विश्वास-प्रस्तुतिः
प्रथमयुद्धदिवसः ।
दशाक्षौहिणिकायुक्तः कुटिलाक्षोऽपि वीर्यवान् ।
दण्डनाथाशरैस्तीक्ष्णै रणे भग्नः पलायितः ।
दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम् ॥ ३.२६.१ ॥
मूलम्

इमं वृत्तान्तमाकर्ण्य भण्डः क्षोभमथाययौ ।
रात्रौ कपटसङ्ग्रामं दुष्टानां निर्जरद्रुहाम् ।
मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः ॥ ३.२६.२ ॥

अहो बत महत्कष्टं दैत्यैर्देव्याः समागतम् ।
उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः ॥ ३.२६.३ ॥

महाचक्ररथेन्द्रस्य न जातं रक्षणं बलैः ।
एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम् ॥ ३.२६.४ ॥

को वृत्तान्तोऽभवत्तत्र स्वामिन्या किं रणः कृतः ।
अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः ॥ ३.२६.५ ॥

विम्रष्टव्यमिदं कार्यं प्रवृत्तिस्तत्र कीदृशी ।
महादेव्याश्च हृदये कः प्रसङ्गः प्रवर्तते ॥ ३.२६.६ ॥

इति शङ्काकुलास्तत्र दण्डनाथापुरोगमाः ।
मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति ॥ ३.२६.७ ॥

शक्तिचक्रचमूनाथाः सर्वास्ताः पूजिता द्रुतम् ।
व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन् ॥ ३.२६.८ ॥

अवरुह्य स्वयानाभ्यां मन्त्रिणीदण्डनायिके ।
अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम् ॥ ३.२६.९ ॥

क्रमेण नव पर्वाणि व्यतीत्य त्वरितक्रमैः ।
तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ्निवेदितैः ॥ ३.२६.१० ॥

अभजेतां महाराज्ञीं मन्त्रिणीदण्डनायिके ।
ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले ॥ ३.२६.११ ॥

महाप्रमादः समभूदिति नः श्रुतमम्बिके ।
कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः ॥ ३.२६.१२ ॥

स दुरात्मा दुराचारः प्रकाशसमारात्त्रसन् ।
कुहकव्यवहारेण जयसिद्धिं तु काक्षति ॥ ३.२६.१३ ॥

दैवान्नः स्वामिनीगात्रे दुष्टानाममरद्रुहाम् ।
शरादिकपरामर्शो न जातस्तेन जीवति ॥ ३.२६.१४ ॥

एकावलम्बनं कृत्वा महाराज्ञि भवत्पदम् ।
वयं सर्वा हि जीवामः साधयामः समीहितम् ॥ ३.२६.१५ ॥

अतोऽस्माभिः प्रकर्तव्यं श्रीमत्यङ्गस्य रक्षणम् ।
मायाविनश्च दैत्येन्द्रास्तत्र मन्त्रो विधीयताम् ॥ ३.२६.१६ ॥

आपत्कालेषु जेतव्या भण्डाद्या दानवाधमाः ।
कूटयुद्धं न कुर्वन्ति न विशन्ति चमूमिमाम् ॥ ३.२६.१७ ॥

तथा महेन्द्रशैलस्य कार्यं दक्षिणदेशतः ।
शिबिरं बहुविस्तारं योजनानां शतावधि ॥ ३.२६.१८ ॥

वह्लिप्राकारवलयं रक्षणार्थं विधीयताम् ।
अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च ॥ ३.२६.१९ ॥

शतयोजनमात्रस्तु मध्यतेशः प्रकल्प्यताम् ।
वह्निप्राकाराचक्रस्य द्वारन्दक्षिणतो भवेत् ॥ ३.२६.२० ॥

यतो दक्षिणदेशस्थं शून्यकं विद्विषां पुरम् ।
द्वारे च बहवः कल्प्याः परिवारा उदायुधाः ॥ ३.२६.२१ ॥

निर्गच्छतां प्रविशतां जनानामुपरोधकाः ।
अनालस्या अनिद्राश्च विधेयाः सततोद्यताः ॥ ३.२६.२२ ॥

एवं च सति दुष्टानां कूटयुद्धं चिकीर्षितम् ।
अवेलासु च सन्ध्यासु मध्यरात्रिषु च द्विषाम् ।
अशक्यमेव भवति प्रौढमाक्रमणं हठात् ॥ ३.२६.२३ ॥

नो चेद्दुराशया दैत्या बहुमायापरिग्रहाः ।
पश्यतोहरवत्सर्वं विलुठन्ति महद्बलम् ॥ ३.२६.२४ ॥

