०१०

विश्वास-प्रस्तुतिः

हयग्रीव उवाच
अथ देवा महेन्द्राद्या विष्णुना प्रभविष्मुना ।
अङ्गीकृता महाधीराः प्रमोदं परमं ययुः ॥ ३.१०.१ ॥

मूलम्

मलकाद्यास्तु ते सर्वे दैत्या विष्णुपराङ्मुखाः ।
सन्त्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः ॥ ३.१०.२ ॥

ततो जगृहिरे दैत्या धन्वन्तरिकरस्थितम् ।
परमामृतसाराढ्यं कलशं कनकोद्भवम् ।
अथासुराणां देवानामन्योन्यं कलहोऽभवत् ॥ ३.१०.३ ॥

एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः ।
सम्यगाराधयामासललितां स्वैक्यरूपिणीम् ॥ ३.१०.४ ॥

सुराणामसुराणां च रणं वीक्ष्य सुदारुणम् ।
ब्रह्मा निजपदं प्राप शम्भुः कैलासमास्थितः ॥ ३.१०.५ ॥

मलकं योधयामास दैत्यानामधिपं वृषा ।
असुरैश्च सुराः सर्वे साम्परायमकुर्वत ॥ ३.१०.६ ॥

भगवानपि योगीन्द्रः समाराध्य महेश्वरीम् ।
तदेकध्यानयोगेन तद्रूपः समजायत ॥ ३.१०.७ ॥

सर्वसम्मोहिनी सा तु साक्षाच्छृङ्गारनायिका ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ३.१०.८ ॥

सुराणामसुराणां च निवार्य रणमुल्वणम् ।
मन्दस्मितेन दैतेयान्मोहयन्ती जगद ह ॥ ३.१०.९ ॥

अलं युद्धेन किं शस्त्रेर्मर्मस्थानविभेदिभिः ।
निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः ॥ ३.१०.१० ॥

अहमेवात्र मध्यस्था युष्माकं च दिवौकसाम् ।
यूयं तथामी नितरामत्र हि क्लेशभागिनः ॥ ३.१०.११ ॥

सर्वेषां सममेवाद्य दास्याम्यमृतमद्भुतम् ।
मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम् ॥ ३.१०.१२ ॥

इति तस्या वचः श्रुत्वा दैत्यास्तद्वाक्यमोहिताः ।
पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः ॥ ३.१०.१३ ॥

सा तत्पात्रं समादाय जगन्मोहनरूपिणी ।
सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह ॥ ३.१०.१४ ॥

द्वयोः पङ्क्त्योश्च मध्यस्थास्तानुवाच सुरासुरान् ।
तूष्णीं भवन्तु सर्वेऽपि क्रमशो दीयते मया ॥ ३.१०.१५ ॥

तद्वाक्यमुररीचक्रुस्ते सर्वे समवायिनः ।
सा तु सम्मोहिताश्लेषलोका दातुं प्रचक्रमे ॥ ३.१०.१६ ॥

क्वणत्कनकदर्वीका क्वणन्मङ्गलकङ्कणा ।
कमनीयविभूषाढ्या कला सा परमा बभौ ॥ ३.१०.१७ ॥

वामे वामे कराम्भोजे सुधाकलशमुज्ज्वलम् ।
सुधां तां देवतापङ्क्तौ पूर्वं दर्व्या तदादिशत् ॥ ३.१०.१८ ॥

दिशन्ती क्रमशास्तत्र चन्द्रभास्करसूचितम् ।
दर्वीकरेण चिच्छेद सैंहिकेयं तु मध्यगम् ।
पीतामृतशिरोमात्रं तस्य व्योम जगाम च ॥ ३.१०.१९ ॥

तं दृष्ट्वाप्यसुरास्तत्र तूष्णीमासन्विमोहिताः ।
एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा ।
असुराणां पुरः पात्रं सानिनाय तिरोदधे ॥ ३.१०.२० ॥

रिक्तपात्रं तु तं दृष्ट्वा सर्वे दैतेयदानवाः ।
उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया ॥ ३.१०.२१ ॥

