विश्वास-प्रस्तुतिः
हतेषु तेषु रोषान्धो निश्वसञ्छून्यकेश्वरः ।
कुजलाशमिति प्रोचे युयुत्साव्याकुलाशयः ॥ ३.२४.१ ॥
मूलम्

भद्र सेनापतेऽस्माकमभद्रं समुपागतम् ।
करङ्काद्यश्चमूनाथाः कन्दलद्भुजविक्रमाः ॥ ३.२४.२ ॥

सर्पिणीमायया सर्वगीर्वाणमदभञ्जनाः ।
पापीयस्या तया गूढमायया विनिपातिताः ॥ ३.२४.३ ॥

बलाहकप्रभृतयः सप्त ये सैनिकाधिपाः ।
तानुदग्रभुजासत्त्वान्प्राहिणु प्रधनं प्रति ॥ ३.२४.४ ॥

त्रिशतं चाक्षौहिणीनां प्रस्थापय सहैव तैः ।
ते मर्दयित्वा ललितासैन्यं मायापरायणाः ॥ ३.२४.५ ॥

अये विजयमाहार्य सम्प्राप्स्यन्ति ममान्तिकम् ।
कीकसगर्भसञ्जातास्ते प्रचण्डपराक्रमाः ॥ ३.२४.६ ॥

बलाहकमुखाः सप्त भ्रातरो जयिनः सदा ।
तेषामवश्यं विजयो भविष्यति रणाङ्गणे ॥ ३.२४.७ ॥

इति भण्डासुरेणोक्तः कुटिलाक्षः समाह्वयत् ।
बलाहकमुखान्सप्त सेनानाथान्मदोत्कटान् ॥ ३.२४.८ ॥

बलाहकः प्रथमतस्तस्मा त्सूचीमुखोऽपरः ।
अन्यः फालमुखश्चैव विकर्णो विकटाननः ॥ ३.२४.९ ॥

करालायुः करटकः सप्तैते वीर्यशालिनः ।
भण्डासुरं नमस्कृत्य युद्धकौतूहलोल्वणाः ॥ ३.२४.१० ॥

कीकसासूनवः सर्वे भ्रातरोऽन्योन्यमावृताः ।
अन्योन्यसुसहायाश्च निर्जगमुर्नगरान्तरात् ॥ ३.२४.११ ॥

त्रिशाताक्षौहिणीसेनासेनान्योऽन्वगमंस्तदा ।
उल्लिखन्ति केतुजालैरम्बरे घनमण्डलम् ॥ ३.२४.१२ ॥

घोरसङ्ग्रामिणीपादा घातैर्मर्दितभूतला ।
पिबन्ति धूलिकाजालैरशेषानपि सागरान् ॥ ३.२४.१३ ॥

भेरीनिः साणतम्पोट्टपणवानकनिस्वनैः ।
नभोगुणमयं विश्वमादधानाः पदेपदे ॥ ३.२४.१४ ॥

त्रिशताक्षौहिणीसेनां तां गृहीत्वा मदेद्धताः ।
प्रवेष्टुमिव विश्वस्मिन्कैकसेयाः प्रतस्थिरे ॥ ३.२४.१५ ॥

धृतरोषारुणाः सूर्यमण्डलो द्दीप्तकङ्कटाः ।
उद्दीप्तशस्त्रभरणाश्चेलुर्द्दीप्तोर्ध्वकेशिनः ॥ ३.२४.१६ ॥

सप्त लोकान्प्रमथितुं प्रोषिताः पूर्वमुद्धताः ।
भण्डासुरेण महता जगद्विजयकारिणा ॥ ३.२४.१७ ॥

सप्तलोकविमर्देन तेन दृष्ट्वा महाबलाः ।
प्रोषिता ललितासैन्यं जेतुकामेन दुर्धिया ॥ ३.२४.१८ ॥

ते पतन्तो रणतलमुच्चलच्छत्रपाणयः ।
शक्तिसेनामभिमुखं सक्रोधमभिदुद्रुवुः ॥ ३.२४.१९ ॥

मुहुः किलकिलाराबैर्घोषयन्तो दिशो दश ।
देव्यास्तु सैनिकं यत्र तत्र ते जगमुरुद्धताः ॥ ३.२४.२० ॥

सैन्यं च ललितादेव्याः सन्नद्धं शास्त्रभीषणम् ।
अभ्यमित्रीणमभवद्बद्धभ्रुकुटिनिष्ठुरम् ॥ ३.२४.२१ ॥

