०२५

विश्वास-प्रस्तुतिः

ततः श्रुत्वा वधं तेषां तपोबलवतामपि ।
न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः ॥ ३.२५.१ ॥

मूलम्

एकान्ते मन्त्रयामास स आहूय महोदरौ ।
भण्डः प्रचण्डशैण्डीर्यः काङ्क्षमाणो रणे जयम् ॥ ३.२५.२ ॥

युवराजोऽपि सक्रोधो विषङ्गेण यवीयसा ।
भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत् ॥ ३.२५.३ ॥

अत्याप्तैर्मन्त्रिभिर्युक्तः कुटिलाक्षपुरःसरैः ।
ललिताविजये मन्त्रं चकार क्वथिताश्यः ॥ ३.२५.४ ॥

भण्ड उवाच
अहो बत कुलभ्रंशः समायातः सुरद्विषाम् ।
उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः ॥ ३.२५.५ ॥

मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः ।
तादृशानामिहास्माकमागतोऽयं विपर्ययः ॥ ३.२५.६ ॥

करोति बलिनं क्लीबं धनिनं धनवर्जितम् ।
दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता ॥ ३.२५.७ ॥

क्व सत्त्वमस्मद्बाहुनां क्वेयं दुर्ल्ललिता वधूः ।
अकाण्ड एव विधिना कृतोऽयं निष्ठुरो विधिः ॥ ३.२५.८ ॥

सर्पिणीमाययोदग्रास्तंया दुर्घटशौर्यया ।
अधिसङ्ग्रामभूचक्रे सेनान्यो विनिपातिताः ॥ ३.२५.९ ॥

एवमुद्दामदर्पाढ्या वनिता कापि मायिनी ।
यदि सम्प्रहरत्यस्मान्धिग्बलं नो भुजार्जितम् ॥ ३.२५.१० ॥

इमं प्रसङ्गं वक्तुं च जिह्वा जिह्वेति मामकी ।
वनिता किमु मत्सैन्यं मर्द यिष्यति दुर्मदा ॥ ३.२५.११ ॥

तदत्र मूलच्छेदाय तस्या यत्नो विधीयताम् ।
मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला ॥ ३.२५.१२ ॥

सर्वेषामपि सैन्यानां पश्चादेवावतिष्ठते ।
अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम् ॥ ३.२५.१३ ॥

अस्मिन्नेव ह्यवसरे पार्ष्णिग्राहो विधीयताम् ।
पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत् ॥ ३.२५.१४ ॥

तेन प्रौढमदोन्मता बहुसङ्ग्रामदुर्मदाः ।
दश पञ्च च सेनान्यः सह यान्तु युयुत्सया ॥ ३.२५.१५ ॥

पृष्ठतः परिवारास्तु न तथा सन्ति ते पुनः ।
अल्पैस्तु रक्षिता वै स्यात्तेनैवासौ सुनिग्रहा ॥ ३.२५.१६ ॥

अतस्त्वं बहुसन्नाहमाविधाय मदोत्कटः ।
विषङ्ग गुप्तरूपेण पार्ष्णिग्राहं समाचर ॥ ३.२५.१७ ॥

अल्पीयसी त्वया सार्द्धं सेना गच्छतु विक्रमात् ।
सज्जाश्च लन्तु सेनान्यो दिक्पालविजयोद्धताः ॥ ३.२५.१८ ॥

अक्षौहिण्यश्च सेनानां दश पञ्च चलन्तु ते ।
त्वं गुप्तवेषस्तां दुष्टां सन्निपत्य दृढं जहि ॥ ३.२५.१९ ॥

सैव निःशेषशक्तीनां मूलभूता महीयसी ।
तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥ ३.२५.२० ॥

कन्दच्छेदे सरोजिन्या दलजालमिवाम्भसि ।
सर्वेषामेव पश्चाद्यो रथश्चलति भासुरः ॥ ३.२५.२१ ॥

दशयोजनसम्पन्ननिजदेहसमुच्छ्रयः ।
महामुक्तातपत्रेण सर्वोद्ध्व परिशोभितः ॥ ३.२५.२२ ॥