इन्द्रादयः सुराः सर्वे सुधापानाद्बलोत्तराः ।
दुर्वलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः ॥ ३.१०.२२ ॥

ते विध्यमानाः शतशो दानवेन्द्राः सुरोत्तमैः ।
दिगन्तान्कतिचिज्जग्मुः पातालं कतिचिद्ययुः ॥ ३.१०.२३ ॥

दैत्यं मलकनामानं विजित्य विबुधेश्वरः ।
आत्मीयां श्रियमाजह्रे श्रीकटाक्ष समीक्षितः ॥ ३.१०.२४ ॥

पुनः सिंहासनं प्राप्य महेन्द्रः सुरसेवितः ।
त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित् ॥ ३.१०.२५ ॥

निर्भया निखिला देवास्त्रैलोक्ये सचराचरे ।
यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः ॥ ३.१०.२६ ॥

तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः ।
विस्मितः कामचारी तु कैलासं नारदो गतः ॥ ३.१०.२७ ॥

नन्दिना च कृतानुज्ञः प्रणम्य परमेश्वरम् ।
तेन सम्भाव्यमानोऽसौ तुष्टो विष्टरमास्त सः ॥ ३.१०.२८ ॥

आसनस्थं महादेवो मुनिं स्वेच्छाविहारिणम् ।
पप्रच्छ पार्वतीजानिः स्वच्छस्फटिकसन्निभः ॥ ३.१०.२९ ॥

भगवन्सर्ववृत्तज्ञ पवित्रीकृतविष्टर ।
कलहप्रिय देवर्षे किं वृत्तं तत्र नाकिनाम् ॥ ३.१०.३० ॥

सुराणामसुराणां वा विजयः समजायत ।
किं वाप्यमृतवृत्तान्तं विष्णुना वापि किं कृतम् ॥ ३.१०.३१ ॥

इति पृष्टो महेशेन नारदो मुनिसत्तमः ।
उवाच विस्मयाविष्टः प्रसन्नवदनेक्षणः ॥ ३.१०.३२ ॥

सर्वं जानासि भगवन्सर्वज्ञोऽसि यतस्ततः ।
तथापि परिपृष्टेन मया तद्वक्ष्यतेऽधुना ॥ ३.१०.३३ ॥

तादृशे समरे घोरे सति दैत्यदिवौकसाम् ।
आदिनारायमः श्रीमान्मोहिनीरूपमादधे ॥ ३.१०.३४ ॥

तामुदारविभूषाढ्यां मूर्तां शृङ्गारदेवताम् ।
सुरासुराः समालोक्य विरताः समरोध्यमात् ॥ ३.१०.३५ ॥

तन्मायामोहिता दैत्याः सुधापात्रं च याचिताः ।
कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा ॥ ३.१०.३६ ॥

तदा देवी तदादाय मन्दस्मितमनोहरा ।
देवेभ्य एव पीयूषमशेषं विततार सा ॥ ३.१०.३७ ॥

तिरोहितामदृष्ट्वा तां दृष्ट्वा शून्यं च पात्रकम् ।
ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः ॥ ३.१०.३८ ॥

अमरैरमृतास्वादादत्युल्वणपराक्रमैः ।
पराजिता महादैत्या नष्टाः पातालमभ्ययुः ॥ ३.१०.३९ ॥

इमं वृत्तान्तमाकर्ण्य भवानीपतिख्ययः ।
नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन् ॥ ३.१०.४० ॥

अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दिविनायकैः ।
पार्वतीसहितो विष्णुमाजगाम सविस्मयः ॥ ३.१०.४१ ॥

क्षीरोदतीरगं दृष्ट्वा सस्त्रीकं वृषवाहनम् ।
भोगिभोगासनाद्विष्णुः समुत्थाय समागतः ॥ ३.१०.४२ ॥

वाहनादवरुह्येशः पार्वत्या सहितः स्थितम् ।
तं दृष्ट्वा शीघ्रमागत्य सम्पूज्यार्घ्यादितो मुदा ॥ ३.१०.४३ ॥

सस्नेहं गाढमालिङ्ग्य भवानीपतिमच्युतः ।
तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः ॥ ३.१०.४४ ॥

