३.२९.७६ ॥

धूम्राभिधानाश्च परे तस्मादस्त्रात्समुत्थिताः ।
ते सर्वे दानवश्रेष्ठाः कठोरैः शस्त्रमण्डलैः ॥ ३.२९.७७ ॥

शक्तिसेनां मर्दयन्तो नर्द्दन्तश्च भयङ्करम् ।
हाहेति क्रन्दमानाश्चशक्तयो दैत्यमर्दिताः ॥ ३.२९.७८ ॥

ललितां शरणं प्राप्ताः पाहि पाहीति सत्वरम् ।
अथ देवी भृशं क्रुद्धा रुषाट्टहासमातनोत् ॥ ३.२९.७९ ॥

ततः समुत्थिता काचिद्दुर्गा नाम यशस्विनी ।
समस्तदेवतेजोभिर्निर्मिता विश्वरूपिणी ॥ ३.२९.८० ॥

शूलं च शूलिना दत्तं चक्रं चक्रिसमर्पितम् ।
शङ्खं वरुणदत्तश्च शक्तिं दत्तां हविर्भुजा ॥ ३.२९.८१ ॥

चापमक्षयतूणीरौ मरुद्दत्तौ महामृधे ।
वज्रिदत्तं च कुलिशं चषकन्धनदार्पितम् ॥ ३.२९.८२ ॥

कालदण्डं महादण्डं पाशं पाशधरार्पितम् ।
ब्रह्मदत्तां कुण्डिकां च घण्टामैरावतार्पिताम् ॥ ३.२९.८३ ॥

मृत्युदत्तौ खड्गखेटौ हारं जलधिनार्पितम् ।
विश्वकर्मप्रदत्तानि भूषणानि च बिभ्रती ॥ ३.२९.८४ ॥

अङ्गैः सहस्रकिरणश्रेणिभासुररश्मिभिः ।
आयुधानि समस्तानि दीपयन्ति महोदयैः ॥ ३.२९.८५ ॥

अन्यदत्तैरथान्यैश्च शोभमाना परिच्छदैः ।
सिंहवाहनमारुह्य युद्धं नारायणीव्यधात् ॥ ३.२९.८६ ॥

तथा ते महिषप्रख्या दानवा विनिपातिताः ।
चण्डिकासप्तशत्यां तु यथा कर्म पुराकरोत् ॥ ३.२९.८७ ॥

तथैव समरञ्चक्रे महिषादिमदापहम् ।
तत्कृत्वा दुष्करं कर्म ललितां प्रणनाम सा ॥ ३.२९.८८ ॥

मूकास्त्रमसृद्दुष्टः शक्तिसेनासु दानवः ।
महावाग्वा दिनी नाम ससर्जास्त्रं जगत्प्रसूः ॥ ३.२९.८९ ॥

विद्यारूपस्य वेदस्य तस्करानसुराधमान् ।
ससर्ज तत्र समरे दुर्मदो भण्डदानवः ॥ ३.२९.९० ॥

दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्या तिरस्कृतः ।
अर्णवास्त्रं महादीरो भण्डदैत्यो रणेऽसृजत् ॥ ३.२९.९१ ॥

तत्रोद्दामपयः पूरे शक्तिसैन्यं ममजज च ।
अथ श्रीललितादक्षहस्ततर्जनिकानखात् ।
आदिकूर्मः समुत्पन्नो योजनायतविस्तरः ॥ ३.२९.९२ ॥

धृतास्तेन महाभोगखर्परेण प्रथीयसा ।
शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः ॥ ३.२९.९३ ॥

तत्सामुद्रं च भगवान्सकलं सलिलं पपौ ।
हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः ॥ ३.२९.९४ ॥

तस्मात्सहस्रशो जाता हिरण्याक्षा गदायुधाः ।
तैर्हन्यमाने शक्तीनां सैन्ये सन्त्रा सविह्वले ।
इतस्ततः प्रचलिते शिथिले रणकर्मणि ॥ ३.२९.९५ ॥

अथ श्रीललितादक्षहस्तमध्याङ्गुलीनखात् ।
महावराहः समभूच्छ्वेतः कैलाससन्निभः ॥ ३.२९.९६ ॥

तेन वज्रसमानेन पोत्रिणाभिविदारिताः ।
कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः ॥ ३.२९.९७ ॥

अथभण्डस्त्वतिक्रोधाद्भुकुटीं विततान ह ।
तस्य भ्रुकुटितो जाता हिरण्याः कोटिसङ्ख्यकाः ॥ ३.२९.९८ ॥

ज्वलदादित्यवद्दीप्ता दीपप्रहरणाश्व ते ।
अमर्दयच्चक्तिसैन्यं प्रह्लादं चाप्यमर्दयन् ॥ ३.२९.९९ ॥

यः प्रह्लादोऽस्ति शक्तीनां परमानन्दलक्षणः ।
स एव बालकोभूत्वा हिरण्यपरिपीडितः ॥ ३.२९.१०० ॥

ललितां शरणं प्राप्तस्तेन राज्ञी कृपामगात् ।
अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम् ॥ ३.२९.१०१ ॥