वहन्मुहर्वीज्यमानं चामराणां चतुष्टयम् ।
उत्तङ्गकेतुसङ्घातलिखिताम्बुदमण्डलः ॥ ३.२५.२३ ॥

तस्मिन्रथे समायाति सा दृष्टा हरिणेक्षणा ।
निबृतं सन्निपत्य त्वं चिह्नेनानेन लक्षिताम् ॥ ३.२५.२४ ॥

तां विजित्य दुराचारां केशेष्वा कृष्य मर्दय ।
पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः ॥ ३.२५.२५ ॥

स्त्रीमात्ररक्षा भवतो वशमेष्यति सत्त्वरम् ।
भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा ॥ ३.२५.२६ ॥

शृणु यैर्भवतो युद्धे साह्यकार्यमतन्द्रितैः ।
आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः ॥ ३.२५.२७ ॥

हुबको हुलुमुलुश्च कक्लसः कक्लिवाहनः ।
थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः ॥ ३.२५.२८ ॥

जम्बुकाक्षो जम्भनश्च तीक्ष्णशृङ्गस्त्रिकण्टकः ।
चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः ॥ ३.२५.२९ ॥

एकैकाक्षौहिणीयुक्ताः प्रत्येकं भवता सह ।
आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः ॥ ३.२५.३० ॥

परस्य कटकं नैव यथा जानाति ते गतिम् ।
तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर ॥ ३.२५.३१ ॥

अस्मिन्कार्ये सुमहतां प्रौढिमानं समुद्वहन् ।
निषङ्ग त्वं हि तभसे जयसिद्धिमनुत्तमाम् ॥ ३.२५.३२ ॥

इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः ।
विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः ॥ ३.२५.३३ ॥

अथ श्रीललितादेव्याः पार्ष्णिग्राहकृतोद्यमे ।
युवराजानुजे दैत्ये सूर्योऽस्तगिरिमाययौ ॥ ३.२५.३४ ॥

प्रथमे युद्धदिवसे व्यतीते लोकभीषणे ।
अन्धकारः समभवत्तस्य बाह्यचिकीर्षया ॥ ३.२५.३५ ॥

महिषस्कन्धधूम्राभं वनक्रोडवपुर्द्दुति ।
नीलकण्ठनिभच्छायं निबिडं पप्रथे तमः ॥ ३.२५.३६ ॥

कुञ्जेषु पिण्डितमिव प्रधावदिव सन्धिषु ।
उज्जिहानमिव क्षोणीविवरेभ्यः सहस्रशः ॥ ३.२५.३७ ॥

निर्गच्छदिव शैलानां भूरि कन्दरमन्दिरात् ।
क्वचिद्दीपप्रभाजाले कृतकातरचेष्टितम् ॥ ३.२५.३८ ॥

दत्तावलम्बनमिव स्त्रीणां कर्णोत्पलत्विषि ।
एकीभूतमिव प्रौढदिङ्नागमिव कज्जले ।
आबद्धमैत्रकमिव स्फुरच्छाद्वलमण्डले ॥ ३.२५.३९ ॥

कृतप्रियाश्लेषमिव स्फुरन्तीष्वसियष्टिषु ।
गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु ॥ ३.२५.४० ॥

क्रमेण बहुलीभूतं प्रससार महत्तमः ।
त्रियामावामनयना नीलकञ्चुकरोचिषा ॥ ३.२५.४१ ॥

तिमिरेणावृतं विश्वं न किञ्चित्प्रत्यपद्यत ।
असुराणां प्रदुष्टानां रात्रिरेव बलावहा ॥ ३.२५.४२ ॥

तेषां मायाविलासोऽयं तस्यामेव हि वर्धते ।
अथ प्रचलितं सैन्यं विषङ्गेण महौजसा ॥ ३.२५.४३ ॥

