विश्वास-प्रस्तुतिः
अथाश्वरूढया क्षिप्ते कुरण्डे भण्डदानवः ।
कुटिलाक्षमिदं प्रोचे पुनरेव युयुत्सया ॥ ३.२३.१ ॥
मूलम्

स्वप्नेऽपि यन्न सम्भाव्यं यन्न श्रुतमितः पुरा ।
यच्च नो शङ्कितं चित्ते तदेतत्कष्टमागतम् ॥ ३.२३.२ ॥

कुरण्डदुर्मदौ सत्त्वशालिनौ भ्रातरौ हितौ ।
दुष्टदास्याः प्रभावोऽयं मायाविन्या महत्तरः ॥ ३.२३.३ ॥

इतः परं करङ्कादीन्पञ्चसेनाधिनायकान् ।
शतमक्षौहिणीनां च प्रस्थापय रणाङ्गणे ॥ ३.२३.४ ॥

ते युद्धदुर्मदाः शूराः सङ्ग्रामेषु तनुत्यजः ।
सर्वथैव विजेष्यन्ते दुर्विदग्धविलासिनीम् ॥ ३.२३.५ ॥

इति भण्डवचः श्रुत्वा भृशं चत्वरयान्वितः ।
कुटिलाक्षः करङ्कादीनाजुहाव चमूपतीन् ॥ ३.२३.६ ॥

ते स्वामिनं नमस्कृत्य कुटिलाक्षेण देशिताः ।
अग्नौ प्रविष्णव इव क्रोधान्धा निर्ययुः पुरात् ॥ ३.२३.७ ॥

तेषां प्रयाणनिःसाणरणितं भृशदुःसहम् ।
आकर्ण्य दिग्गजास्तूर्णं शीर्णकर्णा जुघूर्णिरे ॥ ३.२३.८ ॥

शतमक्षौहिणीनां च प्राचलत्केतुमालकम् ।
उत्तरङ्गतुरङ्गादि बभौ मत्तमतङ्गजम् ॥ ३.२३.९ ॥

ह्रेषमाणहयाकीर्णं क्रन्दद्भटकुलोद्भवम् ।
बृंहमाणगजं गर्जद्रथयक्रं चचाल तत् ॥ ३.२३.१० ॥

चक्रनेमिहतक्षोणीरेणुक्षपितरोचिषा ।
बभूवे तुहिनासारच्छन्नेनेव विवस्वता ॥ ३.२३.११ ॥

धूलीमयमिवाशेषमभवद्विश्वमण्डलम् ।
क्वचिच्छब्दमयं चैव निःसाणकठिनस्वनैः ॥ ३.२३.१२ ॥

उद्भूतैर्धूलिकाजालैराक्रान्ता दैत्यसैनिकाः ।
इयत्तयातः सेनायाः सङ्ख्यापि परिभाविता ॥ ३.२३.१३ ॥

ध्वजा बहुविधाकारा मीनव्यालादिचित्रिताः ।
प्रचेलुर्धूलिकाजाले मत्स्या इव महोदधौ ॥ ३.२३.१४ ॥

तानापतत आलोक्य ललितासैनिकं प्रति ।
वित्रेसुरमराः सर्वे शक्तीनां भङ्गशङ्कया ॥ ३.२३.१५ ॥

ते करङ्कमुखाः पञ्च सेनापतय उद्धताः ।
सर्पिणीं नाम समरे मायां चक्रुर्महीयसीम् ॥ ३.२३.१६ ॥

तैः समुत्पतिता दुष्टा सर्पिणी रमशाम्बरी ।
धूम्रवर्णा च धूम्रोष्ठी धूम्रवर्मपयोधरा ॥ ३.२३.१७ ॥

महोदधिरिवात्यन्तं गम्भीरकुहरोदरी ।
पुरश्चचाल शक्तीनान्त्रासयन्ती मनो रणे ॥ ३.२३.१८ ॥

कद्रूरिवापरा दुष्टा बहुसर्पविभूषणा ।
सर्पाणामुद्भवस्थानं मायामयशरीरिणाम् ॥ ३.२३.१९ ॥

