०१५

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखाम्बुजा ।
उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान् ॥ ३.१५.१ ॥

मूलम्

स्वतन्त्राहं सदा देवाः स्वेच्छाचारविहारिणी ।
ममानुरूपचरितो भविता तु मम प्रियः ॥ ३.१५.२ ॥

तथेति तत्प्रतिश्रुत्य सर्वेर्देवैः पितामहः ।
उवाच च महादेवीं धर्मार्थसहितं वचः ॥ ३.१५.३ ॥

कालक्रीता क्रयक्रीता पितृदत्ता स्वयंयुता ।
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः ॥ ३.१५.४ ॥

कालक्रीता तु वेश्या स्यात्क्रयक्रीता तु दासिका ।
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका ॥ ३.१५.५ ॥

समानधर्मिणी युक्ता भार्या पितृवशंवदा ।
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम् ॥ ३.१५.६ ॥

चिदानन्दात्मकं तस्मात्प्रकृतिः समजायत ।
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि ॥ ३.१५.७ ॥

त्वमेवानादिरखिला कार्यकारणरूपिणी ।
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥ ३.१५.८ ॥

सदसत्कर्मरूपां च व्यक्ताव्यक्तो दयात्मिकाम् ।
त्वामेव हि प्रशंसन्ति पञ्चब्रह्मस्वरूपिणीम् ॥ ३.१५.९ ॥

त्वामेव हि सृजस्यादौ त्वमेव ह्यवसि क्षणात् ।
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया ॥ ३.१५.१० ॥

इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः ।
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे ॥ ३.१५.११ ॥

तयोत्सृष्टा हि सा माला शोभयन्ती नभस्थलम् ।
पपात कण्ठदेशे हि तदा कामेश्वरस्य तु ॥ ३.१५.१२ ॥

ततो मुमुदिरे देवा ब्रह्मविष्णुपुरोगमाः ।
ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः ॥ ३.१५.१३ ॥

अथोवाच विधाता तु भगवन्तं जनार्दनम् ।
कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे ॥ ३.१५.१४ ॥

मुहुर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः ।
त्वद्रूपा हि महादेवी सहजश्च भवानपि ॥ ३.१५.१५ ॥

दातुमर्हसि कल्याणीमस्मै कामशिवाय तु ।
तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ॥ ३.१५.१६ ॥

ददौ तस्यै विधानेन प्रीत्या तां शङ्कराय तु ।
देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम् ॥ ३.१५.१७ ॥

कल्याणं कारयामास शिवयोरादिकेशवः ।
उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ॥ ३.१५.१८ ॥

ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् ।
तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम् ॥ ३.१५.१९ ॥

नागपाशं ददौ ताभ्यां वरुणो यादसाम्पतिः ।
अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशाम्पतिः ॥ ३.१५.२० ॥

किरीटमग्निः प्रायच्छत्ताटङ्कौ चन्द्रभास्करौ ।
नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम् ॥ ३.१५.२१ ॥

ददौ सुराणामधिपो मधुपात्रमथाक्षयम् ।
चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा ॥ ३.१५.२२ ॥

साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिः स्वयम् ।
गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे ॥ ३.१५.२३ ॥

अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा ।
दिक्पाला मरुतः साध्या गन्धर्वाः प्रमथेश्वराः ।
स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः ॥ ३.१५.२४ ॥

रथांश्च तुरगान्नागान्महावेगान्महाबलान् ।
उष्टानरोगानश्वांस्तान्क्षुत्तृष्णापरिवर्जितान् ।
ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान् ॥ ३.१५.२५ ॥

अथाभिषेकमातेनुः साम्राज्ये शिवयोः शिवम् ।
अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम् ॥ ३.१५.२६ ॥

विधाताम्लानमालं वै नित्यं चाभेद्यमायुधैः ।
दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत् ॥ ३.१५.२७ ॥

यद्गन्धघ्राणमात्रेण भ्रान्तिरोगक्षुर्धातयः ।
तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् ॥ ३.१५.२८ ॥

तद्विमानमथारोप्य तावुभौ दिव्यदम्पती ।
चामख्याजनच्छत्रध्वजयष्टिमनोहरम् ॥ ३.१५.२९ ॥

वीणावेणुमृदङ्गादिविविधैस्तौर्यवादनैः ।
सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात् ॥ ३.१५.३० ॥

ययौ वीथीं विहारेशा शोभयन्ती निजौजसा ।
प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः ॥ ३.१५.३१ ॥

