विश्वास-प्रस्तुतिः
अथ श्रीललितासेनानिस्साणप्रतिनिस्वनः ।
उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः ॥ ३.२२.१ ॥
मूलम्

तेन मर्दितदिक्केन क्षुभ्यद्गर्भपयोधिना ।
बधिरीकृतलोकेन चकम्पे जगतां त्रयी ॥ ३.२२.२ ॥

मर्दयन्ककुभां वृन्दं भिन्दन्भूधरकन्दराः ।
पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः ॥ ३.२२.३ ॥

महानरहरिक्रुद्धहुङ्कारोद्धतिमद्ध्वनिः ।
विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी ॥ ३.२२.४ ॥

ततः किलकिलारावमुखरा दैत्यकोटयः ।
समनह्यन्त सङ्क्रुद्धाः प्रति तां परमेश्वरीम् ॥ ३.२२.५ ॥

कश्चिद्रत्नविचित्रेण वर्मणाच्छन्नविग्रहः ।
चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः ॥ ३.२२.६ ॥

कालरात्रिमिवोदग्रां शस्त्रकारेण गोपिताम् ।
अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम् ॥ ३.२२.७ ॥

उल्ला सयन्कराग्रेण कुन्तपल्लवमेकतः ।
आरूढतुरगो वीथ्यां चारिभेदं चकार ह ॥ ३.२२.८ ॥

केचिदारुरुहुर्योधा मातङ्गांस्तुङ्गवर्ष्मणः ।
उत्पात वातसम्पातप्रेरितानिव पर्वतान् ॥ ३.२२.९ ॥

पट्टिशैर्मुद्गरैश्चैव भिदुरैर्भिण्डिपालकैः ।
द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि ॥ ३.२२.१० ॥

गदाभिश्च शतघ्नीभिस्त्रिशिखैर्विशिखैरपि ।
अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः ॥ ३.२२.११ ॥

फणिशीर्षप्रभेदैश्च धनुर्भिः शार्ङ्गधन्विभिः ।
दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः ॥ ३.२२.१२ ॥

यवमध्यैर्मुष्टिमध्यैर्वललैः खण्डलैरपि ।
कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः ॥ ३.२२.१३ ॥

पाशायुधैः पाशतुण्डैः काकतुण्डैः सहस्रशः ।
एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः ॥ ३.२२.१४ ॥

परिकल्पितहस्ताग्रा वर्मिता दैत्यकोटयः ।
अश्वारोहा गजारोहा गर्दभारोहिणः परे ॥ ३.२२.१५ ॥

उष्ट्रारोहा वृकारोहा शुनकारोहिणः परे ।
काकादिरोहिणो गृध्रारोहाः कङ्कादिरोहिणः ॥ ३.२२.१६ ॥

व्याघ्रादिरोहिणश्चान्ये परे सिंहादिरोहिणः ।
शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे ॥ ३.२२.१७ ॥

सूकरारोहिणो व्यालारूढाः प्रेतादिरोहिणः ।
एवं नानाविधैर्वाहवाहिनो ललितां प्रति ॥ ३.२२.१८ ॥

प्रचेलुः प्रबलक्रोधसम्मूर्च्छितनिजाशयाः ।
कुटिलं सैन्यभर्त्तारं दुर्मदं नाम दानवम् ।
दशाक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति ॥ ३.२२.१९ ॥

दिधक्षुभिरिवाशेषं विश्वं सह बलोत्कटैः ।
भटैर्युक्तः स सेनानी ललिताभिमुखे ययौ ॥ ३.२२.२० ॥

भिन्दन्पटहसंरावैश्चतुर्दश जगन्ति सः ।
अट्टहासान्वितन्वानो दुर्मदस्तन्मुखो ययौ ॥ ३.२२.२१ ॥

अथ भण्डासुराज्ञप्तः कुटिलाक्षो महाबलः ।
शून्यकस्य पुरद्वारे प्रचीने समकल्पयत् ।
रक्षणार्थं दशाक्षौ हिण्युपेतं तालजङ्घकम् ॥ ३.२२.२२ ॥

अवाचीने पुरद्वारे दशाक्षौहिणिकायुतम् ।
नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयत् ॥ ३.२२.२३ ॥