दक्षहस्तानामिकाग्रं धुनोति स्म महेश्वरी ।
तस्माद्धूतसटाजालः प्रज्वलल्लोचनत्रयः ॥ ३.२९.१०२ ॥

सिंहास्यः पुरुषा कारः कण्ठस्याधो जनार्दनः ।
नखायुधः कालरुद्ररूपी घोराट्टहासवान् ॥ ३.२९.१०३ ॥

सहस्रसङ्ख्यदोर्दण्डो ललिताज्ञानुपालकः ।
हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसम्भवान् ॥ ३.२९.१०४ ॥

क्षणाद्विदारयामास नखैः कुलिशकर्कशैः ।
बलीन्द्रास्त्रं महाघोरं सर्वदैवतनाशनम् ।
अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम् ॥ ३.२९.१०५ ॥

तदस्त्रदर्पनाशाय वामनाः शतशोऽभवन् ।
महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः ॥ ३.२९.१०६ ॥

क्षणेक्षणे वर्धमानाः पाशहस्ता महाबलाः ।
बलीन्द्रानस्त्रसम्भूतान्बध्नन्तः पाशबन्धनैः ॥ ३.२९.१०७ ॥

दक्षहस्तकनिष्ठाग्राज्जाताः कामेशयोषितः ।
महाकाया महोत्साहास्तदस्त्रं समनाशयन् ॥ ३.२९.१०८ ॥

हैहयास्त्रं समसृजद्भण्डदैत्यो रणाजिरे ।
तस्मात्सहस्रशोजाताः सहस्रार्जुनकोटयः ॥ ३.२९.१०९ ॥

अथ श्रीललितावामहस्ताङ्गुष्टनखादितः ।
प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान् ॥ ३.२९.११० ॥

धारया दारयन्नेतान्कुठारस्य कठोरया ।
सहस्रार्जुनसङ्ख्यातान्क्षणादेव व्यनाशयन् ॥ ३.२९.१११ ॥

अथ क्रुद्धो भण्डदैत्यः क्रोधाद्धुङ्कारमातनोत् ।
तस्माद्धुङ्कारतो जातश्चन्द्रहासकृपाणवान् ॥ ३.२९.११२ ॥

सहस्राक्षौहिणीरक्षःसेनया परिवारितः ।
कनिष्ठं कुम्भकर्णं च मेघनादं च नन्दनम् ।
गृहीत्वा शक्तिसैन्यं तदतिदूरममर्दयत् ॥ ३.२९.११३ ॥

अथ श्रीललितावामहस्ततर्जनिकानखात् ।
कोदण्डरामः समभूल्लक्ष्मणेन समन्वितः ॥ ३.२९.११४ ॥

जटामुकुटवान्वल्लीबन्ध्धतूणीरपृष्टभूः ।
नीलोत्पलदलश्यामो धनुर्विस्फारयन्मुहुः ॥ ३.२९.११५ ॥

नाशयामास दिव्यास्त्रैः क्षणाद्राक्षससैनिकम् ।
मर्दयामास पौलस्त्यं कुम्भकर्णं च सोदरम् ।
लक्ष्मणो मेघनादं च महावीरमनाशयत् ॥ ३.२९.११६ ॥

द्विविदास्त्रं महाभीममसृजद्भण्डदानवः ।
तस्मादनेकशो जाताः कपयः पिङ्गलोचनाः ॥ ३.२९.११७ ॥

क्रोधेनात्यन्तता म्रास्याः प्रत्येकं हनुमत्समाः ।
व्यनाशयच्छक्तिसैन्यं क्रूरक्रेङ्कारकारिणः ॥ ३.२९.११८ ॥

अथ श्रीललितावामहस्तमध्याङ्गुलीनखात् ।
आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः ॥ ३.२९.११९ ॥

नीलाम्बरपिनद्धाङ्गः कैलासाचलनिर्मलः ।
द्विविदास्त्रसमुद्भूतान्कपीन्सर्न्वान्व्यनाशयन् ॥ ३.२९.१२० ॥

राजासुरं नाम महत्ससर्जास्त्रं महाबलः ।
तस्मादस्त्रात्समुद्भूता बहवो नृपदानवाः ॥ ३.२९.१२१ ॥

शिशुपालो दन्तवक्त्रः शाल्वः काशीपतिस्तथा ।
पैण्ड्रको वासुदेवश्च रुक्मी डिम्भकहंसकौ ॥ ३.२९.१२२ ॥

शम्बरश्च प्रलम्बश्च तथा बाणासुरोऽपि च ।
कंसश्चाणूरमल्लश्च मुष्टिकोत्पलशेखरौ ॥ ३.२९.१२३ ॥

अरिष्टो धेनुकः केशी कालियो यमलार्जुनौ ।
पूतना शकटश्चैव तृणावर्तादयोऽसुराः ॥ ३.२९.१२४ ॥

नरकाख्यो महावीरो विष्णुरूपी मुरासुरः ।
अनेके सह सेनाभिरुत्थिताः शस्त्रपाणयः ॥ ३.२९.१२५ ॥

