०१६

विश्वास-प्रस्तुतिः

अथ सा जगतां माता ललिता परमेश्वरी ।
त्रैलोक्यकण्टकं भण्डं दैत्यं जेतुं विनिर्ययौ ॥ ३.१६.१ ॥

मूलम्

चकार मर्दलाकारानम्भोराशींस्तु सप्त ते ।
प्रभूतमर्द्दलध्वानैः पूरयामासुरम्बरम् ॥ ३.१६.२ ॥

मृदङ्गमुरजाश्चैव पटहोऽतुकुलीङ्गणाः ।
सेलुकाझल्लरीराङ्घाहुहुकाहुण्डुकाघटाः ॥ ३.१६.३ ॥

आनकाः पणवाश्चैव गोमुखाश्चार्धचन्द्रिकाः ।
यवमध्या मुष्टिमध्या मर्द्दलाडिण्डिमा अपि ॥ ३.१६.४ ॥

झर्झराश्च बरीताश्च इङ्ग्यालिङ्ग्यप्रभेदजाः ।
उद्धकाश्चैतुहुण्डाश्च निःसाणा बर्बराः परे ॥ ३.१६.५ ॥

हुङ्कारा काकतुण्डाश्च वाद्यभेदास्तथापरे ।
दध्वनुः शक्तिसेनाभिराहताः समरोद्यमे ॥ ३.१६.६ ॥

ललितापरमेशान्या अङ्कुशास्त्रान्समुद्गता ।
सम्पत्करी नाम देवी चचाल सह शक्तिभिः ॥ ३.१६.७ ॥

अनेककोटिमातङ्गतुरङ्गरथपङ्क्तिभिः ।
सेविता तरुणादित्यपाटला सम्पदीश्वरी ॥ ३.१६.८ ॥

मत्तमुद्दण्डसङ्ग्रामरसिकं शैलसन्निभम् ।
रणकोलाहलं नाम सारुरोह मतङ्गजम् ॥ ३.१६.९ ॥

तामन्वगा ययौ सेना महती धोरराविणी ।
लोलाभिः केतुमालाभिरुल्लिखन्ती धनाधनात् ॥ ३.१६.१० ॥

तस्याश्च सम्पन्नाथायाः पीनस्तनसुसङ्कटः ।
कण्टको घनसन्नाहो रुरुचे वक्षसिस्थितः ॥ ३.१६.११ ॥

कम्पमाना खड्गलता व्यरुचत्तत्करे धृता ।
कुटिला कालनाथस्य भृकुटीव भयङ्करा ॥ ३.१६.१२ ॥

उत्पातवातसम्पाताच्चलिता इव पर्वताः ।
तामन्वगा ययुः कोटिसङ्ख्याकाः कुञ्जरोत्तमाः ॥ ३.१६.१३ ॥

अथ श्रीललितादेव्या श्रीपाशायुधसम्भवा ।
अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः ॥ ३.१६.१४ ॥

तया सह हयप्रायं सैन्यं हेषातरङ्गितम् ।
व्यचरत्खुरकुद्दालविदारितमहीतलम् ॥ ३.१६.१५ ॥

वनायुजाश्च काम्बोजाः पारदाः सिन्धुदेशजाः ।
टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे ॥ ३.१६.१६ ॥

अजानेया घट्टधरा दरदाः काल वन्दिजाः ।
वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः ॥ ३.१६.१७ ॥

प्राग्देशजाताः कैराता प्रान्तदेशोद्भवास्तथा ।
विनीताः साधुवोढारो वेगिनः स्थिरचेतसः ॥ ३.१६.१८ ॥

स्वामिचित्तविशेषज्ञा महायुद्धसहिष्णवः ।
लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः ॥ ३.१६.१९ ॥

पञ्चधारासु शक्षढ्या विनीताश्च प्लवान्विताः ॥ ३.१६.२० ॥
फलशुक्तिश्रिया युक्ताः श्वेतशुक्तिसमन्विताः ।
देवपद्मं देवमणिं देवस्वस्तिकमेव च ॥ ३.१६.२१ ॥

अथ स्वस्तिकशुक्तिश्च गडुरं पुष्पगण्डिकाम् ।
एतानि शुभलक्ष्माणि ज्यराज्यप्रदानि च ।
वहन्तो वातजवना वाजिनस्तां समन्वयुः ॥ ३.१६.२२ ॥

अपराजितनामानमतितेजस्विनं चलम् ।
अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम् ॥ ३.१६.२३ ॥

पार्श्वद्वयेऽपि पतितस्फुरत्केसरमण्डलम् ।
स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम् ॥ ३.१६.२४ ॥

जङ्घाकाण्डसमुन्नद्धमणिकिङ्किणिभासुरम् ।
वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः ॥ ३.१६.२५ ॥

भूमण्डलमहावाद्यं विजयस्य समृद्धये ।
घोषमाणं प्रति मुहुः सन्दर्शितगतिक्रमम् ॥ ३.१६.२६ ॥

आलोलचामरव्याजाद्वहन्तं पक्षती इव ।
भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम् ॥ ३.१६.२७ ॥

एषां घोषस्य कपटाद्धुङ्कुर्वतीमि वासुरान् ।
अश्वारूढा महादेवी समारूढा हयं ययौ ॥ ३.१६.२८ ॥

चतुर्भिर्वाहुभिः पाशमङ्कुशं वेत्रमेव च ।
हयवल्गां च दधती बहुविक्रमशोभिनी ॥ ३.१६.२९ ॥

तरुणादित्यसङ्काशा ज्वलत्काञ्चीतरङ्गिणी ।
सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम् ॥ ३.१६.३० ॥

अथ श्रीदण्डनाथाया निर्याणपटहध्वनिः ।
उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत् ॥ ३.१६.३१ ॥

वज्रबाणैः कठोरैश्चभिन्दन्त्यः ककुभो दश ।
अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः ॥ ३.१६.३२ ॥

काश्चिच्छ्रीदण्डनाथायाः सेनानासीरसङ्गताः ।
खड्गं फलकमादाय पुप्लुवुश्चण्डसक्तयः ॥ ३.१६.३३ ॥

अत्यन्तसैन्यसम्बाधं वेत्रसन्ताडनैः शतैः ।
निवारयन्त्यो वेत्रिण्यो व्युच्छलन्ति स्मशक्तयः ॥ ३.१६.३४ ॥

अथ तुङ्गध्वजश्रेणीर्महिषाङ्का मृगाङ्किकाम् ।
सिहाङ्काश्चैव बिभ्राणाः शक्तयो व्यचलन्पुरा ॥ ३.१६.३५ ॥

ततः श्रीदण्डनाथायाः श्वेतच्छत्रं सहस्रशः ।
स्फुरत्कराः प्रचलिताः शक्तयः काश्चिदाददुः ॥ ३.१६.३६ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ससेनविजययात्रा नाम षोडशोऽध्यायः