विश्वास-प्रस्तुतिः
रणेभग्नं महादैत्यं भण्डदैत्यः सहोदरम् ।
सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया ॥ ३.२८.१ ॥
मूलम्

उभावपि समेतौ तौ युक्तौ सर्वैश्चसैनिकैः ।
प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ ॥ ३.२८.२ ॥

तावुभौ परमक्रुद्धौ भण्डदैत्येन देशितौ ।
विषङ्गश्च विशुक्रश्च महोद्यम मवापनुः ॥ ३.२८.३ ॥

कनिष्ठसहितं तत्र युवराजं महाबलम् ।
विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी ॥ ३.२८.४ ॥

अक्षौहिणीचतुःशत्या सेनानामावृतश्च सः ।
युवराजः प्रववृधे प्रतापेन महीयसा ॥ ३.२८.५ ॥

उलूकजित्प्रभृतयो भागिनेया दशोद्धताः ।
भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः ॥ ३.२८.६ ॥

कृतास्त्रशिक्षा भण्डेन मातुलेन महीयसा ।
विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे ॥ ३.२८.७ ॥

प्रोद्गतैश्चापनिर्घोषैर्घोषयन्तो दिशो दश ।
द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे ॥ ३.२८.८ ॥

आरूढयानाः प्रत्येकगाढाहङ्कारशालिनः ।
आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः ॥ ३.२८.९ ॥

यौवराज्यप्रभाचिह्नच्छत्रचामरशोभितः ।
आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम् ॥ ३.२८.१० ॥

ततः कलकलारावकारिण्या सेनया वृतः ।
विशुक्रः पटु दध्वान सिंहनादं भयङ्करम् ॥ ३.२८.११ ॥

तत्क्षोभात्क्षुभितस्वान्ताः शक्तयः सम्भ्रमोद्धताः ।
अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः ॥ ३.२८.१२ ॥

तडिन्मयमिवाकाशं कुर्वन्त्यः स्वस्वरोचिषा ।
रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः ॥ ३.२८.१३ ॥

अथ भण्डकनीयांसावागतौ युद्धदुर्मदौ ।
निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके ॥ ३.२८.१४ ॥

किरिचकं ज्ञेयचक्रमारूढे रथशेखरम् ।
धृतातपत्रवलये चामराभ्यां च वीजिते ॥ ३.२८.१५ ॥

अप्सरोभिः प्रनृत्ताभिर्गीयमानमहोदये ।
निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया ॥ ३.२८.१६ ॥

श्रीचक्ररथराजस्य रक्षणार्थं निवेशिते ।
शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम् ॥ ३.२८.१७ ॥

अन्यत्सर्वं चमुजालं निर्जगाम रणोन्मुखी ।
पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी ॥ ३.२८.१८ ॥

एकयैव कराङ्गुल्या घूर्णयन्ती हलायुधम् ।
मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः ॥ ३.२८.१९ ॥

तरलेन्दुकलाचूडास्फुरत्पोत्रमुखाम्बुजा ।
पुरः प्रहर्त्री समरे सर्वदा विक्रमोद्धता ।
अस्या अनुप्रचलिता गेयचक्ररथस्थिता ॥ ३.२८.२० ॥

धनुषो ध्वनिना विश्वं पूरयन्ती महोद्धता ।
वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा ॥ ३.२८.२१ ॥

स्फुरत्त्रितयनेत्रेण सिन्दूरतिलकत्विषा ।
पाणिना पद्मरम्येण मणिकङ्कणचारुणा ॥ ३.२८.२२ ॥

तूणीरमुखतः कृष्टं भ्रामयन्ती शिलीमुखम् ।
जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले ॥ ३.२८.२३ ॥

नृत्यद्भिर्दिव्यमुनिभिर्वर्द्धिताशीर्वचोऽमृतैः ।
गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः ॥ ३.२८.२४ ॥

दारयन्ती क्षितितलं दैत्यानां हृदयैः सह ।
लोकातिशायिता विश्वमनोमोहनकारिणा ।
गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा ॥ ३.२८.२५ ॥

अक्षौहिणीसहस्राणामष्टकं समरोद्धतम् ।
कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसन्निभम् ॥ ३.२८.२६ ॥

तस्याः शक्तिचमूचक्रे काश्चित्कनकरोचिषः ।
काश्चिद्दाडिमसङ्काशाः काश्चिज्जीमूतरोचिषः ॥ ३.२८.२७ ॥