प्रतीचीने पुरद्वारे दशाक्षौहिणिकायुतम् ।
तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत् ॥ ३.२२.२४ ॥

उत्तरे तु पुरद्वारे तालकेतुं महा बलम् ।
आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम् ॥ ३.२२.२५ ॥

पुरस्य सालवलये कपिशीर्षकवेश्मसु ।
मण्डलाकारतो वस्तुन्दशाक्षौहिणिमादिशत् ॥ ३.२२.२६ ॥

एवं पञ्चाशता कृत्वाक्षौहिण्या पुररक्षणम् ।
शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिनेऽवदत् ॥ ३.२२.२७ ॥

कुटिलाक्ष उवाच
देव त्वदाज्ञया दत्तं सैन्यं नगररक्षणे ।
दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति ॥ ३.२२.२८ ॥

अस्मत्किङ्कर मात्रेण सुनिराशा हि साबला ।
तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम् ॥ ३.२२.२९ ॥

इत्युक्त्वा भण्डदैत्येन्द्रं कुबिलाक्षोऽतिगर्वितः ।
स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः ॥ ३.२२.३० ॥

दूतस्तु प्रेषितः पूर्वं कुटिलाक्षेण दानवः ।
स ध्वनन्ध्वजिनीयुक्तो ललितासैन्य मावृणोत् ॥ ३.२२.३१ ॥

कृत्वा किलकिलारावं भटास्तत्र सहस्रशः ।
दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः ॥ ३.२२.३२ ॥

ताश्च शक्त्य उद्दण्डाः स्फुरिताट्टहसस्वनाः ।
देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः ॥ ३.२२.३३ ॥

शक्तीनां दानवानां च संशोभितजगत्त्रयः ।
समवर्तत सङ्ग्रामो धूलिग्रामतताम्बरः ॥ ३.२२.३४ ॥

रथवंशेषु मूर्च्छन्त्यः करिकण्ठैः प्रपञ्चिताः ।
अश्वनिःश्वासविक्षिप्ता धूलयः रवं प्रपेदिरे ॥ ३.२२.३५ ॥

तमापतन्तमालोक्य दशाक्षौहिणिकावृतम् ।
सम्पत्सरस्वती क्रोधादभिदुद्राव सङ्गरे ॥ ३.२२.३६ ॥

सम्पत्करीसमानाभिः शक्तिभिः समधिष्ठिताः ।
अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानत्रीं चमुम् ॥ ३.२२.३७ ॥

अन्योन्यतुमुले युद्धे जाते किलिकिलारवे ।
धूलीषु धूयमानासु ताड्यमानासु भेरिषु ॥ ३.२२.३८ ॥

इतस्ततः प्रववृधे रक्तसिन्धुर्महीयसी ।
शक्तिभिः पात्यमानानां दानवानां सहस्रशः ॥ ३.२२.३९ ॥

ध्वजानि लुठितान्यासन्विलूनानि शिलीमुखैः ।
विस्रस्ततत्तच्छिह्नानि समं छत्रकदम्बकैः ॥ ३.२२.४० ॥

रक्तारुणायां युद्धोर्व्यां पतितैश्छत्रमण्डलैः ।
आलम्बि तुलना सन्ध्यारक्ताभ्रहिमरोचिषा ॥ ३.२२.४१ ॥

ज्वालाकपालः कल्पाग्निरिव चारुपयोनिधौ ।
दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन् ॥ ३.२२.४२ ॥

शक्तिच्छन्दोज्ज्वलच्छस्त्रधारानिष्कृत्तकन्धराः ।
दानवानां रणतले निपेतुर्मुण्डराशयः ॥ ३.२२.४३ ॥

दष्टौष्ठैर्भ्रुकुटीक्रूरैः क्रोधसंरक्तलोचनैः ।
मुण्डैरखण्डमभवत्सङ्ग्रामधरणीतलम् ॥ ३.२२.४४ ॥

एवं प्रवृत्ते समये जगच्चक्रभयङ्करे ।
शक्तयो भृशसङ्क्रुद्धा दैत्यसेनाममर्दयन् ॥ ३.२२.४५ ॥

