०१२

विश्वास-प्रस्तुतिः

रुद्रकोपानलाज्जातो यतो भण्डो महाबलः।
तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः॥३.१२.१॥ 3.4.12.1

मूलम्

अथागच्छन्महातेजाः शुक्रो दैत्यपुरोहितः।
समायाताश्च शतशो दैतेयाः सुमहाबलाः॥३.१२.२॥

अथाहूय मयं भण्डो दैत्यवंश्यादिशिल्पिनम्।
नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः॥३.१२.३॥

यत्र स्थित्वा तु दैत्येन्द्रैस्त्रैलोक्यं शासितं पुरा।
तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम्॥३.१२.४॥

तच्छ्रुत्वा वचनं शिल्पी स गत्वाथ पुरं महत्।
चक्रेऽमरपुरप्रख्यं मनसैवेक्षणेन तु॥३.१२.५॥

अथाभिषिक्तः शुक्रेण दैतेयैश्च महाबलैः।
शुशभे परया लक्ष्म्या तेजसा च समन्वितः॥३.१२.६॥

हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा।
सजीवमविनाश्यं च दैत्येन्द्रैरपि भूषितम्।
दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम्॥३.१२.७॥

चामरे चन्द्रसङ्काशे सजीवे ब्रह्म निर्मिते।
न रोगो न च दुःखानि सन्दधौ यन्निषेवणात्॥३.१२.८॥

तस्यातपत्रं प्रददौ ब्रह्मणैव पुरा कृतम्।
यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः॥३.१२.९॥

धनुश्च विजयं नाम शङ्खं च रिपुघातिनम्।
अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान्॥३.१२.१०॥

तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभम्।
ततः सिंहासनासीनः सर्वाभरणभूषितः।
बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा॥३.१२.११॥

बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः।
इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः।
उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः॥३.१२.१२॥

सुमोहिनी कुमुदिनी चित्राङ्गी सुन्दरी तथा।
चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः॥३.१२.१३॥

तमसेवन्त कालज्ञा देवाः सर्वे सवासवाः।
स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः॥३.१२.१४॥

सम्बभूवुर्महाकाया महान्तो जितकाशिनः।
बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः॥३.१२.१५॥

अर्चयन्तो महादेवमास्थिताः शिवशासने।
बभूवुर्दानवास्तत्र पुत्रपौत्रधनान्विताः।
गृहेगृहे च यज्ञाश्च सम्बभूवुः समन्ततः॥३.१२.१६॥

ऋचो यजूंषि सामानि मीमांसान्यायकादयः।
प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा॥३.१२.१७॥

यथाश्रमेषु मुख्येषु मुनीनां च द्विजन्मनाम्।
तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः॥३.१२.१८॥

एवं कृतवतोऽप्यस्य भण्डस्य जितकाशिनः।
षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत्॥३.१२.१९॥

वर्धमानमथो दैत्यं तपसा च बलेन च।
हीयमानबलं चेन्द्रं सम्प्रेक्ष्य कमलापतिः॥३.१२.२०॥

ससर्ज सहसा काञ्चिन्मायां लोकविमोहिनीम्।
तामुवाच ततो मायां देवदेवो जनार्दनः॥३.१२.२१॥

त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा।
विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन॥३.१२.२२॥

त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम्।
मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे॥३.१२.२३॥

एवं लब्ध्वा वरं माया तं प्रणम्य जनार्दनम्।
ययाचेऽप्सरसो मुख्याः सहायार्थं तु काश्चन॥३.१२.२४॥

तया सम्प्रार्थितो भूयः प्रेषयामास काश्चन।
ताभिर्विश्वाचिमुख्याभिः सहिता सा मृगेक्षणा।
प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम्॥३.१२.२५॥

यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः।
तत्र सा मृगशावाक्षी मूले चम्पकशाखिनः।
निवासमकरोद्रम्यं गायन्ती मधुरस्वरम्॥३.१२.२६॥

अथागतस्तु दैत्येन्द्रो बलिभिर्भन्त्रिभिर्वृतः।
श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम्॥३.१२.२७॥

तां दृष्ट्वा चारुसर्वाङ्गीं विद्युल्लेखामिवापराम्।
मायामये महागर्ते पतितो मदनाभिधे॥३.१२.२८॥

अथास्य मन्त्रिणोऽभूवन्त्दृदये स्मरतापि ताः॥३.१२.२९॥
तेन दैतेयनाथेन चिरं सम्प्रर्थिता सती।
तैश्च सम्प्रर्थितास्ताश्च प्रतिशूश्रुवुरञ्जसा॥३.१२.३०॥

यास्त्वलभ्या महायज्ञैरश्वमेधादिकैरपि।
ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः॥३.१२.३१॥

विसस्मरुस्तदा वेदांस्तथा देवमुमापतिम्।
विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः॥३.१२.३२॥

अवमानहतश्चासीत्तेषामपि पुरोहितः।
मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा॥३.१२.३३॥

मोहितेष्वथ दैत्येषु सर्वे देवाः सवासवाः।
विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः॥३.१२.३४॥

कदाचिदथ देवेन्द्रं वीक्ष्य सिंहासने स्थितम्।
सर्वदेवैः परिवृतं नारदो मुनिराययौ॥३.१२.३५॥

प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकम्।
कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत्॥३.१२.३६॥

भगवन्सर्वधर्मज्ञ परापरविदां वर।
तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि॥३.१२.३७॥

भविष्यच्छोभनाकारं तवागमनकारणम्।
त्वद्वाक्यामृतमाकर्ण्य श्रवणानन्दनिर्भरम्।
अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर॥३.१२.३८॥