सेनापतीनां नासीरे वेल्लयन्तीमहीतले ।
वेल्लितं बहुधा चक्रे घोरारावविराविणी ॥ ३.२३.२० ॥

तथैव मायया पूर्वं तेऽसुरेद्रा व्यजीजयन् ।
करङ्काद्या दुरात्मानः पञ्चपञ्चत्त्वकामुकाः ॥ ३.२३.२१ ॥

अथ प्रववृते युद्धं शक्तीनाममरद्रुहाम् ।
अन्योन्यवीरभाषाभिः प्रोत्साहितघनक्रुधाम् ॥ ३.२३.२२ ॥

अत्यन्तसङ्कुलतया न विज्ञातपरस्पराः ।
शक्तयो दानवश्चैव प्रजहुः शस्त्रपाणयः ॥ ३.२३.२३ ॥

अन्योन्यशस्त्रसङ्घट्टसमुत्थितहुताशने ।
प्रवृत्तविशिखस्रोतःप्रच्छन्नहरिदन्तरे ॥ ३.२३.२४ ॥

बहुरक्तनदीपूरह्रियमाणमतङ्गजे ।
मांसकर्दमनिर्मग्ननिष्पन्दरथमण्डले ॥ ३.२३.२५ ॥

विकीर्णकेशशैवालविलसद्रक्तनिर्झरे ।
अतिनिष्ठुरविध्वंसि सिंहनादभयङ्करे ॥ ३.२३.२६ ॥

रजोऽन्धकारतु मुले राक्षसीतृप्तिदायिनि ।
शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि ॥ ३.२३.२७ ॥

प्रवृत्ते घोरसङ्ग्रामे शक्तीनां च सुरद्विषाम् ।
अथस्वबलमादाय पञ्चभिः प्रेरिता सती ।
सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः ॥ ३.२३.२८ ॥

तक्षकर्केटकसमा वासुकिप्रमुखत्विषः ।
नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः ॥ ३.२३.२९ ॥

नानाविधविषज्वालानिर्दग्धभुवनत्रयाः ।
दारदं वत्सनाभं च कालकूटमथापरम् ॥ ३.२३.३० ॥

सौराष्ट्रं च विषं घोरं ब्रह्मपुत्रमथापरम् ।
प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च ॥ ३.२३.३१ ॥

व्यालैः स्वकीयवदनैर्विलोलरसनाद्वयैः ।
विकिरन्तः शक्तिसैन्ये विसम्रुः सर्पिणीतनोः ॥ ३.२३.३२ ॥

धूम्रवर्णा द्विवदना सर्पा अतिभयङ्कराः ।
सर्पिण्या नयनद्वन्द्वा दुत्थिताः क्रोधदीपिताः ॥ ३.२३.३३ ॥

पीतवर्णास्त्रिफणका दंष्ट्राभिर्विकटाननाः ।
सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः ॥ ३.२३.३४ ॥

अग्रेपुच्छे च वदनं धारयन्तः फणान्वितम् ।
आस्यादा नीलवपुषः सर्पिण्याः फणिनोऽभवन् ॥ ३.२३.३५ ॥

अन्यैश्च बलवर्णाश्च चतुर्वक्त्राश्चतुष्पदाः ।
नासिकाविवरात्तस्या उद्गता उग्ररोचिषः ॥ ३.२३.३६ ॥

लम्बमानमहाचर्मावृत्तस्थूलपयोधरात् ।
नाभिकुण्डाच्च बहवो रक्तवर्णा भयानकाः ॥ ३.२३.३७ ॥

हलाहलं वहन्तश्च प्रोत्थिताः पन्नगाधिपाः ।
विदशन्तः शक्तिसेनां दहन्तो विषवह्निभिः ॥ ३.२३.३८ ॥

बध्नन्तो भोगपाशैश्च निघ्नन्तः फणमण्डलैः ।
अत्यन्तमाकुलां चक्रुर्ललितेशीचमूममी ॥ ३.२३.३९ ॥