सलाजाक्षतहस्ताभिः पुरन्ध्रीभिश्च वर्षिता ।
गाथाभिर्मङ्गलार्थाभिर्वीणावेण्वादिनिस्वनैः ।
तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ ॥ ३.१५.३२ ॥

प्रतिगृह्याप्स रोभिस्तु कृतं नीराजनाविधिम् ।
अवरुह्य विमानग्रात्प्रविवेश महासभाम् ॥ ३.१५.३३ ॥

सिंहासनमधिष्ठाय सह देवेन शम्भुना ।
यद्यद्वाञ्छन्ति तत्रस्था मनसैव महाजनाः ।
सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत् ॥ ३.१५.३४ ॥

तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोक पितामहः ।
कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च ॥ ३.१५.३५ ॥

ववर्षाश्चर्यमेघोऽपि पुरे तस्मिंस्तदाज्ञया ।
महार्हाणि च वस्तूनि दिव्यान्याभरणानि च ॥ ३.१५.३६ ॥

चिन्तामणिः कल्पवृक्षः कमला कामधेनवः ।
प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते ॥ ३.१५.३७ ॥

तां सेवैकरसाकारां विमुक्तान्यक्रियागुणाः ।
सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम् ॥ ३.१५.३८ ॥

पितामहो हरिश्चैव महादेवश्च वासवः ।
अन्ये दिशामधीशास्तु सकला देवतागणाः ॥ ३.१५.३९ ॥

देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः ।
महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः ॥ ३.१५.४० ॥

गन्धर्वाप्सरसो यक्षा याश्चान्या देवजातयः ।
दिवि भूम्यन्तरिक्षेषु ससम्बाधं वसन्ति ये ॥ ३.१५.४१ ॥

ते सर्वे चाप्यसम्बाधं निवसन्ति स्म तत्पुरे ॥ ३.१५.४२ ॥

विश्वास-प्रस्तुतिः

एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् ।
तोषयामास सततमनुरागेण भूयसा ॥ ३.१५.४३ ॥

राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् ।
राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम् ॥ ३.१५.४४ ॥

त्रिलोकैकमहीपाले साम्बिके कामशङ्करे ।
दशवर्षसहस्राणि ययुः क्षण इवापरः ॥ ३.१५.४५ ॥

ततः कदा चिदागत्य नारदो भगवानृषिः ।
प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः ॥ ३.१५.४६ ॥

पर ब्रह्म परं धाम पवित्रं परमैश्वरि ।
मदसद्भावसङ्कल्पविकल्पकलनात्मिका ॥ ३.१५.४७ ॥

जगदभ्युदयार्थाय व्यक्तभावमुपागता ।
असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी ।
प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि ॥ ३.१५.४८ ॥

अयं भण्डोऽसुरो देवि बाधते जगतां त्रयम् ।
त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥ ३.१५.४९ ॥

त्वत्सेवैकपरा देवाश्चिरकालमिहोषिताः ।
त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु ॥ ३.१५.५० ॥

अमङ्गलानि शून्यानि समृद्धार्थानि सन्त्वतः ।
एवं विज्ञापिता देवी नारदेनाखिलेश्वरी ।
स्वस्ववासनिवासाय प्रेषयामास चामरान् ॥ ३.१५.५१ ॥

ब्रह्माणं च हरिं शम्भुं वासवादीन्दिशां पतीन् ।
यथार्हं पूजयित्वा तु प्रेषयामास चाम्बिका ॥ ३.१५.५२ ॥

अपराधं ततस्त्यक्तुमपि सम्प्रेषिताः सुराः ।
स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत ॥ ३.१५.५३ ॥

एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् ।
आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम् ॥ ३.१५.५४ ॥

यः प्रातरुत्थितो विद्वान्भक्तिश्रद्धासमन्वितः ।
जपेद्धनसमृद्धः स्यात्सुधासम्मितवाग्भवेत् ॥ ३.१५.५५ ॥

नाशुभं विद्यते तस्य परत्रेह च धीमतः ।
यशः प्राप्नोति विपुलं समानोत्तमतामपि ॥ ३.१५.५६ ॥

अचला श्रीर्भवेतस्य श्रेयश्चैव पदेपदे ।
कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत् ॥ ३.१५.५७ ॥

तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते ।
त्रिसन्ध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम् ॥ ३.१५.५८ ॥

षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः ॥ ३.१५.५९ ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः