विश्वास-प्रस्तुतिः
अगस्त्य उवाच
चक्रराजरथेन्द्रस्य याःपर्वणि समाश्रिताः ।
देवता प्रकटाभिख्यास्तासामाख्यां निवेदय ॥ ३.१९.१ ॥
मूलम्

सङ्ख्याश्च तासामखिला वर्णभेदांश्च शोभनान् ।
आयुधानि च दिव्यानि कथयस्व हयानन ॥ ३.१९.२ ॥

हयग्रीव उवाच
नवमं पर्व दीप्तस्य रथस्य समुपस्थिताः ।
तश प्रोक्ता सिद्धिदेव्यस्तासां नामानि मच्छृणु ॥ ३.१९.३ ॥

अणिमा महिमाचैव लघिमा गरिमा तथा ।
ईशिता वशिता चैव प्राप्तिः सिद्धिश्च सप्तमी ॥ ३.१९.४ ॥

प्राकाम्यमुक्तिसिद्धिश्च सर्वकामाभिधापरा ।
एतादेव्यश्चतुर्बाह्व्यो जपाकुसुमसन्निभाः ॥ ३.१९.५ ॥

चिन्तामणिकपालं च त्रिशूलं सिद्धिकज्जलम् ।
दधाना दयया पूर्णा योगिभिश्च निषेविताः ॥ ३.१९.६ ॥

तत्र पूर्वार्द्धभागे च ब्रह्माद्या अष्ट शक्तयः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्मवी तथा ।
वाराही चैव मांहेन्द्री चामुण्डा चैव सप्तमी ॥ ३.१९.७ ॥

महालक्ष्मीरष्टमी च द्विभुजाः शोणविग्रहाः ।
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ ३.१९.८ ॥

अथ वान्य प्रकारेण केचिद्ध्यानं पचक्षते ।
ब्रह्मादिसदृशाकारा ब्रह्मादिसदृशायुधाः ॥ ३.१९.९ ॥

ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ।
तासामूर्ध्वस्थानगतां मुद्रा देव्यो महत्तराः ॥ ३.१९.१० ॥

मुद्राविरचनायुक्तैर्हस्तैः कमलकान्तिभिः ।
दाडिमीपुष्पसङ्काशाः पीताम्बरमनोहराः ॥ ३.१९.११ ॥

चतुर्भुजा भुजद्वन्द्वधृतचर्मकृपाणकाः ।
मदरक्तविलोलाक्ष्यस्तासां नामानि मच्छृणु ॥ ३.१९.१२ ॥

सर्वसङ्क्षोभिणी चैव सर्वविद्राविणी तथा ।
सर्वाकर्षणकृन्मुद्रा तथा सर्ववशङ्करी ॥ ३.१९.१३ ॥

सर्वोन्मादनमुद्रा च यष्टिः सर्वमहाङ्कुशा ।
सर्वखेचरिका मुद्रा सर्वबीजा तथापरा ॥ ३.१९.१४ ॥

सर्वयोनिश्च नवमी तथा सर्वत्रिशण्डिका ।
सिद्धिब्राहयादिमुद्रास्ता एताः प्रकटशक्तयः ॥ ३.१९.१५ ॥

भण्डासुरस्य संहारं कर्तुं रक्तरथे स्थिताः ।
या गुप्ताख्याः पूर्वमुक्तास्तासां नामानि मच्छृणु ॥ ३.१९.१६ ॥

कामाकर्षणिका चैव बुद्ध्याकर्षणिका कला ।
अहङ्काराकर्षिणी च शब्दाकर्षणिका कला ॥ ३.१९.१७ ॥

स्पर्शाकर्षणिका नित्या रूपाकर्षणिका कला ।
रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ३.१९.१८ ॥

चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला ।
स्मृत्या कर्षणिका नित्या नामाकर्णणिका कला ॥ ३.१९.१९ ॥