अन्याः सिन्दूररुचयः पराः पाटलपाटलाः ।
काचाद्रिकाम्बराः काश्चित्पराः श्यामलकोमलाः ॥ ३.२८.२८ ॥

अन्यास्तु हीरकप्रख्याः परा गारुत्मतोपमाः ।
विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः ॥ ३.२८.२९ ॥

व्यञ्जयन्त्यो देहरुचं कतिचिद्विविधायुधाः ।
असङ्ख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा ॥ ३.२८.३० ॥

तथैव सैन्यसन्नाहो मन्त्रिण्याः कुम्भसम्भव ।
यथा भूषणवेषादि यथा प्रभावलक्षणम् ॥ ३.२८.३१ ॥

यथा सद्गुणशालित्वं यथा चाश्रितलक्षणम् ।
यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता ॥ ३.२८.३२ ॥

यथा शक्तिर्महाराज्ञ्या देडिन्यश्च तथाखिलम् ।
विशेषस्तु परं तस्याः साचिव्ये तत्करे स्थितम् ।
महाराज्ञीवितीर्णं तदाज्ञामुद्राङ्गुलीयकम् ॥ ३.२८.३३ ॥

इत्थं प्रचलिते सैन्ये मन्त्रिणीदण्डनाथयोः ।
तद्भारभङ्गुरा भूमिर्देलालीलामलम्बत ॥ ३.२८.३४ ॥

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
उद्धूतधूलिजम्बालीभूतसप्तार्णवीजलम् ॥ ३.२८.३५ ॥

हयस्थैर्हयसादिन्यो रथस्थै रथसंस्थिताः ।
आधोरणैर्हस्तिपकाः खड्गैः पद्गाश्च सङ्गताः ॥ ३.२८.३६ ॥

दण्डनाथाविषङ्गेण समयुध्यन्त सङ्गरे ।
विशुक्रेण समं श्यामा विकृष्टमणिकार्मुका ॥ ३.२८.३७ ॥

अश्वरूढा चकारोच्चैः सहोलूकजिता रणम् ।
सम्पदीशाच जग्राह पुरुषेण युयुत्सया ॥ ३.२८.३८ ॥

विषेण नकुली देवी समाह्वास्त युयुत्सया ।
कुन्तिषेणेन समरं महामाया तदाकरोत् ॥ ३.२८.३९ ॥

मलदेन समं चक्रे युद्धमुन्मत्तभैरवी ।
लघुश्यामा चकारोच्चैः कुशूरेण समं रणम् ॥ ३.२८.४० ॥

स्वप्नेशी मङ्गलाख्येन दैत्येन्द्रेण रणंव्यधात् ।
वाग्वादिनी तु जघटे द्रुघणेन समं रणे ॥ ३.२८.४१ ॥

कोलाटेन च दुष्टेन चण्डकाल्यकरोद्रणम् ।
अक्षौहिणीभिर्दैत्यानां शताक्षौहिणिकास्तथा ।
महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः ॥ ३.२८.४२ ॥

प्रवर्तमाने समरे विशुक्रो दुष्टदानवः ।
वर्धमानां शक्तिचमूं हीयमानां निजां चमूम् ॥ ३.२८.४३ ॥

अवलोक्य रुषाविष्टः स कृष्टगुरुकार्मुकः ।
शक्तिसैन्ये समस्तेऽपि तृषास्त्रं प्रमुमोच ह ॥ ३.२८.४४ ॥

तेन दावानलज्वालादीप्तेन मथितं बलम् ।
तृतीये युद्धदिवसे याममात्रं गते रवौ ।
विशुक्रमुक्ततर्षास्त्रव्याकुलाः शक्तयोऽवन् ॥ ३.२८.४५ ॥

क्षोभयन्निन्द्रियग्रामं तालुमूलं विशोषयन् ।
रूक्षयन्कर्णकुहरमङ्गदौर्वल्यमाहवन् ॥ ३.२८.४६ ॥

पातयन्पृथिवीपृष्ठे देहं विस्रंसितायुधम् ।
आविर्बभूव शक्तीनामतितीव्रस्तृषाज्वरः ॥ ३.२८.४७ ॥

युद्धेष्वनुद्यमकृता सर्वोत्साहविरोधिना ।
तर्षेण तेन क्वथितं शक्तिसैन्यं विलोक्यसा ।
मन्त्रिणी सह पोत्रिण्या भृशं चिन्तामवाप ह ॥ ३.२८.४८ ॥