इतस्ततः शक्तिशस्त्रैस्ताडिता मूर्च्छिता इति ।
विनेशुर्दानवास्तत्र सम्पद्देवीबलाहताः ॥ ३.२२.४६ ॥

अथ भग्नं समाश्वास्य निजं बलमरिन्दमः ।
उष्ट्रमारुह्य सहसा दुर्मदोऽभ्यद्रवच्चमुम् ॥ ३.२२.४७ ॥

दीर्घग्रीवः समुन्नद्धः पृष्ठे निष्ठुरतोदनः ।
अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह ॥ ३.२२.४८ ॥

तमुष्ट्रवाहनं दुष्टमन्वीयुः क्रुद्धचेतसः ।
दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया ॥ ३.२२.४९ ॥

अवाकिरद्दिशो भल्लैरुल्लसत्फलशालिभिः ।
सम्पत्करीचमूचक्रं वनं वार्भिरिवाम्बुदः ॥ ३.२२.५० ॥

तेन दुःसहसत्त्वेन ताडिता बहुभिः शरैः ।
स्तम्भितेवाभवत्सेना सम्पत्कर्याः क्षणं रणे ॥ ३.२२.५१ ॥

अथ क्रोधारुणं चक्षुर्दधाना सम्पदम्बिका ।
रणकोलाहलगजमारूढायुध्यतामुना ॥ ३.२२.५२ ॥

आलोलकङ्कणक्वाणरमणीयतरः करः ।
तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे ॥ ३.२२.५३ ॥

लघुहस्ततयापश्यन्नाकृष्टन्न च मोक्षणम् ।
ददृशे घनुषश्चक्रं केवलं शरधारणे ॥ ३.२२.५४ ॥

आश्वर्काबरसम्पर्कस्फुटप्रतिफलत्फलाः ।
शराः सम्पत्करीचापच्युताः समदहन्नरीन् ॥ ३.२२.५५ ॥

दुर्मदस्याथ तस्याश्च समभूद्युद्धमुद्धतम् ।
अभूदन्योन्यसङ्घट्टाद्विस्फुलिङ्गशिलीमुखैः ॥ ३.२२.५६ ॥

प्रथमं प्रसृतैर्बाणैः सम्पद्देवीसुरद्विषोः ।
अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम् ॥ ३.२२.५७ ॥

तदन्तरे च बाणानामतिसङ्घट्टयोनयः ।
विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम् ॥ ३.२२.५८ ॥

तयाधिरूढः संश्रोण्यारणकोलाहलः करी ।
पराक्रमं बहुविधं दर्शयामास सङ्गरे ॥ ३.२२.५९ ॥

करेण कतिचिद्दैत्यान्पादघातेन कांश्चन ।
उदग्रदन्तमुसलघातैरन्यांश्च दानवान् ॥ ३.२२.६० ॥

वालकाण्डहतैरन्यान्फेत्कारैरपरान्रिपून् ।
गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान् ॥ ३.२२.६१ ॥

पृथुमानाभिघातेन कांश्चिद्दैत्यन्व्यमर्दयत् ।
चतुरं चरितं चक्रे सम्पद्देवीमतङ्गजः ॥ ३.२२.६२ ॥

सुदुर्मदः क्रुधा रक्तो दृढेनैकेन पत्रिणा ।
सम्पत्करीमुकुटगं मणिमेकमपाहरत् ॥ ३.२२.६३ ॥

अथ क्रोधारुणदृशा तया मुक्तैः शिलीमुखैः ।
विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ ॥ ३.२२.६४ ॥

ततः किलकिला रावं कृत्वा शक्तिचमूवरैः ।
तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः ॥ ३.२२.६५ ॥

हतावशिष्टा दैत्यास्तु शक्तिबाणैः खिलीकृताः ।
पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन् ॥ ३.२२.६६ ॥

तद्वृत्तान्तमथाकर्ण्य सङ्क्रुद्धो दानवेश्वरः ॥ ३.२२.६७ ॥
विश्वास-प्रस्तुतिः
प्रचण्डेन प्रभावेण दीप्यमान इवात्मनि ।
स पस्पर्श नियुद्धाय खड्गमुग्रविलोचनः ।
कुटिलाक्षं निकटगं बभाषे पृतनापतिम् ॥ ३.२२.६८ ॥