नारद उवाच
अथ सम्मोहितो भण्डो दैत्येन्द्रो विष्णुमायया।
तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः॥३.१२.३९॥

अधिकस्तव तेजोभिरस्त्रैर्मायाबलेन च।
तस्य तेजोऽपहारस्तु कर्तव्योऽतिबलस्य तु॥३.१२.४०॥

विनाराधनतो देव्याः पराशक्तेस्तु वासव।
अशक्योऽन्येन तपसा कल्पकोटिशतैरपि॥३.१२.४१॥

पुरैवोदयतः शत्रोराराधयत बालिशाः।
आराधिता भगवती सा वः श्रेयो विधास्यति॥३.१२.४२॥

एवं सम्बोधितस्तेन शक्रो देवगणेश्वरः।
तं मुनिं पूजयामास सर्वदेवैः समन्वितः।
तपसे कृतसन्नाहो ययौ हैमवतं तटम्॥३.१२.४३॥

तत्र भागीरथीतीरे सर्वर्तुकुसुमोज्ज्वले।
पराशक्तेर्महापूजां चक्रेऽखिलसुरैः समम्।
इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदम्॥३.१२.४४॥

ब्रह्मात्मजोपदिष्टेन कुर्वतां विधिना पराम्।
देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम्॥३.१२.४५॥

उग्रे तपसि संस्थानामनन्या र्पितचेतसाम्।
दशवर्षसहस्राणि दशाहानि च संययुः॥३.१२.४६॥

मोहितानथ तान्दृष्ट्वा भृगुपुत्रो महामतिः।
भण्डासुरं समभ्येत्य निजगाद पुरोहितः॥३.१२.४७॥

त्वामेवाश्रित्य राजेन्द्र सदा दानवसत्तमाः।
निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः॥३.१२.४८॥

जातिमात्रं हि भवतो हन्ति सर्वान्सदा हरिः।
तेनैव निर्मिता माया यया सम्मोहितो भवान्॥३.१२.४९॥

भवन्तं मोहितं दृष्ट्वा रन्ध्र्रान्वेषण तत्परः।
भवतां विजयार्थाय करोतीन्द्रो महत्तपः॥३.१२.५०॥

यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेत्।
इमां मायामयीं त्यक्त्वा मन्त्रिभिः सहितो भवान्।
गत्वा हैमवतं शैलं परेषां विघ्नमाचर॥३.१२.५१॥

एवमुक्तस्तु गुरुणा हित्वा पर्यङ्कमुत्तमम्।
मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः॥३.१२.५२॥

तच्छ्रुत्वा नृपतिं प्राह श्रुतवर्मा विमृश्य च।
षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम्॥३.१२.५३॥

तस्मादप्यधिकं वीर गतमासीदनेकशः।
अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः॥३.१२.५४॥

अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना।
काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा॥३.१२.५५॥

अथाह भीमकर्माख्यो नोपेक्ष्योऽरिर्यथाबलम्।
क्रियाविघ्ने कृतेऽस्माभिर्विजयस्ते भविष्यति॥३.१२.५६॥

तव युद्धे महाराज परार्थं बलहारिणी।
दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा॥३.१२.५७॥

अनुमेने च तद्वाक्यं भण्डो दानवनायकः।
निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम्॥३.१२.५८॥

तपोविघ्नकरान्दृष्ट्वा दानवाञ्जगदम्बिका।
अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम्॥३.१२.५९॥

तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः।
सङ्क्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु॥३.१२.६०॥

पुनरेव तदग्रेऽभूदलङ्घ्यः सर्वदानवैः।
वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च॥३.१२.६१॥

पौनः पुन्येन तद्भस्म प्राभूत्पुनरुपस्थितम्।
एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्मः स्वपुरं ययौ॥३.१२.६२॥

तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलम्।
भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः॥३.१२.६३॥

तानुवाच ततः शक्रो दैत्येन्द्रोऽयमिहागतः।
अशक्यः समरे योद्धुमस्माभिरखिलैरपि॥३.१२.६४॥

पलायितानामपि नो गतिरन्या न कुत्रचित्।
कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम्॥३.१२.६५॥

महायागविधानेन प्रणिधाय हुताशनम्।
यजामः परमां शाक्तिं महामासैर्वयं सुराः॥३.१२.६६॥

ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम्।
एवमुक्तास्तु ते सर्वेदेवाः सेन्द्रपुरोगमाः॥३.१२.६७॥

विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्य मन्त्रतः।
हुतेषु सर्वमांसेषु पादेषु च करेषु च॥३.१२.६८॥

होतुमिच्छत्सु देवेषु कलेवरमशेषतः।
प्रादुर्बभूव परमन्तेजः पुञ्जो ह्यनुत्तमः॥३.१२.६९॥

तन्मध्यतः समुदभूच्चक्राकारमनुत्तमम्।
तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम्॥३.१२.७०॥

जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकाम्।
सौन्दर्यसारसीमां तामानन्दरससागराम्॥३.१२.७१॥

जपाकुसुमसङ्काशां दाडिमीकुसुमाम्बराम्।
सर्वाभरणसंयुक्तां शृङ्गारैकरसालयाम्॥३.१२.७२॥

कृपातरङ्गितापाङ्गनयनालोककौमुदीम्।
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम्॥३.१२.७३॥

तां विलोक्य महादेवीं देवाः सर्वे सवासवाः।
प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकम्॥३.१२.७४॥

तया विलोकिताः सद्यस्ते सर्वे विगतज्वराः।
सम्पूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः।
तुष्टुवुश्च महादेवीमम्बिकामखिलार्थदाम्॥३.१२.७५॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललिताप्रादुर्भावो नाम द्वादशोऽध्यायः