उवाच तां दण्डनाथामत्याहितविशङ्किनीम् ।
रथस्थिता रथगता तत्प्रती कारकर्मणे ।
सखि पोत्रिणि दुष्टस्य तर्षास्त्रमिदमागतम् ॥ ३.२८.४९ ॥

शिथिलीकुरुते सैन्यमस्माकं हा विधेः क्रमः ।
विशुष्कतालुमूलानां विभ्रष्टायुधतेजसाम् ।
शक्तीनां मण्डलेनात्र समरे समुपेक्षितम् ॥ ३.२८.५० ॥

न कापि कुरुते युद्धं न धारयति चायुधम् ।
विशुष्कतालुमूलत्वा द्वक्तुमप्यालि न क्षमाः ॥ ३.२८.५१ ॥

ईदृशीन्नो गतिं श्रुत्वा किं वक्ष्यति महेश्वरी ।
कृता चापकृतिर्दैत्यैरुपायः प्रविचिन्त्यताम् ॥ ३.२८.५२ ॥

सर्वत्र द्व्यष्टसाहस्राक्षौहिण्यमत्र पोत्रिणि ।
एकापि शक्तिर्नैवास्ति या तर्षेण न पीडिता ॥ ३.२८.५३ ॥

अत्रैवावसरे दृष्ट्वा मुक्तशस्त्रां पताकिनीम् ।
रन्ध्रप्रहारिणो हन्त बाणैर्निघ्नन्ति दानवाः ॥ ३.२८.५४ ॥

अत्रोपायस्त्वया कार्यो मया च समरोद्यमे ।
त्वदीयरथपर्वस्थो योऽस्ति शीतमहार्णवः ॥ ३.२८.५५ ॥

तमादिश समस्तानां शक्तीनां तर्षनुत्तये ।
नाल्पैः पानीयपानाद्यैरेतासां तर्षसङ्क्षयः ॥ ३.२८.५६ ॥

स एव मदिरासिन्धुः शक्त्यौघं तर्पयिष्यति ।
तमादिश महात्मानं समरोत्साहकारिणम् ।
सर्वतर्षप्रशमनं महाबलविवर्धनम् ॥ ३.२८.५७ ॥

इत्युक्ते दण्डनाथा सा सदुपायेन हर्षिता ।
आजुहाव सुधासिन्धुमाज्ञां चक्रेश्वरी रणे ॥ ३.२८.५८ ॥

स मदालसरक्ताक्षो हेमाभः स्रग्विभूषितः ॥ ३.२८.५९ ॥
प्रणम्य दण्डनाथां तां तदाज्ञापरिपारकः ॥ ३.२८.६० ॥
विश्वास-प्रस्तुतिः
आत्मानं बहुधा कृत्वा तरुणादित्यपाटलम् ।
क्वचित्तापिच्छवच्छ्यामं क्वचिच्च धवलद्युतिम् ॥ ३.२८.६१ ॥

कोटिशो मधुराधारा करिहस्तसमाकृतीः ।
ववर्ष सिन्धुराजोऽयं वायुना बहुलीकृतः ॥ ३.२८.६२ ॥

पुष्कलावर्तकाद्यैस्तु कलपक्षयबलाहकैः ।
निषिच्यमानो मध्येऽब्धिः शक्तिसैन्ये पपात ह ॥ ३.२८.६३ ॥

यद्गन्धाघ्राममात्रेण मृत उत्तिष्ठते स्फुटम् ।
दुर्बलः प्रबलश्च स्यात्तद्ववर्ष सुराम्बुधिः ॥ ३.२८.६४ ॥

परार्द्धसङ्ख्यातीतास्ता मधुधारापरम्पराः ।
प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः ॥ ३.२८.६५ ॥

यथा सा मदिरासिन्धुवृष्टिर्दैत्येषु नो पतेत् ।
तथा सैन्यस्य परितो महाप्राकारमण्डलम् ॥ ३.२८.६६ ॥

लघुहस्ततया मुक्तैः शरजातैः सहस्रशः ।
चकार विस्मयकरी कदम्बवनवासिनी ॥ ३.२८.६७ ॥

कर्मणा तेन सर्वेऽपि विस्मिता मरुतोऽभवन् ।
अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे ॥ ३.२८.६८ ॥

विविधा मदिराधारा बलोत्साहविवर्धनीः ।
यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा ॥ ३.२८.६९ ॥