मन्त्रिण्या दण्डनाथाया इति श्रुत्वा वचस्तदा ।
शुचिदन्तरुचा मुक्ता वहन्ती ललिताब्रवीत् ॥ ३.२६.२५ ॥

भवतीनामयं मन्त्रश्चारुबुद्ध्या विचारितः ।
अयं कुशलधीमार्गोनीतिरेषा सनातनी ॥ ३.२६.२६ ॥

स्वचक्रस्य पुरो रक्षां विधाय दृढसाधनैः ।
परचक्राक्रमः कार्यो जिगीषद्भिर्महाजनैः ॥ ३.२६.२७ ॥

इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी ।
ज्वालामालिनिकां नित्यामाहूयेदमुवाच ह ॥ ३.२६.२८ ॥

वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः ।
त्वया विधीयतां रक्षा बलस्यास्य महीयसः ॥ ३.२६.२९ ॥

शतयोजनविस्तारं परिवृत्य महीतलम् ।
त्रिंशद्योजनमुन्नद्धं ज्वालाकारत्वमाव्रज ॥ ३.२६.३० ॥

द्वारयोजनमात्रं तु मुक्त्वान्यत्र ज्वलत्तनुः ।
वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् ॥ ३.२६.३१ ॥
मूलम्
द्वारयोजनमात्रं तु मुक्त्वान्यत्र ज्वलत्तनुः ।
वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् ॥ ३.२६.३१ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी ।
महेन्द्रोत्तरभूभागं चलितुं चक्र उद्यमम् ॥ ३.२६.३२ ॥

सा च नित्यानित्यमयी ज्वलज्ज्वा लामयाकृतिः ।
चतुर्दशीतिथिमयी तथेति प्रणनाम ताम् ॥ ३.२६.३३ ॥

तयैव पूर्वनिर्दिष्टं महेन्द्रोत्तरभूतलम् ।
कुण्डलीकृत्य जज्वालशालरूपेण सा पुनः ॥ ३.२६.३४ ॥

नभोवलयजम्बालज्वालामालामयाकृतिः ।
बभासे दण्डनाथाया मन्त्रिनाथचमूरपि ॥ ३.२६.३५ ॥

अन्या सामपि शक्तीनां महतीनां महद्बलम् ।
विशङ्कटोदरं सालं प्रविवेश गतक्लमा ॥ ३.२६.३६ ॥

राजचक्ररथेन्द्रं तु मध्ये संस्थाप्य दण्डिनी ।
वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम् ॥ ३.२६.३७ ॥

पश्चाद्भागे सम्पदेशीं पुरस्ताश्च हयासनाम् ।
एवं संवेश्य परितश्चक्रराजरथस्य च ॥ ३.२६.३८ ॥

द्वारे निवेशयामास विंशत्यक्षौहिणीयुताम् ।
ज्वलद्दण्डायुधोदग्रां स्तम्भिनीं नाम देवताम् ॥ ३.२६.३९ ॥

या देवी दण्डनाथाया विघ्नदेवीति विश्रुता ।
एवं सुरक्षितं कृत्वा शिबिरं योत्रिणी तथा ।
पूषण्युदितभूयिष्ठे पुनर्युद्धमुपाश्रयत् ॥ ३.२६.४० ॥

कृत्वा किलकिलारावं ततः शक्तिमहाचमूः ।
अग्निप्राकारकद्वारान्निर्जगां महारवा ॥ ३.२६.४१ ॥

इत्थं सुरक्षितं श्रुत्वा ललिताशिबिरोदरम् ।
भूयः सञ्ज्वरमापन्नः प्रचण्डो भण्डदानवः ॥ ३.२६.४२ ॥

मन्त्रयित्वा पुनस्तत्र कुटिलाक्षपुरोगमैः ।
विषङ्गेण विशुक्रेणासममात्मसुतैरपि ॥ ३.२६.४३ ॥

एकौघस्य प्रसारेण युद्धं कर्तुं महाबलः ।
चतुर्बाहुमुखान्पुत्रांश्चतुर्जलधिसन्निभान् ॥ ३.२६.४४ ॥

चतुरान्युद्धकृत्येषु समाहूय स दानवः ।
प्रेषयामास युद्धाय भण्डश्चण्डक्रुधा ज्वलन् ॥ ३.२६.४५ ॥

त्रिंशत्सङ्ख्याश्च तत्पुत्रा महाकाया महाबलाः ।
तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज ॥ ३.२६.४६ ॥

