००७

विश्वास-प्रस्तुतिः

इन्द्र उवाच
भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् ।
स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥ ३.७.१ ॥

मूलम्

बृहस्पतिरुवाच
पापानामधिकं पापं हननं जीवजातिनाम् ।
एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥ ३.७.२ ॥

विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् ।
ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥ ३.७.३ ॥

ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च ।
बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः ।
तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥ ३.७.४ ॥

विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते ।
विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत् ॥ ३.७.५ ॥

ततो देवद्विजातीनां हेमरत्नापहारकम् ।
यो हन्यादविचारेण सोऽश्वमेधफलं लभेत् ॥ ३.७.६ ॥

गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च ।
स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम् ॥ ३.७.७ ॥

अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि ।
दशोत्तरगुणैः पापैर्लिप्यते धनहारकः ॥ ३.७.८ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
रहस्यातिरहस्यं च सर्वपापप्रणाशनम् ॥ ३.७.९ ॥

पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः ।
तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः ।
सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः ॥ ३.७.१० ॥

सर्वैश्वर्यसमृद्धेऽस्मिन्नगरे स तु तस्करः ।
स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत् ॥ ३.७.११ ॥

तदरण्येऽवटं कृत्वा स्थापयामास लोभतः ।
तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति ॥ ३.७.१२ ॥

किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः ।
जहाराविदितस्तेन काष्ठभारं वहन्ययौ ॥ ३.७.१३ ॥

सोऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः ।
पुनश्च तत्पुरं प्रायाद्वज्रोऽपि धनतृष्मया ॥ ३.७.१४ ॥

एवं बहुधनं त्दृत्वा निश्चिक्षेप महीतले ।
किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् ॥ ३.७.१५ ॥

मया काष्ठं समाहर्तुं गच्छता पथि निर्जने ।
लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥ ३.७.१६ ॥

तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः ।
चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥ ३.७.१७ ॥

नित्यं सञ्चरते विप्रो मामकानां गृहेषु यः ।
मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥ ३.७.१८ ॥

चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा ।
किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे ।
लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥ ३.७.१९ ॥

तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे ।
दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत् ॥ ३.७.२० ॥

अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् ।
तदेव तिष्ठति चिरादन्यद्गच्छति कालतः ॥ ३.७.२१ ॥

स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् ।
कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान् ॥ ३.७.२२ ॥

इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् ।
बहूदकसमं देशं तत्र तत्र व्यलोकयत् ॥ ३.७.२३ ॥

निर्ममेऽथ महेन्द्रस्य दिग्भागे विमलोदकम् ।
सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम् ॥ ३.७.२४ ॥

दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च ।
असम्बूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलोऽभवत् ॥ ३.७.२५ ॥

तं चोर वज्रनामानमज्ञातोऽनुचराम्यहम् ।
तेनैव बहुधा क्षिप्तं धनं भूरि महीतले ॥ ३.७.२६ ॥

स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु ।
इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात् ॥ ३.७.२७ ॥

तथैवात्दृत्य तद्द्रव्यं तेन सेतुमपूरयत् ।
मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः ॥ ३.७.२८ ॥

तत्तटाकमभूद्दिव्यमशोषितजलं महत् ।
सेतुमध्ये चकारासौ शङ्करायतनं महत् ॥ ३.७.२९ ॥

काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् ।
तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः ॥ ३.७.३० ॥

देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै ।
ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून् ॥ ३.७.३१ ॥

सन्तोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् ।
क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी ॥ ३.७.३२ ॥

क्व वा महासेतुबन्धः क्व देवालयकल्पना ।
क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च ॥ ३.७.३३ ॥

कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः ।
प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः ॥ ३.७.३४ ॥

द्विजवर्मेति नामास्मै तस्यै शीलवतीति च ।
चक्रुः सन्तुष्टमनसो महात्मानो महौजसः ॥ ३.७.३५ ॥

तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी ।
तत्रैव वसतिं चक्रे मुदितो भार्यया सह ॥ ३.७.३६ ॥

पुरोहिताभिधानेन देवरातपुरन्त्विति ।
नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान् ॥ ३.७.३७ ॥

ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा ।
यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः ॥ ३.७.३८ ॥

अन्योऽन्यमभवत्तेषां युद्धं देवासुरोपमम् ।
अत्रान्तरे समागत्य नारदो मुनिरब्रवीत् ॥ ३.७.३९ ॥

मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम ।
अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत् ॥ ३.७.४० ॥

वायुभूतस्चरेदेको यावद्द्रव्यवतो मृतिः ।
स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः ॥ ३.७.४१ ॥

गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् ।
चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः ॥ ३.७.४२ ॥

भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन ।
त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज ॥ ३.७.४३ ॥

वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् ।
निर्वेदं परमापन्ना मुनिमेवमभाषत ॥ ३.७.४४ ॥

विना पतिमहं तेन न गच्छेयं पितामहम् ।
हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा ॥ ३.७.४५ ॥

ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् ।
परिहारोऽथवा किं तु मया कार्यस्तु तेन वा ॥ ३.७.४६ ॥

इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः ।
भोगात्मकं शरीरं तु कर्म कार्यकरं तव ॥ ३.७.४७ ॥

मम प्रभावाद्भविता परिहारं वदामि ते ।
निराहारो महातीर्थेस्नात्वा नित्यं हि साम्बिकम् ॥ ३.७.४८ ॥

पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः ।
ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत् ॥ ३.७.४९ ॥

ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः ।
पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः ॥ ३.७.५० ॥

इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः ।
अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत् ॥ ३.७.५१ ॥

भर्तुः प्रियार्थे सङ्कल्प्य जजाप परमं जपम् ।
विमुक्तस्तेयदोषेण स्वशरीरमवाप सः ॥ ३.७.५२ ॥

ततो वज्राभिधश्चौरः कालधर्ममुपागतः ।
अन्ये तद्द्रव्यवन्तोऽपि कालधर्ममुपागताः ॥ ३.७.५३ ॥

यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह ॥ ३.७.५४ ॥

विश्वास-प्रस्तुतिः

भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत ।
किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा ॥ ३.७.५५ ॥

इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः ।
सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते ॥ ३.७.५६ ॥

पुनराह यमो यूयं पुत्रमित्र कलत्रकैः ।
एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम् ॥ ३.७.५७ ॥

तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः ।
यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा ॥ ३.७.५८ ॥

द्विजवर्माखिलांल्लोकानतीत्य प्रमदासखः ।
गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते ॥ ३.७.५९ ॥

तारतम्यविभागं च कथय त्वं महामते ।
सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् ॥ ३.७.६० ॥

पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः ।
वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे ॥ ३.७.६१ ॥

मनोवाक्कायचेष्टाभिश्चतुर्धाक्रियते कृतिः ।
विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः ॥ ३.७.६२ ॥

आसवस्य तु किं रूपं को दोषः कश्चवा गुणः ।
अन्नं दोषकरं किं तु तन्मे विस्तरतो वद ॥ ३.७.६३ ॥

पैष्टिकं तालजं कैरं माधूकं गुडसम्भवम् ।
क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा ॥ ३.७.६४ ॥

क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते ।
स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना ॥ ३.७.६५ ॥

पतिहीना च कन्या च त्यजेदृतुमती तथा ।
अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा ॥ ३.७.६६ ॥

उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव ॥ ३.७.६७ ॥

विश्वास-प्रस्तुतिः

दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् ।
स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे ॥ ३.७.६८ ॥

मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायमं चरेत् ।
जपेच्चायुतगायत्रीं जातवेदसमेव वा ॥ ३.७.६९ ॥

अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः ।
क्षत्रियोऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात् ॥ ३.७.७० ॥

स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि ।
अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात् ॥ ३.७.७१ ॥

लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुराम्बिका ।
भैरवो भैरवी काली महाशास्त्री च मातरः ॥ ३.७.७२ ॥

अन्याश्च शक्तयस्तासां पूजने मधु शस्यते ।
ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः ॥ ३.७.७३ ॥

तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः ।
तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम् ॥ ३.७.७४ ॥

कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा ।
प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ ३.७.७५ ॥

अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः ।
रौरवे नरकेऽब्दं तु निवसेद्ब्रिन्दुसङ्ख्यया ॥ ३.७.७६ ॥

भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः ।
प्रायश्चितं न चैवास्य शिलाग्निपतनादृते ॥ ३.७.७७ ॥

द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा ।
अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥ ३.७.७८ ॥

अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि ।
चान्द्रायणेन कृच्छ्रेण दिनसङ्ख्याकृतेन च ।
शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥ ३.७.७९ ॥

इति ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तेयपानकथनं नाम सप्तमोऽध्यायः