खण्ड्यमाना अपि मुहुः शक्तीनां शस्त्रकोटिभिः ॥ ३.२३.४० ॥
विश्वास-प्रस्तुतिः
उपर्युपरि वर्धन्ते सपिण्डप्रविसर्पिणः ।
नश्यन्ति बहवः सर्पा जायन्ते चापरे पुनः ॥ ३.२३.४१ ॥

एकस्य नाशसमये बहवोऽन्ये समुत्थिताः ।
मूलभूता यतो दुष्टा सर्पिणी न विनश्यति ॥ ३.२३.४२ ॥

अतस्तत्कृतसर्पाणां नाशे सर्पान्तरोद्भवः ।
ततश्चशक्तिसैन्यानां शरीराणि विषानलैः ॥ ३.२३.४३ ॥

दह्यमानानि दुःखेन विप्लुतान्यभवन्रणे ।
किङ्कर्तव्यविमूढेषु शक्तिचक्रेषु भोगिभिः ॥ ३.२३.४४ ॥

पराक्रमं बहुविधं चक्रुस्ते पञ्च दानवाः ।
करीन्द्री गर्दभशतैर्युक्तं स्यन्दनमास्थितः ॥ ३.२३.४५ ॥

चक्रेण तीक्ष्णधारेण शक्तिसेनाममर्दयत् ।
वज्रदन्ताभिधश्चान्यो भण्डदैत्यचमूपतिः ॥ ३.२३.४६ ॥

वज्रबाणाभिघातेन होष्ट्रतो हि रणं व्यधात् ।
अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम् ॥ ३.२३.४७ ॥

आरुह्य कुन्तधाराभिः शक्तिचक्रममर्दयत् ।
वज्रदन्ताभिधानोऽन्यश्चमूनामधिपो बली ॥ ३.२३.४८ ॥

गृध्रयुग्मरथारूढः प्रजहार शिलीमुखैः ।
तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे ॥ ३.२३.४९ ॥

शतमक्षौहिणीनां च निपपातैकहेलया ।
सर्पिणी च दुराचारा बहुमायापरिग्रहा ॥ ३.२३.५० ॥

क्षणेक्षणे कोटिसङ्ख्यान्विससर्ज फणाधरान् ।
तथा विकलितं सैन्यमवलोक्य रुषाकुला ॥ ३.२३.५१ ॥

नकुली गरुडारूढा सा पपात रणाजिरे ।
प्रतप्तकनकप्रख्या ललितातालुसम्भवा ॥ ३.२३.५२ ॥

समस्तवाङ्मयाकारा दन्तैर्वज्रमयैर्युता ।
सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम् ॥ ३.२३.५३ ॥

तयाधिष्ठिततुङ्गांसः पक्षविक्षिप्तभूधरः ।
गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः ॥ ३.२३.५४ ॥

सर्पिणीमायया जातान्सर्पान्दृष्ट्वा भयानकान् ।
क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम् ॥ ३.२३.५५ ॥

अथ श्रीनकुलीदेव्या द्वात्रिंशद्दन्तकोटयः ।
द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः ॥ ३.२३.५६ ॥

इतस्ततः खण्डयन्तः सर्पिणीसर्पमण्डलम् ।
निजदंष्ट्राविमर्देन नाशयन्तश्च तद्विषम् ।
व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः ॥ ३.२३.५७ ॥

उत्कर्णाः क्रोध सम्पर्काद्धूनिताशेषलोमकाः ।
उत्फुल्ला नकुला व्यात्तवदना व्यदशन्नहीन् ॥ ३.२३.५८ ॥

एकैकमायासर्पस्य बभ्रुरेकैक उद्गतः ।
तीक्ष्णदन्तनिपातेन खण्डयामास विग्रहम् ॥ ३.२३.५९ ॥

भोगिभोगसृतै रक्तैः सृक्किणी शोणतां गते ।
लिहन्तो नकुला जिह्वापल्लवैः पुप्लुवुर्मृधे ॥ ३.२३.६० ॥