पाशिन्यो मुसलिन्यश्च चक्रिण्यश्चापरा मुने ।
मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्तथापराः ॥ ३.२४.२२ ॥

अनेकाःशक्तयस्तीव्रा ललितासैन्यसङ्गताः ।
पिबन्त्य इव दैत्याब्धिं सान्निपेतुः सहस्रशः ॥ ३.२४.२३ ॥

आयातायात हे दुष्टाः पापिन्यो वनिताधमाः ।
मायापरिग्रहैर्दूरं मोहयन्त्यो जडाशयान् ॥ ३.२४.२४ ॥

नेष्यामो भवतीरद्य प्रेतनाथनिकेतनम् ।
श्वसद्भुजगसङ्काशैर्बाणैर त्यन्तभीषणैः ।
इति शक्तीर्भर्त्सयन्तो दानवाश्चक्रुराहवम् ॥ ३.२४.२५ ॥

काचिच्चिच्छेद दैत्येन्द्रं कण्ठे पट्टिशपातनात् ।
तद्गलोद्गलितो रक्तपूर ऊर्ध्वमुखोऽभवत् ॥ ३.२४.२६ ॥

तत्र लग्ना बहुतरा गृध्रा मण्डलतां गताः ।
तैरेव प्रेतनाथस्य च्छत्रच्छविरुदञ्चिता ॥ ३.२४.२७ ॥

काचिच्छक्तिः मुरारातिं मुक्तशक्त्यायुधं रणे ।
लूनतच्छक्तिनैकेन बाणेन व्यलुनीत च ॥ ३.२४.२८ ॥

एका तु गजमारूढा कस्यचिद्दैत्यदुर्मतेः ।
उरःस्थले स्वकरिणा वप्राघातमशिक्षयत् ॥ ३.२४.२९ ॥

काचित्प्रतिभटारूढं दन्तिनं कुम्भसीमनि ।
खड्गेन सहसा हत्वा गजस्य स्वप्रियं व्यधात् ॥ ३.२४.३० ॥

करमुक्तेन चक्रेण कस्यचिद्देववैरिणः ।
धनुर्दण्डं द्विधा कृत्वा स्वभ्रुवोः प्रतिमां तनेत् ॥ ३.२४.३१ ॥

शक्तिरन्या शरैः शातैः शातयित्वा विरोधिनः ।
कृपाणपद्मा रोमाल्यां स्वकीयायां मुदं व्यधात् ॥ ३.२४.३२ ॥

काचिन्मुद्गरपातेन चूर्णयित्वा विरोधिनः ।
रथ्यक्रनितम्बस्य स्वस्य तेनातनोन्मुदम् ॥ ३.२४.३३ ॥

रथकूबरमुग्रेण कस्यचिद्दानवप्रभोः ।
खड्गेन छिन्दती स्वस्य प्रियमुव्यास्ततान ह ॥ ३.२४.३४ ॥

अभ्यन्तरं शक्तिसेना दैत्यानां प्रविवेश ह ।
प्रविवेश च दैत्यानां सेना शक्तिबलान्तरम् ॥ ३.२४.३५ ॥

नीरक्षीरवदत्यन्ताश्लेषं शक्तिसुरद्विषाम् ।
सङ्कुलाकारतां प्राप्तो युद्धकालेऽभवत्तदा ॥ ३.२४.३६ ॥

शक्तीनां खड्गपातेन लूनशुण्डारदद्वयाः ।
दैत्यानां करिणो मत्ता महाक्रोडा इवाभवन् ॥ ३.२४.३७ ॥

एवं प्रवृत्ते समरे वीराणां च भयङ्करे ।
अशक्ये स्मर्तुमप्यन्तं कातरत्ववतां नृणाम् ।
भीषणानां भीषणे च शस्त्रव्यापारदुर्गमे ॥ ३.२४.३८ ॥

बलाहको महागृध्रं वज्रतीक्ष्णमुखादिकम् ।
कालदण्डोपमं जङ्घाकाण्डे चण्डपराक्रमम् ॥ ३.२४.३९ ॥

संहारगुप्तनामानं पूर्वमग्रे समुत्थितम् ।
धूमवद्धूसराकारं पक्षक्षेपभयङ्करम् ॥ ३.२४.४० ॥

आरुह्य विविधंयुद्धं कृतवान्युद्धदुर्मदः ।
पक्षौ वितत्य क्रोशार्धं स स्थितो भीमनिःस्वनैः ।
अङ्गारकुण्डवच्चञ्चुं विदार्याभक्षयच्चमूम् ॥ ३.२४.४१ ॥