धौतखड्गलताच्छायावर्धिष्णु तिमिरच्छटम् ।
दमनाद्याश्च सेनान्यः श्मामकङ्कटधारिणः ॥ ३.२५.४४ ॥

श्यामोष्णीषधराः श्यामवर्णसर्वपरिच्छदाः ।
एकत्वमिव सम्प्राप्तास्तिमिरेणातिभूयसा ॥ ३.२५.४५ ॥

विषङ्गमनुसञ्चेलुः कृताग्रजनमस्कृतिम् ।
कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम् ॥ ३.२५.४६ ॥

मेघडम्बरकं नाम दधे वक्षसि कङ्कटम् ।
यथा तस्य निशायुद्धानुरूपो वेषसङ्ग्रहः ॥ ३.२५.४७ ॥

तथा कृतवती सेना श्यामलं कञ्चुकादिकम् ।
न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम् ॥ ३.२५.४८ ॥

पणवानकभेरीणां न च घोषविजृम्भणम् ।
गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः ॥ ३.२५.४९ ॥

परैरदृश्यगतयो विष्कोशीकृतरिष्टयः ।
पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम् ॥ ३.२५.५० ॥

आवृतोत्तरमार्गेण पूर्वभागमशिश्रियन् ।
निश्वासमपि सस्वानमकुर्वन्तः पदेपदे ॥ ३.२५.५१ ॥

सावधानाः प्रचलिताः पार्ष्णिग्राहाय दानवाः ।
भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः ॥ ३.२५.५२ ॥

ललितासैन्यमेव स्वान्सूचयन्तः प्रपृच्छतः ।
आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः ॥ ३.२५.५३ ॥

चक्रराजरथं तुङ्गं मेरुमन्दरसन्निभम् ।
अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम् ॥ ३.२५.५४ ॥

तत्र मुक्तातपत्रस्य वर्त्तमानामधःस्थले ।
सहस्रादित्यसङ्काशां पश्चिमाभिमुखीं स्थिताम् ॥ ३.२५.५५ ॥

कामेश्वर्यादिनित्याभिः स्वसमानसमृद्धिभिः ।
नर्मालापविनोदेन सेव्यमानां रथोत्तमे ॥ ३.२५.५६ ॥

तां तथाभूतवृत्तान्ताम तादृशरणोद्यमाम् ।
पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम् ॥ ३.२५.५७ ॥

मन्वानश्च हि तामेव विषङ्गः सुदुराशयः ।
पृष्ठवंशे रथेन्द्रस्य घट्टयामास सैनिकैः ॥ ३.२५.५८ ॥

तत्राणि मादिशक्तीनां परिवारवरूथिनी ।
महाकलकलं चक्रुरणिमाद्याः परःशतम् ॥ ३.२५.५९ ॥

पट्टिशैर्द्रुघणैश्चैव भिन्दिपालैर्भुशुण्डिभिः ।
कठोरवज्रनिर्धातनिष्ठुरैः शक्तिमण्डलैः ॥ ३.२५.६० ॥

मर्दयन्तो महासत्त्वाः समरं बहुमेनिरे ।
आकस्मिकरणोत्साहविपर्याविष्टविग्रहम् ॥ ३.२५.६१ ॥

अकाण्डक्षुभितं चासीद्रथस्थं शक्तिमण्डलम् ।
विपाटैः पाटयामासुरदृश्यैरन्धकारिणः ॥ ३.२५.६२ ॥

ततश्चक्ररथेन्द्रस्य नवमे पर्वणि स्थिताः ।
अदृश्यमानशस्त्राणामदृश्यनिजवर्मणाम् ॥ ३.२५.६३ ॥

तिमिरच्छन्नरूपाणां दानवानां शिलीमुखैः ।
इतस्ततो बहु क्लिष्टं छन्नवर्मितमर्मवत् ॥ ३.२५.६४ ॥

शक्तीनां मण्डलं तेने क्रन्दनं ललितां प्रति ।
पूर्वानुक्रम तस्तत्र सम्प्राप्तं सुमहद्भयम् ॥ ३.२५.६५ ॥