नकुलैर्दश्यमानानामत्यन्तचटुलं वपुः ।
मुहुः कुण्डलितैर्भोगैः पन्नगानां व्यचेष्टत ॥ ३.२३.६१ ॥

नकुलावलिदष्टानां नष्टासूनां फणाभृताम् ।
फणाभरसमुत्कीर्णा मणयो व्यरुचन्रणे ॥ ३.२३.६२ ॥

नकुलाघातसंशीर्णफणाचक्रैर्विनिर्गतैः ।
फणयस्तन्महाद्रोहवह्विज्वाला इवाबभुः ॥ ३.२३.६३ ॥

एवम्प्रकारतो बभ्रुमण्डलैरवखण्डिते ।
मायामये सर्पजाले सर्पिणी कोपमादधे ॥ ३.२३.६४ ॥

तया सह महद्युद्धं कृत्वा सा नकुलेश्वरी ।
गारुडास्त्रमतिक्रूरं समाधत्त शिलीमुखे ॥ ३.२३.६५ ॥

तद्गारुडास्त्रमुद्दामज्वालादीपितदिङ्मुखम् ।
प्रविश्य सर्पिणीदेहं सर्पमायां व्यशोषयत् ॥ ३.२३.६६ ॥

मायाशक्तोर्विनाशेन सर्पिणी विलयं गता ।
क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः ॥ ३.२३.६७ ॥

यद्बलेन सुरान्सर्वान्सेनान्यस्तेऽवमेनिरे ।
सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः ॥ ३.२३.६८ ॥

अतःस्वबलनाशेन भृशं क्रुद्धाश्चमूचराः ।
एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन् ॥ ३.२३.६९ ॥

एकैव सा तार्क्ष्यरथा पञ्चभिः पृतनेश्वरी ।
लघुहस्ततया युद्धे चक्रे वै शस्त्रवर्षिणी ॥ ३.२३.७० ॥

पट्टिशैर्मुसलैश्चैव भिन्दिपालैः सहस्रशः ।
वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु ॥ ३.२३.७१ ॥

ततो हाहारुतं घोरं कुर्वाणा दैत्यकिङ्कराः ।
उदग्रदंशनकुलैर्नकुलैराकुलीकृताः ॥ ३.२३.७२ ॥

उत्पत्य गगनात्केचिद्घोरचीत्कार कारिणः ।
देशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः ॥ ३.२३.७३ ॥

कर्णेषु दष्ट्वा नासायामन्ये दष्टाः शिरस्तटे ।
पृष्ठतो प्यदशन्केचिदा गत्य व्याकृतक्रियाः ॥ ३.२३.७४ ॥

विकलाश्छिन्नवर्माणो भयविस्रस्तशस्त्रिकाः ।
नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः ॥ ३.२३.७५ ॥

केचित्प्रविश्यनकुला व्यात्तान्यास्यानि वैरिणाम् ।
भोगिभोगानि वाकृष्य व्यदशन्रसनातलम् ॥ ३.२३.७६ ॥

अन्ये कर्णेषु नकुलाः प्राविशन्देववैरिणाम् ।
सूक्ष्मरूपा विशन्तिस्म नानारन्ध्राणि बभ्रवः ॥ ३.२३.७७ ॥

इति तैरभिभूतानि नकुलैरवलोकयन् ।
निजसैन्यानि दीनानि करङ्कः कोपमास्थितः ॥ ३.२३.७८ ॥

अन्येऽपि च चमूनाथा लघुहस्ता महाबलाः ॥ ३.२३.७९ ॥
विश्वास-प्रस्तुतिः
प्रतिबभ्रु शरस्तोमान्ववृषुर्वारिदा इव ।
दैत्यसैन्यपतिप्रौढ कोदडोत्थाः शिलीमुखाः ।
बभ्रूणां दन्तकोटीषु कठोरघट्टनं व्यधुः ॥ ३.२३.८० ॥

