विश्वास-प्रस्तुतिः
अथ राजनायिका श्रिताज्वलिताङ्कुशा फणिसमानपाशभृत् ।
कलनिक्वणद्वलयमैक्ष्वं धनुर्दधती प्रदीप्तकुसुमेषुपञ्चका ॥ ३.१८.१ ॥
मूलम्

उदयत्सहत्स्रमहसा सहस्रतोऽप्यतिपाटलं निजवपुः प्रभाझरम् ।
किरती दिशासु वदनस्य कान्तिभिः सृजतीव चन्द्रमयमभ्रमण्डलम् ॥ ३.१८.२ ॥

दशयोजनायतिमाता जगत्त्रयीमभिवृण्वता विशदमौक्तिकात्मना ।
धवलातपत्रवलयेन भासुरा शशिमण्डलस्य सखितामुपेयुषा ॥ ३.१८.३ ॥

अभिवीजिता च मणिकान्तशोभिना विजयादिमुख्यपरिचारिकागणैः ।
नवचन्द्रिकालहरिकान्तिकन्दलीचतुरेण चामरचतुष्टयेन च ॥ ३.१८.४ ॥

शक्त्यैकराज्यपदवीमभिसूचयन्ती साम्राज्यचिह्नशतमण्डितसैन्यदेशा ।
सङ्गीतवाद्यरचनाभिरथामरीणां संस्तूयमानविभवा विशदप्रकाशा ॥ ३.१८.५ ॥

वाचामगोचरमगोचरमेव बुद्धेरीदृक्तया न कलनीयमनन्यतुल्यम् ॥ ३.१८.६ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यगर्भपरिपूरितशक्तिचक्रसाम्राज्यसम्पदभिमानमभिस्पृशन्ती ।
आबद्धभक्तिविपुलाञ्जलिशेखराणामारादहम्प्रथमिका कृतसेवनानाम् ॥ ३.१८.७ ॥

ब्रह्मेशविष्णुवृषमुख्यसुरोत्तमानां वक्त्राणिवर्षितनुतीनि कटाक्षयन्ती ।
उद्दीप्तपुष्पशरपञ्चकतः समुत्थैज्योतिर्मयं त्रिभुवनं सहसा दधाना ॥ ३.१८.८ ॥

विद्युत्समद्युतिभिरप्सरसां समूहैर्विक्षिप्यमाणजयमङ्गललाजवर्षा ।
कामेश्वरीप्रभृतिभिः कमनीयभाभिः सङ्ग्रामवेषरचनासुमनोहराभिः ॥ ३.१८.९ ॥

दीप्तायुधद्युतितिरस्कृत भास्कराभिर्नित्याभिरङ्घ्रिसविधे समुपाक्यमाना ।
श्रीचक्रनामतिलकं दशयोजनातितुङ्गध्वजोल्लिखितमेघकदम्बमुच्चैः ॥ ३.१८.१० ॥

तीव्राभिरावणसुशक्तिपरम्परभिर्युक्तं रथं समरकर्मणि चालयन्ती ।
प्रोद्यत्पिशङ्गरुचिभागमलांशुकेन वीतामनोहररुचिस्समरे व्यभासीत् ॥ ३.१८.११ ॥

पञ्चाधिकैर्विशतिनामरत्नैः प्रपञ्चपापप्रशमातिदक्षैः ।
संस्तूयमाना ललिता मरुद्भिः सङ्ग्राममुद्दिश्य समुच्चचाल ॥ ३.१८.१२ ॥

अगस्त्य उवाच
वीजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः ।
ललितापरमेशान्या देहि कर्णरसायनम् ॥ ३.१८.१३ ॥

हयग्रीव उवाच
सिंहासना श्रीललिता महाराज्ञी पराङ्कुशा ।
चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ ३.१८.१४ ॥

सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा ।
चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३.१८.१५ ॥

कामराजप्रिया कामकोटिगा चक्रवर्तिनी ।
महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ३.१८.१६ ॥

कुलनाथाम्नायनाथा सर्वाम्नायनिवासिनी ।
शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ३.१८.१७ ॥

स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् ।
ते प्राप्नुवन्ति सौभाग्यमष्टौ सिद्धीर्महद्यशः ॥ ३.१८.१८ ॥

इत्थं प्रचण्डसंरम्भं चालयन्ती महद्बलम् ।
भण्डासुरं प्रति क्रुद्धा चचाल ललिताम्बिका ॥ ३.१८.१९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितापरमेश्वरीसेनाजय यात्रा नामाष्टादशोऽध्यायः