कर्णाकर्णिकयाकर्ण्य ललिता कोपमादधे ।
एतस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः ॥ ३.२५.६६ ॥

दशाक्षौहिणिकायुक्तं कुटिलाक्षं महौजसम् ।
ललितासैन्यनाशाय युद्धाय प्रजिघाय सः ॥ ३.२५.६७ ॥

यथा पश्चात्कलकलं श्रुत्वाग्रेवर्तिनी चमूः ।
नागच्छति तथा चक्रे कुटिलाक्षो महारणम् ॥ ३.२५.६८ ॥

एवं चोभयतो युद्धं पश्चादग्रे तथाभवत् ।
अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत् ॥ ३.२५.६९ ॥

नक्तसत्त्वाश्च दैत्येन्द्रास्तिमिरेण समावृताः ।
इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः ॥ ३.२५.७० ॥

निषङ्गेण दुराशेन धमनाद्यैश्चमूवरैः ।
चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः ॥ ३.२५.७१ ॥

ताभिर्दैत्यास्त्रमालाभिश्चक्रराजरथो वृतः ।
बकावलीनिबिडतः शैलराज इवाबभौ ॥ ३.२५.७२ ॥

आक्रान्तपर्वणाधस्ताद्विषङ्गेण दुरात्मना ।
मुक्त एकः शरोदेव्यास्तालवृन्तमचूर्णयत् ॥ ३.२५.७३ ॥

अथ तेनाव्याहितेन सम्भ्रान्ते शक्तिमण्डले ।
कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः ॥ ३.२५.७४ ॥

ईषद्भृकुटिसंसक्तं श्रीदेव्या वदनाम्बुजम् ।
अवलोक्य भृशोद्विग्ना नित्या दधुरतिश्रमम् ॥ ३.२५.७५ ॥

नित्या कालस्वरूपिण्यः प्रत्येकं तिथिविग्रहाः ।
क्रोधमुद्वीक्ष्य सन्नाज्ञ्या युद्धाय दधुरुद्यमम् ॥ ३.२५.७६ ॥

प्रणिपत्य च तां देवीं महाराज्ञीं महोदयाम् ।
ऊचुर्वाचमकाण्डोत्थां युद्धकौतुकगद्गदाम् ॥ ३.२५.७७ ॥

तिथिनित्या उचुः ।
देवदेवी महाराज्ञी तवाग्रे ब्रेक्षितां चमूम् ।
दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम् ॥ ३.२५.७८ ॥

धर्षितु कातरा दुष्टा मायाच्छद्मपरायणाः ।
पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवम् ॥ ३.२५.७९ ॥

तस्मात्तिमिरसञ्छन्नमूर्तीनां विबुधद्रुहाम् ।
शमयामो वयं दर्पं क्षणमात्रं विलोकय ॥ ३.२५.८० ॥

या वह्निवासिनी नित्या या ज्वालामालिनी परा ।
ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ताः सुरद्विषः ॥ ३.२५.८१ ॥

प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् ।
सहसैवागमिष्यामः सेवितुं श्रीपदाम्बुजम् ।
आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम् ॥ ३.२५.८२ ॥

इत्युक्ते सति नित्याभिस्तथास्त्विति जगाद सा ।
अथ कामेश्वरी नित्या प्रणम्य ललितेश्वरीम् ।
तया सम्प्रेषिता ताभिः कुण्डलीकृत कार्मुका ॥ ३.२५.८३ ॥

सा हन्तुं तान्दुराचारान्कूटयुद्धकृतक्षणान् ।
बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती ॥ ३.२५.८४ ॥

रे रे तिष्ठत पापिष्ठा मायानिष्ठाश्छिनद्मि वः ।
अन्धकारमनुप्राप्य कूटयुद्धपरायणाः ॥ ३.२५.८५ ॥

इति तान्भर्त्सयन्ती सा तूणीरोत्खातसायकात् ।
पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः ॥ ३.२५.८६ ॥

सज्जकार्मुकहस्ताश्च भगमालापुरःसराः ।
अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः ॥ ३.२५.८७ ॥