कथं सा दुष्टवनिता दुर्मदं बलशालिनम् ।
निपातितवती युद्धे कष्ट एव विधेः क्रमः ॥ ३.२२.६९ ॥

न सुरेषु न यक्षेषु नोरगेन्द्रेषु यद्बलम् ।
अभूत्प्रतिहतं सोऽपि दुर्मदोऽबलया हतः ॥ ३.२२.७० ॥

तां दुष्टवनितां जेतुमाक्रष्टुं च कचं हठात् ।
सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम् ॥ ३.२२.७१ ॥

एति सम्प्रोषितस्तेन कुटिलाक्षो महापलम् ।
कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः ॥ ३.२२.७२ ॥

स कुरण्डः समागत्य प्रणाम स्वामिनेऽदिशत् ।
उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान् ॥ ३.२२.७३ ॥

मायायां चतुरोऽसि त्वं चित्रयुद्धविशारद ।
कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय ॥ ३.२२.७४ ॥

इति स्वामिपुरस्तेन कुटिलाक्षेण देशितः ।
निर्जगाम पुरात्तूर्णं कुरण्डश्चण्डविक्रमः ॥ ३.२२.७५ ॥

विंशत्यक्षौहिणीभिश्च समन्तात्परिवारितः ।
मर्दयन्स महीगोलं हस्तिवाजिपदातिभिः ।
दुर्मदस्याग्रजश्चण्डः कुरण्डः समरं ययौ ॥ ३.२२.७६ ॥

दूलीभिस्तुमुलीकुर्वन्दिगन्तं धीरमानसः ।
शोकरोषग्रहग्रस्तो जवनाश्वगतो ययौ ॥ ३.२२.७७ ॥

शार्ङ्गं धनुः समादाय घोरटङ्कारमुत्स्वनम् ।
ववर्ष शरधारभिः सम्पत्कर्या महाचमूम् ॥ ३.२२.७८ ॥

पापे मदनुजं हत्वा दुर्मदं युद्धदुर्मदम् ।
वृथा वहसि विक्रान्तिलवलेशं महामदम् ॥ ३.२२.७९ ॥

इदानीं चैव भवतीमेतैर्नाराचमण्डलैः ।
अन्तकस्य पुरीमत्र प्रापयिष्यामि पश्य माम् ॥ ३.२२.८० ॥

अतिहृद्यमतिस्वादु त्वद्वपुर्बिलनिर्गतम् ।
अपूर्वमङ्गनारक्तं पिबन्तु रणपूतनाः ॥ ३.२२.८१ ॥

ममानुजवधोत्थस्य प्रत्यवायस्य तत्फलम् ।
अधुना भोक्ष्यसे दुष्टे पश्य मे भुजयोर्बलम् ॥ ३.२२.८२ ॥

इति सन्तर्जयन्सम्पत्करीं करिवरस्थिताम् ।
सैन्यं प्रोत्साहयामास शक्तिसेनाविमर्दने ॥ ३.२२.८३ ॥

अथ तां पृतनां चण्डी कुरण्डस्य महौजसः ।
विमर्दयितुमुद्युक्ता स्वसैन्यं प्रोदसीसहत् ॥ ३.२२.८४ ॥

अपुर्वाहवसञ्जातकौतुकाथ जगाद ताम् ।
अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः ॥ ३.२२.८५ ॥

सखि सम्पत्करि प्रीत्या मम वाणी निशम्यतम् ।
अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरम् ॥ ३.२२.८६ ॥

क्षणं सहस्व समरे मयैवैष नियोत्स्यते ।
याचितासि सखित्वेन नात्र संशयमाचर ॥ ३.२२.८७ ॥

इति तस्या वचः श्रुत्वा सम्पद्देव्या शुचिस्मिता ।
निवर्तयामास चमूङ्कुरुण्डाभिमुखोत्थिताम् ॥ ३.२२.८८ ॥

अथ बालार्कवर्णाभिः शक्तिभिः समधिष्ठिताः ।
तरङ्गा इव सैन्याब्धेस्तुरङ्गा वातरंहसः ॥ ३.२२.८९ ॥

