विश्वास-प्रस्तुतिः
दण्डनाथाविनिर्याणे सङ्ख्यातीतैः सितप्रभैः ।
छत्रैर्गगनमारेजे निःसङ्ख्याशशिमण्डितम् ॥ ३.१७.१ ॥
मूलम्

अन्योन्यसक्तैर्थवलच्छत्रैरन्तर्घनीभवत् ।
तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा ॥ ३.१७.२ ॥

वज्रप्रभाधगधगच्छायापूरितदिङ्मुखाः ।
तालवृन्ताः शतविधाः क्रोडमुख्या बलेऽचलन् ॥ ३.१७.३ ॥

चण्डो दण्डादयस्तीव्राभैरवाः शुलपाणयः ।
ज्वलत्केशापिशङ्गाभास्तडिद्भासुरदिङ्मुखाः ॥ ३.१७.४ ॥

दहत्य इव दैत्यौघांस्तीक्ष्णैर्मार्गणवह्निभिः ।
प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः ॥ ३.१७.५ ॥

अथ पोत्रीमुखीदेवीसमानाकृतिभूषणाः ।
तत्समानायुधकरास्तत्समानस्ववाहनाः ॥ ३.१७.६ ॥

तीक्ष्मदंष्ट३ इनिष्ठ्यूतवह्रिधूमामिताम्बराः ।
तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः ॥ ३.१७.७ ॥

सहस्रमहिषारूढाः प्रचेलुः सूकराननाः ।
अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात् ॥ ३.१७.८ ॥

अवरुह्य महासिंहमारुरोह स्ववाहनम् ।
वज्रघोष इति ख्यातं धूतकेसरमण्डलम् ॥ ३.१७.९ ॥

व्यक्तास्यं विकटाकारं विशङ्कटविलोचनम् ।
दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम् ॥ ३.१७.१० ॥

आदिकूर्मकठोरास्थि खर्परप्रतिमैर्नखैः ।
विबन्तमिव भूचक्रमापातालं निमज्जिभिः ॥ ३.१७.११ ॥

योजनत्रयमुत्तुङ्गं वगादुद्धूतवालधिम् ।
सिंहवाहनमारुह्य व्यचलद्दण्डनायिका ॥ ३.१७.१२ ॥

तस्यामसुरसंहारे प्रवृत्तायां ज्वलत्क्रुधि ।
उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम् ॥ ३.१७.१३ ॥

किमसौ धक्ष्यति रुषा विश्वमद्यैव पोत्रिणी ।
किं वा मुसलघातेन भूमिं द्वेधा करिष्यति ॥ ३.१७.१४ ॥

अथ वा हलनिर्घातैः क्षोभयिष्यति वारिधीन् ।
इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः ॥ ३.१७.१५ ॥

दूराद्रुतं विमानैश्च सत्रासं ददृशुर्गताः ।
ववन्दिरे च ता देवा बद्धाञ्जलिपुटान्विताः ।
मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले ॥ ३.१७.१६ ॥

अगस्त्य उवाच
कानि द्वादशनामानि तस्या देव्या वद प्रभो ।
अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥ ३.१७.१७ ॥

हयग्रीव उवाच
शृणु द्वादशनामानि तस्या देव्या घटोद्भव ।
यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति ।
पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी ॥ ३.१७.१८ ॥

तथा समयसङ्केता वाराही पोत्रिणी तथा ।
वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ॥ ३.१७.१९ ॥

अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने ।
नामद्वादशकाभिख्यवज्रपञ्जरमध्यगः ।
सङ्कटे दुःखमाप्नोति न कदाचन मानवः ॥ ३.१७.२० ॥

एतैर्नामभिरभ्रस्थाः सङ्केतां बहु तुष्टुवुः ।
तेषामनुग्रहार्थाय प्रचचालच सा पुनः ॥ ३.१७.२१ ॥

अथ सङ्केतयोगिन्या मन्त्रनाथा पदस्पृशः ।
निर्याणसूचनकरी दिवि दध्वान काहली ॥ ३.१७.२२ ॥

शृङ्गारप्रायभूषाणां शार्दूलश्यामलत्विषाम् ।
वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम् ॥ ३.१७.२३ ॥

काश्चद्गायन्ति नृत्यन्ति मत्तकोकिलनिःस्वनाः ।
वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः ॥ ३.१७.२४ ॥