तान्विनाशयितुंसर्वान्वासुदेवः सनातनः ।
श्रीदेवीवामहस्ताब्जानामिकानखसम्भवः ॥ ३.२९.१२६ ॥

चतुर्व्यूहं समातेने चत्वारस्ते ततोऽभवन् ।
वासुदेवो द्वितीयस्तु सङ्कर्षण इति स्मृतः ॥ ३.२९.१२७ ॥

प्रद्युम्नश्चानिरुद्धश्च ते सर्वे प्रीद्यतायुधाः ।
तानशेषान्दुराचारान्भूमभोरप्रवर्तकान् ॥ ३.२९.१२८ ॥

नाशयामासुरुर्वीशवेषच्छन्नान्महासुरान् ॥ ३.२९.१२९ ॥

विश्वास-प्रस्तुतिः

अथ तेषु विनष्टेषु सङ्क्रुद्धो भण्ड्रदानवः ।
धर्मविप्लावकं घोरं कल्यस्त्रं सममुञ्चत ॥ ३.२९.१३० ॥

ततः कल्यस्त्रतोजाता आन्ध्राः पुण्डाश्च भूमिपाः ।
किराताः शबरा हूणा यवनाः पापवृत्तयः ॥ ३.२९.१३१ ॥

वेद विप्लावका धर्मद्रोहिणः प्राणहिंसकाः ।
वर्णाश्रमेषु साङ्कर्यकारिणो मलिनाङ्गकाः ।
ललिताशक्तिसैन्यानि भूयोभूयो व्यमर्दयन् ॥ ३.२९.१३२ ॥

अथ श्रीललितावामहस्तपद्मस्य भास्वतः ।
कनिष्ठिकानखोद्भूतः कल्किर्नाम जनार्दनः ॥ ३.२९.१३३ ॥

अश्वारूढः प्रतीप्त श्रीरट्टहासं चकार सः ।
तस्यैव ध्वनिना सर्वे वज्रनिष्पेषबन्धुना ॥ ३.२९.१३४ ॥

किराता मूर्च्छिता नेशुः शक्तयश्चापि हर्षिताः ।
दशावतारनाथास्ते कृत्वेदं कर्म दुष्करम् ॥ ३.२९.१३५ ॥

ललितां तां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः ।
प्रतिकल्पं धर्मरक्षां कर्तुं मत्स्या दिजन्मभिः ।
ललिताम्बानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे ॥ ३.२९.१३६ ॥

इत्थं समस्तेष्वस्त्रंषु नाशितेषु दुराशयः ।
महामोहास्त्रमसृजच्छक्तयस्तेन मूर्छिताः ॥ ३.२९.१३७ ॥

शाम्भवास्त्रं विसृज्याम्बा महामोहास्त्रमक्षिणोत् ।
अस्त्रप्रत्यस्त्रधाराभिरित्थं जाते महाहवे ।
अस्तशैलङ्गभस्तीशो गन्तुमारभतारुणः ॥ ३.२९.१३८ ॥

अथ नारायणास्त्रेण सा देवी ललिताम्बिका ।
सर्वा अक्षौहिणीस्तस्य भस्मसादकरोद्रणे ॥ ३.२९.१३९ ॥

अथ पाशुपतास्त्रेण दीप्तकालानलत्विषा ।
चत्वारिंशच्चमूनाथान्महाराज्ञी व्यमर्दयत् ॥ ३.२९.१४० ॥

अथैकशेषं तं दुष्टं निहताशेषबान्धवम् ।
क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम् ॥ ३.२९.१४१ ॥

महासुरं महासत्त्वं भण्डं चण्डपराक्रमम् ।
महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा ।
गतासुमकरोन्माता ललिता परमेश्वरी ॥ ३.२९.१४२ ॥

तदस्त्रज्वालयाक्रान्तं शून्यकं तस्य पट्टनम् ।
सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम् ॥ ३.२९.१४३ ॥

निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत ।
भण्डस्य सङ्क्षयेणासीत्त्रैलोक्यं हर्षनर्तितम् ॥ ३.२९.१४४ ॥

इत्थं विधाय सुरकार्यमनिन्द्यशीला श्रीचक्रराजरथमण्डलमण्डनश्रीः ।
कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रियाढ्या ॥ ३.२९.१४५ ॥

सैन्यं समस्तमपि सङ्गरकर्मखिन्नं भण्डासुरप्रबलबाणकृशानुतप्तम् ।
अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय ॥ ३.२९.१४६ ॥

यो भण्डदानववधं ललिताम्बयेमं कॢप्तं सकृत्पठति तस्य तपोधनेन्द्र ।
नाशं प्रयान्ति कदनानि दृताष्टसिद्धेर्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते ॥ ३.२९.१४७ ॥

इमं पवित्रं ललितापराक्रमं समस्तपापघ्नमशेषसिद्धिदम् ।
पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम् ॥ ३.२९.१४८ ॥

इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरवधो नामैकोनत्रिंशोऽध्यायः