संहारगुप्तं स महागृध्रः क्रूरविलोचनः ।
बलाहकमुवाहोच्चैराकृष्टधनुषं रणे ॥ ३.२४.४२ ॥

बलाहको वपुर्धुन्वन्गृध्रपृष्ठकृतस्थितिः ।
सपक्षकूटशैलस्थो बलाहक इवाभवत् ॥ ३.२४.४३ ॥

सूचीमुखश्च दैत्येन्द्रः सूचीनिष्ठुरपक्षतिम् ।
काकवाहनमारुह्य कठिनं समरं व्यधात् ॥ ३.२४.४४ ॥

मत्तः पर्वतशृङ्गाभश्चञ्चूदण्डं समुद्वहन् ।
कालदण्डप्रमाणेन जङ्घाकाण्डेन भीषणः ॥ ३.२४.४५ ॥

पुष्कलावर्तकसमा जम्बालसदृशद्यतिः ।
क्रोशमात्रायतौ पक्षावुभावपि समुद्वहन् ॥ ३.२४.४६ ॥

सूचीमुखाधिष्ठितोऽसौ करटः कटुवासितः ।
मर्दयञ्चञ्चुघातेन शक्तीनां मण्डलं महत् ॥ ३.२४.४७ ॥

अथो फलमुखः फालं गृहीत्वा निजमायुधम् ।
कङ्कमारुह्य समरे चकाशे गिरिसन्निभम् ॥ ३.२४.४८ ॥

विकर्णाख्यश्च दैत्येन्द्रश्चमूभर्ता महाबलः ।
भेरुण्डपतनारूढः प्रचण्डयुद्धमातनोत् ॥ ३.२४.४९ ॥

विकटानननामानं विलसत्पट्टिशायुधम् ।
उवाह समरे चण्डः कुक्कुटोऽतिभयङ्करः ॥ ३.२४.५० ॥

गर्जन्कण्ठस्थरोमाणि हर्षयञ्ज्वलदीक्षणः ।
पश्यन्पुरः शक्तिसैन्यं चचाल चरणायुधः ॥ ३.२४.५१ ॥

करालाक्षश्च भूभर्ता षष्ठोऽत्यन्तगरिष्ठदः ।
वज्रनिष्ठुरघोषश्च प्राचलत्प्रेतवाहनः ॥ ३.२४.५२ ॥

श्मशानमन्त्रशूरेणतेन संसाधितः पुरा ।
प्रेतो भूतसमाविष्टस्तमुवाह रणाजिरे ॥ ३.२४.५३ ॥

अवाङ्मुखो दीर्घबाहुः प्रसारितपदद्वयः ।
प्रोतो वाहनतां प्राप्तःकरालाक्षमथावहत् ॥ ३.२४.५४ ॥

अन्यः करटको नाम दैत्यसेनाशिखामणिः ।
सर्दयामास शक्तीनां सैन्यं वेतालवाहनः ॥ ३.२४.५५ ॥

योजनायतमूर्तिः सन्वेतालः क्रूरलोचनः ।
श्मशानभूमौ वेतालो मन्त्रेणानेन साधितः ॥ ३.२४.५६ ॥

मर्दयामास पृतनां शक्तीनां तेन देशितः ।
तस्य वेतालवर्यस्य वर्तमानोंससीमनि ।
बहुधायुध्यत तदा शक्तिभिः सह दानवः ॥ ३.२४.५७ ॥

एवमेते खलात्मानः सप्त सप्तार्णवोपमाः ।
शक्तीनां सैनिकं तत्र व्याकुलीचक्रुरुद्धताः ॥ ३.२४.५८ ॥

ते सप्त पूर्वं तपसा सवितारमतोषयन् ।
तेन दत्तो वरस्तेषां तपस्तुष्टेन भास्वता ॥ ३.२४.५९ ॥

कैकसेया महाभागा भवतां तपसाधुना ।
परितुष्टोऽस्मि भद्रं वो भवन्तो वृणतां वरम् ॥ ३.२४.६० ॥

इत्युक्ते दिननाथेन कैकसेयास्तपः कृशाः ।
प्रार्थयामासुरत्यर्थं दुर्दान्तं वरमीदृशम् ॥ ३.२४.६१ ॥

रणेषु सन्निधातव्यमस्माकं नेत्रकुक्षिषु ।
भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥ ३.२४.६२ ॥