तमुवाच महादेवो भगवन्पुरुषोत्तम ।
महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम् ॥ ३.१०.४५ ॥

सर्वसम्मोहजनकमवाङ्मनसगोचरम् ।
यद्रूपं भवतोपात्तं तन्मह्यं सम्प्रदर्शय ॥ ३.१०.४६ ॥

द्रष्टुमिच्छामि ते रूपं शृङ्गारस्याधिदैवतम् ।
अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक् ॥ ३.१०.४७ ॥

इति सम्प्रार्थितः शश्वन्महादेवेन तेन सः ।
यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम् ॥ ३.१०.४८ ॥

तदेवानन्यमनसा ध्यात्वा किञ्चिद्विहस्य सः ।
तथास्त्विति तिरोऽधत्त महायोगेश्वरो हरिः ॥ ३.१०.४९ ॥

शर्वोऽपि सर्वतश्चक्षुर्मुहुर्व्यापारयन्क्वचित् ।
अदृष्टपूर्वमाराममभिरामं व्यलोकयत् ॥ ३.१०.५० ॥

विकसत्कुसुमश्रेणीविनोदिमधुपालिकम् ।
चम्पकस्तबकामोदसुरभीकृतदिक्तटम् ॥ ३.१०.५१ ॥

माकन्दवृन्दमाध्वीकमाद्यदुल्लोलकोकिलम् ।
अशोकमण्डलीकाण्डसताण्डवशिखण्डिकम् ॥ ३.१०.५२ ॥

भृङ्गालिनवझङ्कारजितवल्लकिनिस्वनम् ।
पाटलोदारसौरभ्यपाटलीकुसुमोज्ज्वलम् ॥ ३.१०.५३ ॥

तमालतालहिन्तालकृतमालाविलासितम् ।
पर्यन्तदीर्घिकादीर्घपङ्कजश्रीपरिष्कृतम् ॥ ३.१०.५४ ॥

वातपातचलच्चारुपल्लवोत्फुल्लपुष्पकम् ।
सन्तानप्रसवामोदसन्तानाधिकवासितम् ॥ ३.१०.५५ ॥

तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे ।
पारिजाततरोर्मूले कान्ता काचिददृश्यत ॥ ३.१०.५६ ॥

बालार्कपाटलाकारा नवयौवनदर्पिता ।
आकृष्टपद्मरागाभा चरणाब्जनखच्छदा ॥ ३.१०.५७ ॥

यावकश्रीविनिक्षेपपादलौहित्यवाहिनी ।
कलनिःस्वनमञ्जीरपदपद्ममनोहरा ॥ ३.१०.५८ ॥

मूलम्

यावकश्रीविनिक्षेपपादलौहित्यवाहिनी ।
कलनिःस्वनमञ्जीरपदपद्ममनोहरा ॥ ३.१०.५८ ॥

विश्वास-प्रस्तुतिः

अनङ्गवीरतूणीरदर्पोन्मदनजङ्घिका ।
करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी ॥ ३.१०.५९ ॥

अरुणेन दुकूलेन सुस्पर्शेन तनीयसा ।
अलङ्कृतनितम्बाढ्या जघनाभोगभासुरा ॥ ३.१०.६० ॥

नवमाणिक्यसन्नद्धहेमकाञ्जीविराजिता ।
नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा ॥ ३.१०.६१ ॥

स्तनकुड्मलहिन्दोलमुक्तादामशतावृता ।
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ३.१०.६२ ॥

शिरीषकोमलभुजा कङ्कणाङ्गदशालिनी ।
सोर्मिकां गुलिमन्मृष्टशङ्खसुन्दरकन्धरा ॥ ३.१०.६३ ॥

मुखदर्पणवृत्ताभचुबुकापाटलाघरा ।
शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः ॥ ३.१०.६४ ॥

कुन्दकुड्मलसच्छायैर्दन्तैर्दर्शितचन्द्रिका ।
स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा ॥ ३.१०.६५ ॥

केतकान्तर्द्दलद्रोणिदीर्घदीर्घविलोचना ।
अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा ॥ ३.१०.६६ ॥