प्रचेलुः शक्तयः श्यामा हर्षयन्त्यो जगज्जनान् ।
मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः ॥ ३.१७.२५ ॥

कतिचिन्नकुलारूढाः कतिचित्कोकिलासनाः ।
सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः ॥ ३.१७.२६ ॥

कादम्बमधुमत्ताश्च काश्चिदारूढसैन्धवाः ।
मन्त्रनाथां पुरस्कृत्य सम्प्रचेलुः पुरः पुरः ॥ ३.१७.२७ ॥

अथारुह्य समुत्तुङ्गध्वजचक्रं महारथम् ।
बालार्कवर्णकवचा मदालोलविलोचना ॥ ३.१७.२८ ॥

ईषत्प्रस्वेदकणिकामनोहरमुखाम्बुजा ।
प्रेक्षयन्ती कटाक्षौधौः किञ्चिद्भ्रूवल्लिताण्डवैः ॥ ३.१७.२९ ॥

समस्तमपि तत्सैन्यं शक्तीनामुद्धतोद्धतम् ।
पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा ॥ ३.१७.३० ॥

आसां मध्ये न चान्यासां शक्तीनामुज्ज्वलोदया ।
निर्जगाम घनश्यामश्यामला मन्त्रनायिका ॥ ३.१७.३१ ॥

तां तुष्टुवुः षोडशभिर्नामभिर्नाकवासिनः ।
तानि षोडशनामानि शृणु कुम्भसमुद्भव ॥ ३.१७.३२ ॥

सङ्गीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ ३.१७.३३ ॥

वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।
निपप्रिया कदम्बेशी कदम्बवनवासिनी ॥ ३.१७.३४ ॥

सदामदा च नामानि षोडशैतानि कुम्भज ।
एतैर्यः सचिवेशानीं सकृत्स्तौति शरीरवान् ।
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३.१७.३५ ॥

मन्त्रिनाथा यत्रयत्र कटाक्षं विकिरत्यसौ ।
तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम् ॥ ३.१७.३६ ॥

ललितापरमेशान्या राज्यचर्चा तु यावती ।
शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा ॥ ३.१७.३७ ॥

अथ सङ्गीतयोगिन्याः करस्थाच्छुकपोतकात् ।
निर्जगाम धनुर्वेदो वहन्सज्जं शरासनम् ॥ ३.१७.३८ ॥

चतुर्बाहुयुतो वीरस्त्रिशिरास्त्रिविलोचनः ।
नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान् ॥ ३.१७.३९ ॥

देवि भण्डासुरेद्रस्य युद्धाय त्वं प्रवर्त्तसे ।
अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके ॥ ३.१७.४० ॥

चित्रजीवमिमं नाम कोदण्डं सुमहत्तरम् ।
गृहाण जगतामम्ब दानवानां निबर्हणम् ॥ ३.१७.४१ ॥

इमौ चाक्षयबाणाढ्यौ तूणीरौ स्वर्णचित्रितौ ।
गृहाण दैत्यनाशाय ममानुग्रहहेतवे ॥ ३.१७.४२ ॥

इति प्रणम्य शिरसा धनुर्वेदेन भक्तितः ।
अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया ॥ ३.१७.४३ ॥

चित्रजीवं महाचापमादाय च शूकप्रिया ।
विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः ॥ ३.१७.४४ ॥

सङ्गीतयोगिनी चापध्वनिना पूरितं जगत् ।
नाकालयानां च मनोन यनानन्दसम्पदा ॥ ३.१७.४५ ॥

यन्त्रिणी चेति द्वे तस्याः परिचारिके ।
शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः ॥ ३.१७.४६ ॥

आलोलवलयक्वाणवर्धिष्णुगुणनिस्वनम् ।
धारयन्ती घनश्यामा चकारातिमनोहरम् ॥ ३.१७.४७ ॥

चित्रजीवशरासेन भूषिता गीतयोगिनी ।
कदम्बिनीव रुरुचे कदम्बच्छत्रकार्मुका ॥ ३.१७.४८ ॥

कालीकटाक्षवत्तीक्ष्णो नृत्यद्भुजगभीषणः ।
उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः ॥ ३.१७.४९ ॥

गेयचक्ररथारूढां तां पश्चाच्च सिषेविरे ।
तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः ॥ ३.१७.५० ॥

सहस्राक्षौहिणीसङ्ख्यास्तीव्रवेगा मदालसाः ।
आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः ॥ ३.१७.५१ ॥