त्वया यदा सन्निहितं तपनास्माकमक्षिषु ।
तदाक्षिविषयः सर्वो निश्चेष्टो भवतात्प्रभो ॥ ३.२४.६३ ॥

त्वत्सान्निध्यसमिद्धेन नेत्रेणास्माकमीक्षिताः ।
स्तब्धशस्त्रा भविष्यन्ति प्रतिरोधकसैनिकाः ॥ ३.२४.६४ ॥

ततः स्तब्धेषु शस्त्रेषु वीक्षणादेव नः प्रभो ।
निश्चेष्टा रिपवोऽस्माभिर्हन्तव्याः सुकरत्वतः ॥ ३.२४.६५ ॥

इति पूर्वं वरः प्राप्तः कैकसेयौर्दिवाकरात् ।
वरदानेन ते तत्र युद्धे चेरुर्मधोद्धताः ॥ ३.२४.६६ ॥

अथ सूर्यसमाविष्टनेत्रैस्तेस्तु निरीक्षिताः ।
शक्तयः स्तब्धशस्त्रौघा विफलोत्सा हतां गताः ॥ ३.२४.६७ ॥

कीकसातनयैस्तैस्तु सप्तभिः सत्त्वशालिभिः ।
विष्टम्भितास्त्रशस्त्राणां शक्तीनां नोद्यमोऽभवत् ॥ ३.२४.६८ ॥

उद्यमे क्रियभाणेऽपि शस्त्रस्तम्भेन भूयसा ।
अभिभूताः सनिश्वासं शक्तयो जोषमासत ॥ ३.२४.६९ ॥

अथ ते वासरं प्राप्य नानाप्रहरणोद्यताः ।
व्यमर्दयञ्छक्तिसैन्यं दैत्याः स्वस्वामिदेशिताः ॥ ३.२४.७० ॥

शक्तयस्तास्तु सैन्येन निर्व्यापारा निरायुधाः ।
अक्षुभ्यन्त शरैस्तेषां वज्रकङ्कटभोदिभिः ॥ ३.२४.७१ ॥

शक्तयो दैत्यशस्त्रौधैर्विद्धगात्राः सृतामृजः ।
सुपल्लवा रणे रेजुः कङ्कोललतिका इव ॥ ३.२४.७२ ॥

हाहाकारं वितन्वत्यः प्रपन्ना ललितेश्वरीम् ।
चुक्रुशुः शक्तयः सर्वास्तैः स्तम्भितनिजायुधाः ॥ ३.२४.७३ ॥

अथ देव्याज्ञया दण्डनाथा प्रत्यङ्गरक्षिणी ।
तिरस्करणिका देवी समुत्तस्थौ रणाजिरे ॥ ३.२४.७४ ॥

तमोलिप्ताह्वयं नाम विमानं सर्वतोमुखम् ।
महामाया समारुह्य शक्तीनामभयं व्यधात् ॥ ३.२४.७५ ॥

तमालश्यामलाकारा श्यामकञ्चुकधारिणी ।
श्यामच्छाये तमोलिप्ते श्यामयुक्ततुरङ्गमे ॥ ३.२४.७६ ॥

वासन्ती मोहनाभिख्यं धनुरादाय सस्वनम् ।
सिंहनादं विनद्येषूनवर्षत्सर्पसन्निभान् ॥ ३.२४.७७ ॥

कृष्णरूपभुजङ्ग भानधोमुसलसन्निभान् ।
मोहनास्त्रविनिष्ठ्यूतान्बाणान्दैत्या न सेहिरे ॥ ३.२४.७८ ॥

इतस्ततो मर्द्यमाना महामायाशिलीमुखैः ।
प्रकोपं परमं प्राप्ता बलाहकमुखाः खलाः ॥ ३.२४.७९ ॥

अथो तिरस्करण्यम्बा दण्डनाथानिदेशतः ।
अन्धाभिधं महास्त्रं सा मुमोच द्विषतां गणे ॥ ३.२४.८० ॥

बलाहकाद्यास्ते सप्त दिननाथवरोद्धताः ।
अन्धास्त्रेण निजं नेत्रं दधिरे च्छादितं यथा ॥ ३.२४.८१ ॥

तिरस्करणिकादेव्या महामोहनधन्वनः ।
उद्गतेनान्धबाणेन चक्षुस्तेषां व्यधीयत ॥ ३.२४.८२ ॥

अन्धीकृताश्च ते सप्त न तु प्रैक्षन्त किञ्चन ।
तद्वीक्षणस्य विरहाच्छस्त्रस्तम्भः क्षयं गतः ॥ ३.२४.८३ ॥