पालीवतंसमाणिक्यकुण्डलामण्डितश्रुतिः ।
नवकर्पूरकस्तूरीरसामोदितवीटिका ॥ ३.१०.६७ ॥

शरच्चरुनिशानाथमण्डलीमधुरानना ।
स्फुरत्कस्तूरितिलका नीलकुन्तलसंहतिः ॥ ३.१०.६८ ॥

सीमन्तरेखाविन्यस्तसिन्दूरश्रेणिभासुरा ॥ ३.१०.६९ ॥

विश्वास-प्रस्तुतिः

स्फरच्चन्द्रकलोत्तंसमदलोलविलोचना ।
सर्वशृङ्गारवेषाढ्या सर्वाभरणमण्डिता ॥ ३.१०.७० ॥

तामिमां कन्दुकक्रीडालोलामालोलभूषणाम् ।
दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सोऽन्वधावदथेश्वरः ॥ ३.१०.७१ ॥

उमापि तं समोवेक्ष्य धावन्तं चात्मनः प्रियम् ।
स्वात्मानं स्वात्मर्सोन्दर्यं निन्दन्ती चातिविस्मिता ।
तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता ॥ ३.१०.७२ ॥

गृहीत्वा कथमप्येनामालिलिग मुहुर्मुहुः ।
उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः ॥ ३.१०.७३ ॥

पुनर्गृहीत्वा तामीशः कामं कामवशीसृतः ।
आश्र्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा ॥ ३.१०.७४ ॥

ततः समुत्थितो देवो महाशास्ता महाबलः ।
अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः ॥ ३.१०.७५ ॥

तद्वीर्यबिन्दुसंस्पर्शात्सा भूमिस्तत्रतत्र च ।
रजतस्वर्मवर्णाभूल्लक्षणाद्विन्ध्यमर्दन ॥ ३.१०.७६ ॥

तथैवान्तर्दधे सापि देवता विश्वमोहिनी ।
निवृत्तः स गिरीशोऽपि गिरिं गौरीसखो ययौ ॥ ३.१०.७७ ॥

अथाद्भुतमिदं वक्ष्ये लोपामुद्रापते शृणु ।
यन्न कस्यचिदाख्यातं ममैव त्दृदयेस्थितम् ॥ ३.१०.७८ ॥

पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः ।
पूर्वं देवान्बहुविधान्यः शास्ता स्वेच्छया पटुः ॥ ३.१०.७९ ॥

विशुक्रं नाम दैतेयं वर्गसंरक्षणक्षमम् ।
शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः ॥ ३.१०.८० ॥

वामांसेन विषाङ्गं च सृष्टवान्दुष्टशेखरम् ।
धूमिनीनामधेयां च भगिनीं भण्डदानवः ॥ ३.१०.८१ ॥

भ्रातृभ्यामुग्रवीर्याभ्यां सहितो निहताहितः ।
ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः ॥ ३.१०.८२ ॥

ब्रह्मविष्णुमहेशाश्च तं दृष्ट्वा दीप्ततेजसम् ।
पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन् ॥ ३.१०.८३ ॥

तदानीमेव तद्बाहुमम्मर्द्दन विमूर्च्छिताः ।
श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः ॥ ३.१०.८४ ॥

केचित्पातालगर्भेषु केचिदम्बुधिवारिषु ।
केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम् ॥ ३.१०.८५ ॥

विलीना भृशवित्रस्तास्त्यक्तदारसुतस्त्रियः ।
भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः ॥ ३.१०.८६ ॥

यक्षान्महोरगान्सिद्धान्साध्यान्समरदुर्मदान् ।
ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च ।
मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह ॥ ३.१०.८७ ॥

अथ भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् ।
तृतीयमुदभूद्रूपं महायागानलान्मुने ॥ ३.१०.८८ ॥

यद्रूपशालिनीमाहुर्ललिता परदेवताम् ।
पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम् ॥ ३.१०.८९ ॥

सा देवी परम शक्तिः परब्रह्मस्वरूपिणी ।
जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा ॥ ३.१०.९० ॥

इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मोहिनीप्रादुर्भावमलकासुरवधो नाम दशमोऽध्यायः
समाप्तश्चोपोद्धातखण्डः ।