खरैः खुरपुटैः क्षोणीमुल्लिखन्तो मुहुर्मुहुः ।
पेतुरेकप्रवाहेण कुरण्डस्य चमूमुखे ॥ ३.२२.९० ॥

वल्गाविभागकृत्येषु संवर्तनविवर्तने ।
घतिभेदेषु चारेषु पञ्चधा खुरपातने ॥ ३.२२.९१ ॥

प्रोत्साहने च सञ्ज्ञाभिः करपादाग्रयोनिभिः ।
चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे ॥ ३.२२.९२ ॥

अश्वारूढाम्बिकासैन्यशक्तिभिः सह दानवाः ।
प्रोत्साहिताः कुरण्डेन समयुध्यन्त दुर्मदाः ॥ ३.२२.९३ ॥

एवं प्रवृत्ते समरे शक्तीनां च सुरद्विषाम् ।
अपराजितनामानं हयमारुह्य वेगिनम् ।
अभ्यद्रवद्दुराचारमश्वारूढाः कुरण्डकम् ॥ ३.२२.९४ ॥

प्रचलद्वेणिसुभगा शरच्चन्द्रकलोज्ज्वला ।
सन्ध्यानुरक्तशीतांशुमण्डलीसुन्दरानना ॥ ३.२२.९५ ॥

स्मयमानेव समरे गृहीतमणिकार्मुका ।
अवाकिरच्छरासारैः कुरण्डं तुरगानना ॥ ३.२२.९६ ॥

तुरगारूढयोत्क्षिप्ताः समाक्रामन्दिगन्तरान् ।
दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः ॥ ३.२२.९७ ॥

दुर्मदस्याग्रजः क्रुद्धः कुरण्डश्चण्डविक्रमः ।
विशिखैः शार्ङ्गनिष्ठ्यूतैरश्वारूढा मवाकिरत् ॥ ३.२२.९८ ॥

चण्डैः खुरपुटैः सैन्यं खण्डयन्नतिवेगतः ।
अश्वारूढातुरङ्गोऽपि मर्दयामास दानवान् ॥ ३.२२.९९ ॥

तस्या हेषारवाद्दूरमुत्पाताम्बुधिनिःस्वनः ।
अमूर्च्छयन्ननेकानि तस्यानीतानि वैरिणः ॥ ३.२२.१०० ॥

इतस्ततः प्रचलितैर्दैत्यचक्रे हयासना ।
निजं पाशायुधं दिव्यं मुमोच ज्वलिताकृति ॥ ३.२२.१०१ ॥

तस्मात्पाशात्कोटिशोऽन्ये पाशा भुजगभीषणाः ।
समस्तमपि तत्सैन्यं बद्ध्वाबद्ध्वा व्यमूर्छयन् ॥ ३.२२.१०२ ॥

थ सैनिकबन्धेन क्रुद्धः स च कुरण्डकः ।
सरेणैकेन चिच्छेद तस्या मणिधनुर्गुणम् ॥ ३.२२.१०३ ॥

छिन्नमौर्वि धनुस्त्यक्त्वा भृशङ्क्रुद्धा हयासना ।
अङ्कुशं पातयामास तस्य वक्षसि दुर्मतेः ॥ ३.२२.१०४ ॥

तेनाङ्कुशेन ज्वलता पीतजीवितशोणितः ।
कुरण्डो न्यपतद्भूमौ वज्ररुग्ण इव द्रुमः ॥ ३.२२.१०५ ॥

तदङ्कुशविनिष्ठ्यूताः पुतनाः काश्चिदुद्भटाः ।
तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गताः ॥ ३.२२.१०६ ॥

इत्थं कुरुण्डे निहते विंशत्यक्षौहिणीपतौ ।
हतावशिष्टास्ते दैत्याः प्रपलायन्त वै द्रुतम् ॥ ३.२२.१०७ ॥

कुरण्डं सानुजं युद्धे शक्तिसैन्यैर्निपातितम् ।
श्रुत्वा शून्यकनाथोऽपि निशश्वास भुजङ्गवत् ॥ ३.२२.१०८ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दुर्मदकुरण्डवधो नाम द्वाविंशोऽध्यायः