बीजाकर्षणिका नित्या चात्मकर्षणिका कला ।
अमृताकर्षणी नित्या शरीराकर्षिणी कला ॥ ३.१९.२० ॥

एताः षोडश शीतांशुकलारूपाश्च शक्तयः ।
अष्टमं पर्व सम्प्राप्ता गुप्ता नाम्ना प्रकीर्तिताः ॥ ३.१९.२१ ॥

विद्रुमद्रुमसङ्काशा मन्दस्मित मनोहराः ।
चतुर्भुजास्त्रिनेत्राश्च चन्द्रार्कमुकुजोज्ज्वलाः ॥ ३.१९.२२ ॥

चापबाणौ चर्मखड्गौ दधाना दिव्यकान्तयः ।
भण्डासुरवधार्थाय प्रवृत्ताः कुम्भसम्भव ॥ ३.१९.२३ ॥

सायन्तनज्वलद्दीपप्रख्यचक्ररथस्य तु ।
सप्तमे पर्वणि कृतावासा गुप्ततराभिधाः ॥ ३.१९.२४ ॥

अनङ्गमदनानङ्गमदनातुरया सह ।
अनङ्गलेखा चानङ्गवेगानङ्गाङ्कुशापि च ॥ ३.१९.२५ ॥

अनङ्गमालिग्यपरा एता देव्यो जपात्विषः ।
इक्षुचापं पुष्पशरान्पुष्पकन्दुकमुत्पलम् ॥ ३.१९.२६ ॥

बिभ्रत्योऽदभ्रविक्रान्तिशालिन्यो ललिताज्ञया ।
भण्डासुरमभिक्रुद्धाः प्रज्वलन्त्य इव स्थिताः ॥ ३.१९.२७ ॥

अथ चक्ररथेन्द्रस्य षष्ठं पर्व समाश्रिताः ।
सर्वसङ्क्षोभिणीमुख्याः सम्प्रदायाख्यया युताः ॥ ३.१९.२८ ॥

वेणीकृतकचस्तोमाः सिन्दूरतिलकोज्ज्वलाः ।
अतितीव्रस्वभावाश्च कालानलसमत्विषः ॥ ३.१९.२९ ॥

वह्निबाणं वह्निचापं वह्निरूपमसिं तथा ।
वह्निचक्राख्याफलकं दधाना दीप्तविग्रहाः ॥ ३.१९.३० ॥

असुरेन्द्रं प्रति क्रुद्धाः कामभस्मसमुद्भवाः ।
आज्ञाशक्तय एवैता ललिताया महौजसः ॥ ३.१९.३१ ॥
मूलम्
असुरेन्द्रं प्रति क्रुद्धाः कामभस्मसमुद्भवाः ।
आज्ञाशक्तय एवैता ललिताया महौजसः ॥ ३.१९.३१ ॥
विश्वास-प्रस्तुतिः
सर्वसङ्क्षोभिणी चैव सर्वविद्राविणी तथा ।
सर्वाकर्षणिका शक्तिः सर्वाह्लादिनिका तथा ॥ ३.१९.३२ ॥

सर्वसम्मोहिनीशक्तिः सर्वस्तम्भनशक्तिका ।
सर्वजृम्भणशक्तिश्च सर्वोन्मादनशक्तिका ॥ ३.१९.३३ ॥

सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिपूरणी ।
सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ३.१९.३४ ॥

एवं तु सम्प्रदायानां नामानि कथितानि वै ।
अथ पञ्चमपर्वस्थाः कुलोत्तीर्णा इति स्मृताः ॥ ३.१९.३५ ॥

ताश्च सप्तटिकसङ्काशाः परशुं पाशमेव च ।
गदां घण्टां मणिं चैव दधाना दीप्तविग्रहाः ॥ ३.१९.३६ ॥

देवद्विषमति क्रुद्धा भ्रुकुटीकुटिलाननाः ।
एतासामपि नामानि समाकर्मय कुम्भज ॥ ३.१९.३७ ॥

सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा ।
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३.१९.३८ ॥

सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ॥ ३.१९.३९ ॥
विश्वास-प्रस्तुतिः
सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ३.१९.४० ॥

दशैन्ताः कथिता देव्यो दयया पूरिताशयाः ।
चक्रे तुरीयपर्वस्था मुक्ताहारसमत्विषः ॥ ३.१९.४१ ॥

निगर्भयोगिनीनाम्ना प्रथिता दश कीर्तिताः ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ ३.१९.४२ ॥

सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ३.१९.४३ ॥

सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ।
दशमी देवताज्ञेया सर्वेष्सितफलप्रदा ॥ ३.१९.४४ ॥

एताश्चतुर्भुजा ज्ञेया वज्रं शक्तिं च तोमरम् ।
चक्रं चैवाभिबिभ्राणा भण्डासुरवधोद्यताः ॥ ३.१९.४५ ॥

अथ चक्ररथेन्द्रस्य तृतीयं पर्वसंश्रिताः ।
रहस्ययोगिनीनाम्ना प्रख्याता वागधीश्वराः ॥ ३.१९.४६ ॥

रक्ताशोकप्रसूनाभाबाणकार्मुकपाणयः ।
कवचच्छन्नसर्वाङ्गयो वीणापुस्तकशोभिताः ॥ ३.१९.४७ ॥

वशिनी चैव कामेशी भोगिनी विमला तथा ।
अरुणाच जविन्याख्या सर्वेशी कौलिनी तथा ॥ ३.१९.४८ ॥

अष्टावेताः स्मृता देव्यो दैत्यसंहारहेतवः ।
अथ चक्ररथेन्द्रस्य द्वितीयं पर्वसंश्रिताः ॥ ३.१९.४९ ॥

चापबाणौ पानपात्रं मातुरुङ्गं कृपाणिकाम् ।
तिस्रस्त्रिपीठनिलया अष्टबाहुसमन्विताः ॥ ३.१९.५० ॥

पलकं नागपाशं च घण्टां चैव महाध्वनिम् ।
विभ्राणा मदिरामत्ता अतिगुप्तरहस्यकाः ॥ ३.१९.५१ ॥

कामेशी चैव वज्रेशी भगमालिन्यथापरा ।
तिस्र एताः स्मृता देव्यो भण्डे कोपसमन्विताः ॥ ३.१९.५२ ॥

ललितासममाहात्म्या ललितासमतेजसः ।
एतास्तु नित्यं श्रीदेव्या अन्तरङ्गाः प्रकीर्तिताः ॥ ३.१९.५३ ॥

अथानन्दमहापीठे रथमध्यमपर्वणि ।
परितो रचितावासाः प्रोक्ताः पञ्चदशाक्षराः ॥ ३.१९.५४ ॥

तिथिनित्याः कालरूपा विश्वं व्याप्यैव संस्थिताः ।
भण्डासुरादिदैत्येषु प्रक्षुब्धभ्रुकुटीतटाः ॥ ३.१९.५५ ॥

देवीसमनिजाकारा देवीसमनिजायुधाः ।
जगतामुपकाराय वर्तमाना युगेयुगे ॥ ३.१९.५६ ॥

तासां नामानि मत्तस्त्वमवधारयकुम्भज ।
कामेशी भगमाला च नित्यक्लिन्ना तथैव च ॥ ३.१९.५७ ॥

भेरुण्डा वह्निवासिन्यो महावज्रेश्वरी तथा ।
दती च त्वरिता देवी नवमी कुलसुन्दरी ॥ ३.१९.५८ ॥

नित्या नीलपताका च विजया सर्वमङ्गला ।
ज्वालामालिनिकाचित्रे दश पञ्च च कीर्तिताः ॥ ३.१९.५९ ॥

एताभिः सहिता देवी सदा सेवैकबुद्धिभिः ।
दुष्टं भण्डासुरं जेतुं निर्ययौ परमेश्वरी ॥ ३.१९.६० ॥