तृतीये युद्धदिवसे प्रहरद्वितयावधि ।
सन्ततं मध्यधाराभिः प्रववर्ष सुराम्बुधिः ॥ ३.२८.७० ॥

गौडी पैष्टी च माध्वी च वरा कादम्बरी तथा ।
हैताली लाङ्गलेया च तालजातास्तथा सुराः ॥ ३.२८.७१ ॥

कल्पवृक्षोद्भवा दिव्या नानादेशसमुद्भवाः ।
सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः ॥ ३.२८.७२ ॥

बकुलप्रसवामोदा ध्वनन्त्यो बुद्बुदोज्ज्वलाः ।
कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः ॥ ३.२८.७३ ॥

बहुवर्मसमाविष्टाश्छेदिनीः पिच्छलास्तथा ।
ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः ॥ ३.२८.७४ ॥

शस्त्रक्षतरुगाहन्त्री चास्थिसन्धानदायिनी ।
रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः ॥ ३.२८.७५ ॥

सन्तापहारिणीश्चैव वारुणीस्ता जयप्रदाः ।
नानाविधाः सुराधारा ववर्ष मदिरार्णवः ॥ ३.२८.७६ ॥

अविच्छिन्नं याममात्रमेकैका तत्र योगिनी ।
ऐरावतकर प्रख्यां सुराधारां मुदा पपौ ॥ ३.२८.७७ ॥

उत्तानं वदनं कृत्वा विलोलरसनाश्चलम् ।
शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः ॥ ३.२८.७८ ॥

इत्थं बहुविधं माध्वीधारापातैः सुधाम्बुधिः ।
आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः ॥ ३.२८.७९ ॥

पुनर्गत्वा दण्डनाथां प्रणम्य स सुराम्बुधिः ।
स्निग्धगम्भीरघोषेण वाक्यं चेदमुवाच ताम् ॥ ३.२८.८० ॥

देवि पश्य महाराज्ञि दण्डमण्डलनायिके ।
मया सन्तर्पिता मुग्धरूपा शक्तिवरूथिनी ॥ ३.२८.८१ ॥

काश्चिन्नृत्यन्ति गायन्त्यो कलक्वणितमेखलाः ।
नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते ॥ ३.२८.८२ ॥

काश्चिद्धसन्ति व्यावल्गद्वल्गुवक्षोजमण्डलाः ।
पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः ॥ ३.२८.८३ ॥

काश्चिद्वल्गन्ति च श्रोणिविगलन्मेखलाम्बराः ।
काश्चिदुत्थाय सन्नद्धा घूर्णयन्ति निरायुधाः ॥ ३.२८.८४ ॥

इत्थं निर्दिश्यमानास्ताः शक्ती मैरेय सिन्धुनां ।
अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह ॥ ३.२८.८५ ॥

परितुष्टास्मि मद्याब्धे त्वया साह्यमनुष्ठितम् ।
देवकार्यमिद किञ्च निर्विघ्नितमिदं कृतम् ॥ ३.२८.८६ ॥

अतः परं मत्प्रसादाद्द्वापरे याज्ञिकैर्मखे ।
सोमपानवदत्यन्तमुपयोज्यो भविष्यसि ॥ ३.२८.८७ ॥

मन्त्रेण पूतं त्वां यागे पास्यन्त्यखिलदेवताः ।
यागेषु मन्त्रपूतेन पीतेन भवता जनाः ॥ ३.२८.८८ ॥

सिद्धिमृद्धिं बलं स्वर्गमपवर्गं च बिभ्रतु ।
महेश्वरी महादेवो बलदेवश्च भार्गवः ।
दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः ॥ ३.२८.८९ ॥

यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि ॥ ३.२८.९० ॥
इत्थं वरप्रदानेन तोषयित्वा सुराम्बुधिम् ॥ ३.२८.९१ ॥
विश्वास-प्रस्तुतिः
मन्त्रिणीं त्वरयामास पुनर्युद्धाय दण्डिनी ।
पुनः प्रववृते युद्धं शक्तीनां दानवैः सह ॥ ३.२८.९२ ॥

मुदाट्टहासनिर्भिन्नदिगष्टकधरा धरम् ।
प्रत्यग्रमदिरामत्ताः पाटलीकृतलोचनाः ।
शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया ॥ ३.२८.९३ ॥

द्वयेन द्वयमारेजे शक्तीनां समदश्रियाम् ।
मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका ॥ ३.२८.९४ ॥

तथा बभूव तुमुलं युद्धं शक्तिसुरद्विषाम् ।
यथा मृत्युरवित्रस्तः प्रजाः संहरते स्वयम् ॥ ३.२८.९५ ॥

संस्खलत्पदविन्यासा मदेनारक्तदृष्टयः ।
स्खलदक्षरसन्दर्भवीरभाषा रणोद्धताः ॥ ३.२८.९६ ॥

कदम्बगोलकाकारा दृष्टसर्वाङ्गदृष्टयः ।
युवराजस्य सैन्यानि शक्त्यः समानाशयन् ॥ ३.२८.९७ ॥

अक्षौहिणीशतं तत्र दण्डिनी सा व्यदारयत् ।
अक्षौहिणीसार्द्धशत नाशयामास मन्त्रिणी ॥ ३.२८.९८ ॥

अश्वारूढाप्रभृतयो मदारुणविलोचनाः ।
अक्षौहिणीसार्धशतं नित्युरन्तकमन्दिरम् ॥ ३.२८.९९ ॥

अङ्कुशेनातितीक्ष्णेन तुरगा रोहिणी रणे ।
उलूकजितमुन्मथ्य परलोकातिथिं व्यधात् ॥ ३.२८.१०० ॥

सम्पत्करीप्रभृतयः शक्तिदण्डाधिनायिकाः ।
परुषेण मुखान्यन्यान्यवरुद्धाव्यदारयन् ॥ ३.२८.१०१ ॥

अस्तं गते सवितरि ध्वस्तसर्वबलं ततः ।
विशुक्रं योधयामास श्यामला कोपशालिनी ॥ ३.२८.१०२ ॥

अस्त्रप्रत्य स्त्रमोक्षेण भीषणेन दिवौकसाम् ।
महता रणकृत्येन योधयामास मन्त्रिणी ॥ ३.२८.१०३ ॥

आयुधानि सुतीक्ष्णानि विशुक्रस्य महौजसः ।
क्रमशः खण्डयन्ती सा केतनं रथसारथिम् ॥ ३.२८.१०४ ॥

धनुर्गुणं धनुर्दण्डं खण्डयन्ती शिलीमुखैः ।
अस्त्रेण ब्रह्मशिरसा ज्वलत्पावकरोचिषा ॥ ३.२८.१०५ ॥

विशुक्रं मर्दयामास सोऽपतच्छूर्णविग्रहः ।
विषङ्गं च महादैत्यं दण्डनाथा मदोद्धता ॥ ३.२८.१०६ ॥

योधयामास चण्डन मुसलेन विनिघ्नती ।
सचापि दुष्टो दनुजः कालदण्डनिभां गदाम् ।
उद्यम्य बाहुना युद्धं चकाराशेषभीषणम् ॥ ३.२८.१०७ ॥

अन्योन्यमङ्गं मृद्नन्तौ गदायुद्धप्रवर्तिनौ ।
चण्डाट्टहासमुखरौ परिभ्रमणकारिणौ ॥ ३.२८.१०८ ॥

कुर्वाणौ विविधांश्चारान्घूर्णन्तौ तूर्मवेष्टिनौ ।
अन्योन्यदण्डहननैर्मोहयन्तौ मुहुर्मुहुः ॥ ३.२८.१०९ ॥

अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ ।
महामुसलदण्डाग्रघट्टनक्षोभिताम्बरौ ।
अयुध्येतां दुराधर्षौं दण्डिनीदैत्यशेखरौ ॥ ३.२८.११० ॥

अथार्द्धरात्रिसमयपर्यन्तं कृतसङ्गरा ।
सङ्क्रुद्धा हन्तुमारेभे विषङ्गं दण्डनायिका ॥ ३.२८.१११ ॥

तं मूर्धनि निमग्नेन हलेनाकृष्य वैरिणम् ।
कठोरं ताडनं चक्रे मुसलेनाथ पोत्रिणी ॥ ३.२८.११२ ॥

ततो मुसलघातेन त्यक्तप्राणो महासुरः ।
चूर्णितेन शताङ्गेन समं भूतलमाश्रयत् ॥ ३.२८.११३ ॥

इति कृत्वा महत्कर्म मन्त्रिणीदण्डनायिके ।
तत्रैव तं निशा शेषं निन्यतुः शिबिरं प्रति ॥ ३.२८.११४ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने विशुक्रविषङ्गवधो नामाष्टाविंशोऽध्यायः