चतुर्बाहुश्चकोराक्षस्तृतीयस्तु चतुः शिराः ।
वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः ॥ ३.२६.४७ ॥

मखशत्रुर्मखस्कन्दीसिंहघोषः सिरालकः ।
लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः ॥ ३.२६.४८ ॥

स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ।
अतिमायो बृहन्माय उपमायश्च वीर्यवान् ॥ ३.२६.४९ ॥

इत्येते दुर्मदाः पुत्रा भण्डदैत्यस्य दुर्द्धियः ।
पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः ॥ ३.२६.५० ॥

आगत्य भण्डचरणावभ्यवन्दत भक्तितः ।
तानुद्वीक्ष्य प्रसन्नाभ्यां लोचनाभ्यां स दानवः ।
सगौरवमिदं वाक्यं बभाषे कुलघातकः ॥ ३.२६.५१ ॥

भो भो मदीयास्तनया भवतां कः समो भुवि ।
भवतामेव सत्येन जितं विश्वं मया पुरा ॥ ३.२६.५२ ॥

शक्रस्या ग्नेर्यमस्यापि निरृतेः पाशिनस्तथा ।
कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे ॥ ३.२६.५३ ॥

अस्त्राण्यपि च शस्त्राणि जानीथ निखिलान्यपि ।
जाग्रत्स्वेव ही युष्मासु कुलभ्रंशोऽयमागतः ॥ ३.२६.५४ ॥

मायाविनी दुललिता काचित्स्त्री युद्धदुर्मदा ।
बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः ॥ ३.२६.५५ ॥

तदेनां समरेऽवश्यमात्मवश्यां विधास्यथ ।
जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः ॥ ३.२६.५६ ॥

अप्रमेयप्रकोपान्धान्युष्मानेकां स्त्रियं प्रति ।
सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः ॥ ३.२६.५७ ॥

इममेकं सहध्वं च शौर्यकीतिविपर्ययम् ।
इत्युक्त्वा भण्डदैत्येन्द्रस्तान्प्रहैषीद्रणं प्रति ।
द्विशतं चाक्षौहिणीनां तत्सहायतयाहिनोत् ॥ ३.२६.५८ ॥

द्विशत्यक्षौहिणीसेना मुख्यस्य तिलकायिता ।
बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात् ॥ ३.२६.५९ ॥

निर्गमे भण्डपुत्राणां भूः प्रकम्पमलम्बत ।
उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत् ॥ ३.२६.६० ॥

तान्कुमारान्महासत्त्वांल्लाजवर्षैरवाकिरन् ।
विथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः ॥ ३.२६.६१ ॥

बन्दिनो मागधाश्चैव कुमाराणां स्तुतिं व्यधुः ।
मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः ॥ ३.२६.६२ ॥

भिद्यमानेव वसुधा कृष्यमाणमिवाबरम् ।
आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः ॥ ३.२६.६३ ॥

द्विशत्यक्षौहिणीसेनां गृहीत्वा भण्डसूनवः ।
क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात् ॥ ३.२६.६४ ॥

शक्तिसैन्यानि सर्वाणि भक्षयामः क्षणाद्रणे ।
तेषामायुधचक्राणि चूर्णयामः शितैशरैः ॥ ३.२६.६५ ॥

अग्निप्राकारवलयं शमयामश्च रंहसा ।
दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सर्वरम् ॥ ३.२६.६६ ॥

इत्यन्योन्यं प्रवल्गन्तो वीरभाषणघोषणैः ।
आसेदुरग्निप्राकारसमीपं भण्डसूनवः ॥ ३.२६.६७ ॥

यौवनेन मदेनान्धा भूयसा रुद्धदृष्टयः ।
भ्रुकुटीकुटिलाश्चक्रुः सिंहनादम्महात्तरम् ॥ ३.२६.६८ ॥

विदीर्णमिव तेनासीद्ब्रह्माण्ड चण्डिमस्पृशा ।
उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा ॥ ३.२६.६९ ॥

एतस्याननुभूतस्य महाशब्दस्य डम्बरः ।
क्षोभयामास शक्तीनां श्रवांसि च मनांसि च ॥ ३.२६.७० ॥

आगत्य ते कलकलं चक्रुःसार्धं स्वसैनिकैः ।
विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम् ॥ ३.२६.७१ ॥

चतुर्बाहुमखान्भूत्वा भण्डदैत्यकुमारकान् ।
आगतान्युद्धकृत्याय बाला कौतूहलं दधे ॥ ३.२६.७२ ॥