मन्त्रिनाथा महाचक्रे गीतिं चक्रे रथोत्तमे ।
सप्तपर्वाणि चोक्तानि तत्र देव्याश्च ताः शृणु ॥ ३.१९.६१ ॥

गेयचक्ररथे पर्वमध्यपीढनिकेतना ।
सङ्गीतयोगिनी प्रोक्ता श्रीदेव्या अतिवल्लभा ॥ ३.१९.६२ ॥

तदेव प्रथमं पर्व मन्त्रिण्यास्तु निवासभूः ।
अथ द्वितीयपर्वस्था गेयचक्रे रथोत्तमे ॥ ३.१९.६३ ॥

रतिः प्रीतिर्मनोजा च वीणाकार्मुकपाणयः ।
तमालश्यामलाकारा दानवोन्मूलनक्षमाः ॥ ३.१९.६४ ॥

तृतीयपर्वसंरूढा मनोभूबाणदेवता ।
द्राविणी शोषिणी चैव बन्धिनी मोहिनी तथा ॥ ३.१९.६५ ॥

उन्मादिनीति पञ्चैता दीप्तकार्मुकपाणयः ।
तत्र पर्वण्यधस्तात्तु वर्तमाना महौजसः ॥ ३.१९.६६ ॥

कामराजश्च कन्दर्पौं मन्मथो मकरध्वजः ।
मनोभवः पञ्चमः स्यादेते त्रैलोक्यमोहनाः ॥ ३.१९.६७ ॥

कस्तूरीतिलकोल्लासिभालामुक्ताविराजिताः ।
कवचच्छन्नसर्वाङ्गाः पलाशप्रसवत्विषः ॥ ३.१९.६८ ॥

पञ्चकामा इमे प्रोक्ता भण्डासुरवधार्थिनः ।
जेयचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ३.१९.६९ ॥

ब्रह्मीमुख्यास्तु पूर्वोक्ताश्चण्डिका त्वष्टमी परा ।
तत्र पर्वण्यधस्ताच्च लक्ष्मीश्चैव सरस्वती ॥ ३.१९.७० ॥

रतिः प्रीतिः कीर्तिशान्ती पुष्टिस्तुष्टिश्च शक्तयः ।
एताश्चक्रोधरक्ताक्ष्यो दैत्यं हन्तुं महाबलम् ॥ ३.१९.७१ ॥

कुन्तचक्रधराः प्रोक्ताः कुमार्यः कुम्भसम्भव ।
पञ्चमं पर्व सम्प्राप्ता वामाद्याः षोडशापराः ॥ ३.१९.७२ ॥

गीतिं चक्रू रथेन्द्रस्य तासां नामानि मच्छृणु ।
वामा ज्येष्टा च रौद्री च शान्तिः श्रद्धा सरस्वती ॥ ३.१९.७३ ॥

श्रीभूशाक्तिश्च लक्ष्मीश्च सृष्टिश्चैव तु मोहिनी ।
तथा प्रमाथिनी चाश्वसिनी वीचिस्तथैव च ॥ ३.१९.७४ ॥

विद्युन्मालिन्यथ सुरानन्दाथो नागबुद्धिका ।
एतास्तु कुरविन्दाभा जगत्क्षोभणलम्पटाः ॥ ३.१९.७५ ॥

महासरसमन्नाहमादधानाः पदेपदे ।
वज्रकङ्कटसञ्छन्ना अट्टहासोज्ज्वलाः परे ।
वज्रदण्डौ शतघ्नीं च सम्बिभ्राणा भुशुण्डिकाः ॥ ३.१९.७६ ॥

अथ गीतिरथेन्द्रस्य षष्ठं पर्व समाश्रिताः ।
असिताङ्गप्रभृतयो भैरवाः शस्त्रभीषणाः ॥ ३.१९.७७ ॥

त्रिशिखं पानपात्रं च बिभ्राणा नीलवर्चसः ।
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ ३.१९.७८ ॥

कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ।
अथ गीतिरथेन्द्रस्य सप्तमं पर्व संश्रिताः ॥ ३.१९.७९ ॥

मातङ्गी सिद्धलक्ष्मीश्च महामातङ्गिकापि च ।
महती सिद्धलक्ष्मीश्च शोणा बाणधनुर्धराः ॥ ३.१९.८० ॥

तस्यैव पर्वणोऽधस्ताद्गणपः क्षेत्रपस्तथा ।
दुर्गाम्बा बटुकश्चेंव सर्वे ते शस्त्रपाणयः ॥ ३.१९.८१ ॥

तत्रैव पर्वणोऽधस्ताल्लक्ष्मीश्चैव सरस्वती ।
शङ्खः पद्मो निधिश्चैव ते सर्वे शस्त्रपाणयः ॥ ३.१९.८२ ॥

लोकद्विषं प्रति क्रुद्धा भण्डं चण्डपराक्रमम् ।
शक्रादयश्च विष्म्वन्ता दश दिक्चक्रनायकाः ॥ ३.१९.८३ ॥

शक्तिरूपास्तत्र पर्वण्यधस्तात्कृतसंश्रयाः ।
वज्रे शक्तिं कालदण्डमकिं पाशं ध्वजं तथा ॥ ३.१९.८४ ॥

गदां त्रिशूलं दर्भास्त्रं वज्रं च दधतस्त्वमी ।
सेवन्ते मन्त्रिनाथां तां नित्यं भक्तिसमन्विताः ॥ ३.१९.८५ ॥

भण्डासुरान्दुर्दुरूढान्निहन्तुं विश्वकण्टकान् ।
मन्त्रिनाथाश्रयद्वारा ललिताज्ञापनोत्सुकाः ॥ ३.१९.८६ ॥

गीतिचक्ररथोपान्ते दिक्पालाः संश्रयं ददुः ।
सर्वेषां चैव देवानां मन्त्रिणी द्वारतः कृता ॥ ३.१९.८७ ॥

विज्ञापना महादेव्याः कार्यसिद्धिं प्रयच्छति ।
राक्षी विज्ञापना चेति प्रधानद्वारतः कृता ॥ ३.१९.८८ ॥

यथा खलु फलप्राप्तिः सेवकानां हि जायते ।
अन्यथा कथमेतेषां सामर्थ्यं ज्वलितौजसः ॥ ३.१९.८९ ॥

अपधृष्यप्रभावायाः श्रीदेव्या उपसर्पणे ।
सा हि सङ्गीतविद्येति श्रीदेव्या अतिवल्लभा ॥ ३.१९.९० ॥

नातिलङ्घति च क्वापि तदुक्तं कार्यसिद्धिषु ।
श्रीदेव्याःशक्तिसाम्राज्ये सर्वकर्माणि मन्त्रिणी ॥ ३.१९.९१ ॥

अकर्त्तुमन्यथा कर्तुं कर्तुं चैव प्रगल्भते ।
तस्मात्सर्वेऽपि दिक्पालाः श्रीदेव्या जयकाङ्क्षिणः ।
तस्याः प्रधानभूतायाः सेवामेव वितन्वते ॥ ३.१९.९२ ॥

इति श्रीललितादेव्याश्चक्रराजरथोत्तमे ।
पर्वस्थितानां देवीनां नामानि कथितान्यलम् ॥ ३.१९.९३ ॥

भण्डासुरस्य संहारे तस्या दिव्यायुधान्यपि ।
प्रोक्तानि गेयचक्रस्य पर्वदेव्याश्च कीर्तिताः ॥ ३.१९.९४ ॥

इमानि सर्वदेवीनां नामान्याकर्णयन्ति ये ।
सर्वपापविनिर्मुक्तास्ते स्युर्विजयिनो नराः ॥ ३.१९.९५ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने श्रीचक्रराजरथज्ञेयचक्ररथपर्वस्थदेवतानामप्रकाशनं नामैकोनविंशोऽध्यायः