पुनः ससिंहनादं ताः प्रोद्यतायुधपाणयः ।
चक्रुः समरसन्नाहं दैत्यानां प्रजिघांसया ॥ ३.२४.८४ ॥

तिरस्करणिकां देवीमग्रे कृत्वा महाबलाम् ।
सदुपायप्रसङ्गेन भृशं तुष्टा रणं व्यधुः ॥ ३.२४.८५ ॥

साधुसाधु महाभागे तिरस्करणिकाम्बिके ।
स्थाने कृततिरस्कारा द्विपामेषां दुरात्मनाम् ॥ ३.२४.८६ ॥

त्वं हि दुर्जननेत्राणां तिरस्कारमहौषधी ।
त्वया बद्धदृशानेन दैत्यचक्रेण भूयते ॥ ३.२४.८७ ॥

देवकार्यमिदं देवि त्वया सम्यगनुष्टितम् ।
अस्मादृशामजय्येषु यदेषु व्यसनं कृतम् ॥ ३.२४.८८ ॥

तत्त्वयैव दुराचारानेतान्सप्त महासुरान् ।
निहतांल्ललिता श्रुत्वा सन्तोषं परमाप्स्यति ॥ ३.२४.८९ ॥

एवं त्वया विरचिते दण्डिनीप्रीति माप्स्यति ।
मन्त्रिण्यपि महाभागायास्यत्येव परां मुदम् ॥ ३.२४.९० ॥

तस्मात्त्वमेव सप्तैतान्निगृहण रणाजिरे ।
एषां सैन्यं तु निखिलं नाशयाम उदायुधाः ॥ ३.२४.९१ ॥

इत्युक्त्वा प्रेरिता ताभिः शक्तिभियुर्द्धकौतुकान् ।
तमोलिप्तेन यानेन बलाहकबलं ययौ ॥ ३.२४.९२ ॥

तामायान्तीं समावेक्ष्य ते सप्ताथ सुराधमाः ।
पुनरेव च सावित्रं वरं सस्मरुरञ्जसा ॥ ३.२४.९३ ॥

प्रविष्टमपि सावित्रं नाशकं तन्निरोधने ।
तिरस्कृतं तु नेत्रस्थं तिरस्करणितेजसा ॥ ३.२४.९४ ॥

वरदानास्त्ररोषान्धं महाबलपराक्रमम् ।
अस्त्रेण च रुषा चान्धं बलाहकमहासुरम् ।
आकृष्य केशेष्वसिना चकर्तान्तर्धिदेवता ॥ ३.२४.९५ ॥

तस्य वाहनगृध्रस्य लुनाना पत्रिणा शिरः ।
सूचीमुखस्याभिमुखं तिरस्करणिका व्रजत् ॥ ३.२४.९६ ॥

तस्य पट्टिशपातेन विलूय कठिनं शिरः ।
अन्येषामपि पञ्चानां पञ्चत्वमकरोच्छनैः ॥ ३.२४.९७ ॥

तैः सप्तदैत्यमुण्डैश्चग्रथितान्योन्यकेशकैः ।
हारदाम गले कृत्वा ननादान्तर्धिदेवता ॥ ३.२४.९८ ॥

समस्तमपि तत्सैन्यं शक्तयः क्रोधसूर्च्छिताः ।
हत्वा तद्रक्तसलिलैर्बह्वीः प्रावाहयन्नदीः ॥ ३.२४.९९ ॥

तत्राश्चर्यमभूद्भूरि माहामायाम्बिकाकृतम् ।
बलाहकादिसेनान्यां दृष्टिरोधनवैभवात् ॥ ३.२४.१०० ॥

हतशिष्टाः कतिपया बहुवित्राससङ्कुलाः ।
शरणं जग्मुरत्यार्त्ताः क्रन्दन्तं शून्यकेश्वरम् ॥ ३.२४.१०१ ॥

दण्डिनीं च महामायां प्रशंसन्ति मुहुर्मुहुः ।
प्रसादमपरं चक्षुस्तस्या आदायपिप्रियुः ॥ ३.२४.१०२ ॥

साधुसाध्विति तत्रस्थाः शक्तयः कम्पमौलयः ।
तिरस्करणिकां देवीमश्लाघन्त पदेपदे ॥ ३.२४.१०३ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने बलाहकादिसप्तसेनापतिवधो नाम चतुर्विंशोऽध्यायः