ज्वालामालिनि नित्या च या नित्या वह्निवासिनी ।
सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे ॥ ३.२५.८८ ॥

अथ ते दुष्टदनुजाः प्रदीप्ते युद्धमण्डले ।
प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः ॥ ३.२५.८९ ॥

कामेश्वर्यादिका नित्यास्ताः पञ्चदश सायुधाः ।
ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया ॥ ३.२५.९० ॥

महाकलकलस्तत्र समभूद्युद्धसीमनि ।
मन्दरक्षोभिताम्भोदिवेल्लत्कल्लोलमण्डलः ॥ ३.२५.९१ ॥

ताश्च नित्यावलत्क्वाणकङ्कणैर्युधि पाणिभिः ।
आकृष्य प्रामकोदण्डास्तेनिरे युद्धमुद्धतम् ॥ ३.२५.९२ ॥

यामत्रितयपर्यन्तमेवं युद्धमवर्त्तत ।
नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः ॥ ३.२५.९३ ॥

जघान दमनं दुष्टं कामेशी प्रथमं शरैः ।
दीर्घजिह्वं चमूनाथं भगमाला व्यदारत् ॥ ३.२५.९४ ॥

नित्यक्लिन्ना च भेरुण्डा हुम्बेकं हुलुमल्लकम् ।
कक्लसं वह्निवासा च निजघान शरैः शतैः ॥ ३.२५.९५ ॥

महावज्रेश्वरी बाणैरभिनत्केकिवाहनम् ।
पुक्लसं शिवदूती च प्राहिणोद्यमसादनम् ॥ ३.२५.९६ ॥

पुण्ड्रकेतुं भुजोद्दण्डं त्वरिता समदारयत् ।
कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम् ॥ ३.२५.९७ ॥

अथ निलपताका च विजया च जयोद्धते ।
जम्बुकाक्षं जृम्भणं च व्यतन्वातां रणे बलिम् ।
सर्वमङ्गलिका नित्या तीक्ष्णशृङ्गमखण्डयत् ।
ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम् ॥ ३.२५.९८ ॥

चन्द्रगुप्तं च दुःशीलं चित्रं चित्रा व्यदारत् ।
सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु ॥ ३.२५.९९ ॥

विषङ्गः परमः कुद्धश्चचाल पुरतो बली ।
अथ यामावशेषायां यामिन्यां घटिकाद्वयम् ॥ ३.२५.१०० ॥

नित्याभिः सह सङ्ग्रामं विधाय स दुराशयः ।
अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम् ॥ ३.२५.१०१ ॥

कामेश्वरीकराकृष्टचापोत्थौर्निशितैः शरैः ।
भिन्नवर्मा दृढतरं विषङ्गो विह्वलाशयः ।
हतावशिष्टैर्योधैश्च सार्धमेव पलायितः ॥ ३.२५.१०२ ॥

ताभिर्न निहतो दुष्टो यस्माद्वध्यः स दानवः ।
दण्डनाथाशरेणैव कालदण्डसमत्विषा ॥ ३.२५.१०३ ॥

तस्मिन्पलायिते दुष्टे विषङ्गे भण्डसोदरे ।
सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः ॥ ३.२५.१०४ ॥

पलायितं रणेवीरमनुसर्त्तुमनौचिती ।
इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः ॥ ३.२५.१०५ ॥

दैत्यशस्त्रव्रणस्यन्दिशोणितप्लुतविग्रहाः ।
नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः ॥ ३.२५.१०६ ॥

इत्थं रात्रौ महद्युद्धं तत्र जातं भयङ्करम् ।
नित्यानां रूपजालं च शस्त्रक्षतमलोकयत् ॥ ३.२५.१०७ ॥

श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षत ।
तदालोकनमात्रेण व्रणो निर्व्रणतामगात् ॥ ३.२५.१०८ ॥

नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत् ॥ ३.२५.१०९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने विषङ्गपलायनं नाम पञ्चविंशोऽध्याय