०१४

विश्वास-प्रस्तुतिः

हयग्रीव उवाच
एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः ।
आजगामाथ देवेशीं द्रष्टुकामो महर्षिभिः ॥ ३.१४.१ ॥

मूलम्

आजगाम ततो विष्णुरारूढो विनतासुतम् ।
शिवोऽपि वृषमारूढः समायातोऽखिलेश्वरीम् ॥ ३.१४.२ ॥

देवर्षयो नारदाद्याः समाजग्मुर्महेश्वरीम् ।
आययुस्तां महादेवीं सर्वे चाप्सरसां गणाः ॥ ३.१४.३ ॥

विश्वावसुप्रभृतयो गन्धर्वाश्चैव यक्षकाः ।
ब्रह्मणाथ समादिष्टो विश्वकर्मा विशाम्पतिः ॥ ३.१४.४ ॥

चकार नगरं दिव्यं यथामरपुरं तथा ।
ततो भगवती दुर्गा सर्वमन्त्राधिदेवता ॥ ३.१४.५ ॥

विद्याधिदेवता श्यामा समाजग्मतुरम्बिकाम् ।
ब्राहयाद्या मातरश्चैव स्वस्वभूतगणावृताः ॥ ३.१४.६ ॥

सिद्धयो ह्यणिमाद्याश्च योगिन्यश्चैव कोटिशः ।
भैरवाः क्षेत्रपालाश्च महाशास्ता गणाग्रणीः ॥ ३.१४.७ ॥

महागणेश्वरः स्कन्दो बटुको वीरभद्रकः ।
आगत्य ते महादेवीं तुष्टुवुः प्रणतास्तदा ॥ ३.१४.८ ॥

तत्राथ नगरीं रम्यां साट्टप्राकारतोरणाम् ।
गजाश्वरथशालाढ्यां राजवीथिविराजिताम् ॥ ३.१४.९ ॥

सामन्तानाममात्यानां सैनिकानां द्विजन्म नाम् ।
वेतालदासदासीनां गृहाणि रुचिराणि च ॥ ३.१४.१० ॥

मध्यं राजगृहं दिव्यं द्वारगोपुरभूषितम् ।
शालाभिर्बहुभिर्युक्तं सभा भिरुषशोभितम् ॥ ३.१४.११ ॥

सिंहासनसभां चैव नवरत्नमयीं शुभाम् ।
मध्ये सिंहासनं दिव्यं चिन्तामणिवीनिर्मितम् ॥ ३.१४.१२ ॥

स्वयं प्रकाशमद्वन्द्वमुदयादित्यसन्निभम् ।
विलोक्य चिन्तयामास ब्रह्मा लोकपितामहः ॥ ३.१४.१३ ॥

यस्त्वेतत्समधिष्ठाय वर्तते बालिशोऽपिवा ।
पुरस्यास्य प्रभावेण सर्वलोकाधिको भवेत् ॥ ३.१४.१४ ॥

न केवला स्त्री राज्यार्हा पुरुषोऽपि तया विना ।
मङ्गलाचार्यसंयुक्तं महापुरुषलक्षणम् ।
अनुकूलाङ्गनायुक्तमभिषिञ्चेदिति श्रुतिः ॥ ३.१४.१५ ॥

विभातीयं वरारोहा भूर्ता शृङ्गारदेवता ।
वरोऽस्यास्त्रिषु लोकेषु न चान्यः शङ्करादृते ॥ ३.१४.१६ ॥

जडिलो मुण्डधारी च विरूपाक्षः कपालभृत् ।
कल्माषी भस्मदिग्धाङ्गः श्मशानास्थिविभूषणः ॥ ३.१४.१७ ॥

अमङ्गलास्पदं चैनं वरयेत्सा सुमङ्गला ।
इति चिन्तयमानस्य ब्रह्मणोऽग्रे महेश्वरः ॥ ३.१४.१८ ॥

कोटिकन्दर्पलावण्ययुक्तो दिव्य शरीरवान् ।
दिव्याम्बरधरः स्रग्वी दिव्यगन्धानुलेपनः ॥ ३.१४.१९ ॥

किरीटहारकेयूरकुण्डलाद्यैरलङ्कृतः ।
प्रादुर्बभूव पुरतो जगन्मोहन रुपधृक् ॥ ३.१४.२० ॥

तं कुमारमथालिङ्ग्य ब्रह्मा लोकपितामहः ।
चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरम् ॥ ३.१४.२१ ॥

तस्यास्तु परमाशक्तेरनुरूपो वरस्त्वयम् ।
इति निश्चित्य तेनैव सहितास्तामथाययुः ॥ ३.१४.२२ ॥

अस्तुवंस्ते परां शक्तिं ब्रह्मविष्णुमहेश्वराः ।
तां दृष्ट्वा मृगशावाक्षीं कुमारो नीललोहितः ।
अभवन्मन्मथाविष्टो विस्मृत्य सकलाः क्रियाः ॥ ३.१४.२३ ॥

सापि तं वीक्ष्य तन्वङ्गो मूर्तिम्मन्तमिव स्मरम् ।
मदनाविष्टसर्वाङ्गी स्वात्मरूपममन्यत ।
अन्योन्यालोकनासक्तौ तावृभौ मदनातुरौ ॥ ३.१४.२४ ॥

सर्वभावविशेषज्ञौ धृतिमन्तौ मनस्विनौ ।
परैरज्ञातचारित्रौ मुहूर्तास्वस्थचेतनौ ॥ ३.१४.२५ ॥

अथोवाच महादेवीं ब्रह्मा लोकैकनायिकाम् ।
इमे देवाश्च ऋषयो गन्धर्वाप्सरसां गणाः ।
त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे ॥ ३.१४.२६ ॥

को वानुरूपस्ते देवि प्रियो धन्यतमः पुमान् ।
लोकसंरक्षणार्थाय भजस्व पुरुषं परम् ॥ ३.१४.२७ ॥

राज्ञी भव पुरस्यास्य स्थिता भव वरासने ।
अभिषिक्तां महाभागैर्देवार्षे भिरकल्मषैः ॥ ३.१४.२८ ॥

साम्राज्यचिह्नसंयुक्तां सर्वाभरणसंयुताम् ।
सप्रियामासनगतां द्रष्टुमिच्छामहे वयम् ॥ ३.१४.२९ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनकामेश्वरप्रादुर्भावो नाम चतुर्दशोऽध्यायः