कुमारी ललितादेव्यास्तस्या निकटवासिनी ।
समस्तशक्तिचक्राणां पूज्य विक्रमशालिनी ॥ ३.२६.७३ ॥

ललितासदृशाकारा कुमारी कोपमादधे ।
या सदा नववर्षेव सर्वविद्यामहाखनिः ॥ ३.२६.७४ ॥

बालारुणतनुः श्रोणीशोणवर्णवपुर्लता ।
महाराज्ञी पादपीठे नित्यमाहितसन्निधिः ॥ ३.२६.७५ ॥

तस्या बहिश्चराः प्राणा या चतुर्थं विलोचनम् ।
तानागतान्भण्डसुतान्संहरिष्यामि सत्वरम् ॥ ३.२६.७६ ॥

इति निश्चित्य बालाम्बा महाराज्ञ्यै व्यजिज्ञपत् ।
मातर्भण्डमहादैत्यसूनवो योद्धुमागताः ॥ ३.२६.७७ ॥

तैः समं योद्धुमिच्छामि कुमारित्वात्सकौतुका ।
सफुरन्ताविव मे बाहू युद्धकण्डूययानया ॥ ३.२६.७८ ॥

क्रीडा ममैषा हन्तव्या न भवत्या निवारणैः ।
अहं हि वालिका नित्यं क्रीडनेष्वनुरागिणी ॥ ३.२६.७९ ॥

क्षणं रणक्रीडया च प्रीतिं यास्यामि चैतसा ।
इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम् ॥ ३.२६.८० ॥

वत्से त्वमतिमृद्वङ्गी नववर्षा नवक्रमा ।
नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका ॥ ३.२६.८१ ॥

त्वां विना क्षणमात्रं मे न निश्वासः प्रवर्तते ।
ममोच्छ्वसितमेवासि न त्वं याहि महाहवम् ॥ ३.२६.८२ ॥

दण्डिनी मन्त्रिणी चैव शक्तयोऽन्याश्च कोटिशः ।
सन्त्येव समरे कर्तुं वत्से त्वं किं प्रमाद्यसि ॥ ३.२६.८३ ॥

इति श्रीललितादेव्या निरुद्धापि कुमारिका ।
कौमारकौतुकाविष्टा पुनर्युद्धमयाचत ॥ ३.२६.८४ ॥

सुदृढं निश्चयं दृष्ट्वा तस्याः श्रीललिताम्बिका ।
अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः ॥ ३.२६.८५ ॥

स्वकीयकवचादेकमाच्छिद्य कवचं ददौ ।
स्वायुधेभ्यश्चायुधानि वितीर्यविससर्ज ताम् ॥ ३.२६.८६ ॥

कर्णीरथं महाराज्ञ्या चापदण्डात्समुद्धृतम् ।
हंसयुग्यशतैर्युक्तमारुरोह कुमारिका ॥ ३.२६.८७ ॥

तस्यां रणे प्रवृत्तायां सर्वपर्वस्थदेवताः ।
बद्धाञ्जलिपुटा नेमुः प्रधृतासिपरम्पराः ॥ ३.२६.८८ ॥

ताभिः प्रणम्यमाना सा चक्रराजरथोत्तमात् ।
अवरुह्य तले सैन्यं वर्तमानमगाहत ॥ ३.२६.८९ ॥

तामायान्तीमथो दृष्ट्वा कुमारीं कोपपाटलाम् ।
मन्त्रिणीदण्डनाथे च सभये वाचमूचतुः ॥ ३.२६.९० ॥

किं भर्तृदारिके युद्धे व्यवसायः कृतस्त्वया ।
अकाण्डे किं महाराज्ञ्या प्रेषितासि रणं प्रति ॥ ३.२६.९१ ॥

तदेतदुचितन्नैव वर्तमानेऽपि सैनिके ।
त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः ॥ ३.२६.९२ ॥

निवर्तस्व रणोत्साहात्प्रणामस्ते विधीयते ।
इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया ॥ ३.२६.९३ ॥

अत्यन्तं विस्मयाविष्टे मन्त्रिणीदण्डनायिके ।
सहैव तस्या रक्षार्थं चेलतुः पार्श्वयोर्द्वयोः ॥ ३.२६.९४ ॥

अथाग्निवरणद्वारा ताभ्यामनुगता सती ।
प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका ॥ ३.२६.९५ ॥

सनाथशक्तिसेनानां सर्वासामनुगृह्णती ।
प्रणामाञ्जलिजालानि कर्णीरथकृतासना ॥ ३.२६.९६ ॥

भण्डस्य तनयान्दुष्टानभ्यद्रवदरिन्दमा ।
तस्याः प्रादेशिकं सैन्यं कुमार्या न हि विद्यते ॥ ३.२६.९७ ॥

सर्वं हि ललितासैन्यं तत्सैन्यं समजायत ।
ततः प्रववृते युद्धमत्युद्धतापराक्रमम् ॥ ३.२६.९८ ॥

ववर्ष शरजालानि दैत्येन्द्रेषु कुमारिका ।
भण्डासुरकुमारैस्तैर्महाराज्ञीकुमारिका ।
यद्युद्धमतनोत्तत्तु स्पृहणीयं सुरासुरैः ॥ ३.२६.९९ ॥

अत्यन्तविस्मिता दैत्यकुमारा नववर्षिणीम् ।
कर्मीरथस्थामालोक्य किरन्तींशरमण्डलम् ॥ ३.२६.१०० ॥

क्षणेक्षणे बालिकया क्रियमाणं महारणम् ।
व्यजिज्ञपन्महाराज्ञ्यै भ्रमन्त्यः परिचारिकाः ॥ ३.२६.१०१ ॥

मन्त्रिणीदण्डनाथे च न तां विजहतू रणे ।
प्रेक्षकत्व मनुप्राप्ते तृष्णीमेव बभूवतुः ॥ ३.२६.१०२ ॥

सर्वेषां दैत्यपुत्राणामेकरूपा कुमारिका ।
प्रत्येकभिन्ना ददृशे बिम्बमालेव भास्वतः ॥ ३.२६.१०३ ॥

सायकैरग्निचूडालैस्तेषां मर्माणि भिन्दती ।
रक्तोत्पलमिव क्रोधसंरक्तं बिभ्रती मुखम् ॥ ३.२६.१०४ ॥

आश्चर्यं ब्रुवतो व्योम्नि पश्यतां त्रिदिवौकसाम् ।
साधुवादैर्बहुविधैर्मत्रिणीदण्डनाथयोः ॥ ३.२६.१०५ ॥

अर्च्यमाना रणं चक्रे लघुहस्ता कुमारिका ।
द्वितीयं युद्धदिवसं समस्तमपि सा रणे ॥ ३.२६.१०६ ॥

प्रकाशयामास बलं ललितादुहिता निजम् ।
अस्त्रप्रत्यस्त्रमोक्षेण तान्सर्वानपि भिन्दती ॥ ३.२६.१०७ ॥

नारायणास्त्रमोक्षेण महराज्ञीकुमारिका ।
द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोत्क्षणात् ॥ ३.२६.१०८ ॥

अक्षौहिणीनां क्षयतः क्षणात्कोपमुपागताः ।
आकृष्टगुरुधन्वानस्तेऽपतन्नेकहेलया ॥ ३.२६.१०९ ॥

ततः कलकले जाते शक्तीनां च दिवौकसाम् ।
युगपत्त्रिंशतो बाणानसृजत्सा कुमारिका ॥ ३.२६.११० ॥

हस्तलाघवमाश्रित्य मुक्तैश्चन्द्रार्धसायकैः ।
त्रिंशता त्रिंशतो भण्डपुत्राणा साहतं शिरः ॥ ३.२६.१११ ॥

इति भण्डस्य पुत्रेषु प्राप्तेषु यमसादनम् ।
अत्यन्तविस्मयाविष्टा वबृषुः पुष्पमभ्रगाः ॥ ३.२६.११२ ॥

सा च पुत्री महाराज्ञ्याः विध्वस्तासुरमैनिका ।
मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा ॥ ३.२६.११३ ॥

तस्याः पराक्रमोन्मेषैर्नृत्यन्त्योजयदायिभिः ।
शक्तयस्तुमुलं चक्रुः साधुवादैर्जगत्त्रयम् ॥ ३.२६.११४ ॥

सर्वाश्च शक्तिसेनान्यो दण्डनाथापुरःसराः ।
तदाश्चर्यं महाराज्ञ्यै निवेदयितुमुद्गताः ॥ ३.२६.११५ ॥

ताभिर्निवेद्यमानानि सा देवी ललिताम्बिका ।
पुत्रीभुजावदानानि श्रुत्वा प्रीतिं समाययौ ॥ ३.२६.११६ ॥

समस्तमपि तच्चक्रं शक्तीनां तत्पराक्रमैः ।
अदृष्टपूर्वैर्देवेषु विस्मयस्य वशं गतम् ॥ ३.२६.११७ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डपुत्रवधो नाम षड्विंशोऽध्यायः