चमूपतिशख्यूहैराहतेभ्यः परःशतैः ।
बभ्रूणां वज्रदतेभ्यो निश्चक्राम हुताशनः ।
पञ्चापि ते चमूनाथविसृष्टैरेकहेलया ॥ ३.२३.८१ ॥

स्फुरत्फलैः शरकुलैर्बभ्रुसेनां व्यमर्दयत् ।
इतस्ततश्चमूनाथविक्षिप्तशरकोटिभिः ।
विशीर्णगात्रा नकुला नकुलीं पर्यवारयन् ॥ ३.२३.८२ ॥

अथ सा नकुली वाणी वाङ्मयस्यैकनायिका ।
नकुलानां परावृत्त्या महान्तं रोषमाश्रिता ॥ ३.२३.८३ ॥

अक्षीणनकुलं नाम महास्त्रं सर्वतोमुखम् ।
वह्निज्वालापरीताग्रं सन्दधे शार्ङ्गधन्वनि ॥ ३.२३.८४ ॥

तदस्त्रतो विनिष्ठ्यूता नकुलाः कोटिसङ्ख्याकाः ।
वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा ॥ ३.२३.८५ ॥

वज्रसाराश्च निबिडा वज्रजाल भयङ्करा ।
वज्राकारैर्नशैस्तूर्ण दारयन्तो महीतलम् ॥ ३.२३.८६ ॥

वज्ररत्नप्रकाशेन लोचनेनापि शोभिताः ।
वज्रसम्पातसदृशा नासाचीत्कार कारिणः ॥ ३.२३.८७ ॥

मर्दयन्ति सुरारातिसैन्यं दशनकोटिभिः ।
पराक्रमं बहुविधं तेनिरे ते निरेनसः ॥ ३.२३.८८ ॥

एवं नकुलकोटीभिर्वज्रघोरैर्महाबलैः ।
विनष्टाः प्रत्यवयवं विनेशुर्दानवाधमाः ॥ ३.२३.८९ ॥

एवं वज्रमयैर्बभुमण्डलैः शण्डिते बले ॥ ३.२३.९० ॥
विश्वास-प्रस्तुतिः
शताक्षौहिणिके सङ्ख्ये ते स्वमात्रावशेषिताः ।
अतित्रासेन रोषेण गृहीताश्च चमूवराः ।
सङ्ग्राममधिकं तेनुः समाकृष्टशरासनाः ॥ ३.२३.९१ ॥

तैः समं बहुधा युद्धं तन्वाना नकुलेश्वरी ।
पट्टिशेन करङ्कस्य चिच्छेद कठिनं शिरः ॥ ३.२३.९२ ॥

काकवाशितसुख्यानां चतुर्णामपि वैरिणाम् ।
उत्पत्योत्पत्य तार्क्ष्येण व्यलुनादसिना शिरः ॥ ३.२३.९३ ॥

तादृशं लाघवं दृष्ट्वा नकुल्या श्यामलाम्बिका ॥ ३.२३.९४ ॥
विश्वास-प्रस्तुतिः
बहु मेने महासत्त्वां दुष्टासुरविनाशिनीम् ।
निजाङ्गदेवतत्त्वं च तस्यै श्यामाम्बिका ददौ ॥ ३.२३.९५ ॥

लोकोत्तरे गुणे दृष्टे कस्य न प्रीतिसम्भवः ।
हतशिष्टा भीतभीता नकुलीशरणं गताः ॥ ३.२३.९६ ॥

सापि तान्वीक्ष्य कृपया मा भैष्टेति विहस्य च ।
भवद्राज्ञे रणोदन्तमशेषं च निबोधत ॥ ३.२३.९७ ॥

तयैवं प्रेषिताः शीघ्रं तदालोक्य रणक्षितिम् ।
मुदितास्ते पुनर्भीत्या शून्यकायां पलायिताः ॥ ३.२३.९८ ॥

तदुदन्तं ततः श्रुत्वा भण्डश्चण्डो रुषाभवत् ॥ ३.२३.९९ ॥
इति ब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने करङ्कादिपञ्चसेनापतिवधो नाम त्रयोविंशोऽध्यायः