००६

विश्वास-प्रस्तुतिः

अथोपवेश्य चैवैनमासने परमाद्भुते ।
हयाननमुपागत्यागस्त्यो वाक्यं समब्रवीत् ॥ ३.६.१ ॥

मूलम्

भगवन्सर्वधर्मज्ञ सर्वसिद्धान्तवित्तम् ।
लोकाभ्युदयहेतुर्हि दर्शनं हि भवादृशाम् ॥ ३.६.२ ॥

आविर्भावं महादेव्यास्तस्या रूपान्तराणि च ।
विहारश्चैव मुख्या ये तान्नो विस्तरतो वद ॥ ३.६.३ ॥

हयग्रीव उवाच
अनादिरखिलाधारा सदसत्कर्मरूपिणी ।
ध्यानैकदृश्या ध्यानाङ्गी विद्याङ्गी हृदयास्पदा ॥ ३.६.४ ॥

आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥ ३.६.५ ॥

विश्वास-प्रस्तुतिः

आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः ।
प्रकृतिर्नाम सा ख्याता देवानामिष्टसिद्धिदा ॥ ३.६.६ ॥

द्वितीयमुदभूद्रूपं प्रवृत्तेऽमृतमन्थने ।
शर्वसम्मोहजनकमवाङ्मनसगोजरम् ॥ ३.६.७ ॥

यद्दर्शनादभूदीशः सर्वज्ञोऽपि विमोहितः ।
विसृज्य पार्वतीं शीघ्रन्तया रुद्धोऽतनोद्रतम् ॥ ३.६.८ ॥

तस्यां वै जनयामास शास्तारमसुरार्दनम् ॥ ३.६.९ ॥

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
कथं वै सर्वभूतेशो वशी मन्मथ शासनः ।
अहो विमोहितो देव्या जनयामास चात्मजम् ॥ ३.६.१० ॥

मूलम्

अगस्त्य उवाच
कथं वै सर्वभूतेशो वशी मन्मथ शासनः ।
अहो विमोहितो देव्या जनयामास चात्मजम् ॥ ३.६.१० ॥

विश्वास-प्रस्तुतिः

हयग्रीव उवाच
पुरामरपुराधीशो विजयश्रीसमृद्धिमान् ।
त्रैलोक्यं पालयामास सदेवासुरमानुषम् ॥ ३.६.११ ॥

कैलासशिखराकारं गजेन्द्रमधिरुह्य सः ।
चचाराखिललोकेषु पूज्यमानोऽखिलैरपि ।
तं प्रमत्तं विदित्वाथ भवानीपतिख्ययः ॥ ३.६.१२ ॥

दुर्वाससमथाहूय प्रजिघाय तदन्तिकम् ।
खण्डाजिनधरो दण्डीधूरिधूसरविग्रहः ।
उन्मत्तरूपधारी च ययौ विद्याधराध्वना ॥ ३.६.१३ ॥

एतस्मिन्नन्तरे काले काचिद्विद्याधराङ्गना ।
यदृच्छयागता तस्य पुरश्चारुतराकृतिः ॥ ३.६.१४ ॥

चिरकालेन तपसा तोषयित्वा पराम्बिकाम् ।
तत्समर्पितमाल्यं च लब्ध्वा सन्तुष्टमानसा ॥ ३.६.१५ ॥

तां दृष्ट्वा मृगुशावाक्षीमुवाच मुनिपुङ्गवः ।
कुत्र वा गम्यते भीरु कुतो लब्धमिदं त्वया ॥ ३.६.१६ ॥

प्रणम्य सा महात्मानमुवाच विनयान्विता ।
चिरेण तपसा ब्रह्मन्देव्या दत्तं प्रसन्नया ॥ ३.६.१७ ॥

तछ्रुत्वा वचनं तस्याः सोऽपृच्छन्माल्यमुत्तमम् ।
पृष्टमात्रेण सा तुष्टा ददौ तस्मै महात्मने ॥ ३.६.१८ ॥

कराभ्यां तत्समादाय कृतार्थोऽस्मीति सत्वरम् ।
दधौ स्वशिरसा भक्त्या तामुवाचातिर्षितः ॥ ३.६.१९ ॥

ब्रह्मादीनामलभ्यं यत्तल्लब्धं भाग्यतो मया ।
भक्तिरस्तु पदाम्भोजे देव्यास्तव समुज्ज्वला ॥ ३.६.२० ॥

भविष्यच्छोभनाकारे गच्छ सौम्ये यथासुखम् ।
सा तं प्रणम्य शिरसा ययौ तुष्टा यथागतम् ॥ ३.६.२१ ॥

प्रेषयित्वा स तां भूयो ययौ विद्याधराध्वना ।
विद्याधरवधूहस्तात्प्रतिजग्राह वल्लकीम् ॥ ३.६.२२ ॥

दिव्यस्रगनुलेपांश्च दिव्यान्याभरणानि च ।
क्वचिद्गृह्णन्क्वचिद्गा यन्क्वचिद्धसन् ॥ ३.६.२३ ॥

स्वेच्छाविहारी स मुनिर्ययौ यत्र पुरन्दरः ।
स्वकरस्थां ततो मालां शक्राय प्रददौ मुनिः ॥ ३.६.२४ ॥

तां गृहीत्वा गजस्कन्धे स्थापयामास देवराट् ।
गजस्तु तां गृहीत्वाथ प्रेषयामास भूतले ॥ ३.६.२५ ॥

तां दृष्ट्वा प्रेषितां मालां तदा क्रोधेन तापसः ।
उवाच न धृता माला शिरसा तु मयार्पिता ॥ ३.६.२६ ॥

त्रैलोक्यैश्वर्यमत्तेन भवता ह्यवमानिता ।
महादेव्या धृता या तु ब्रह्माद्यैः पूज्यतेहि सा ॥ ३.६.२७ ॥

त्वया यच्छासितो लोकः सदेवासुरमानुषः ।
अशोभनो ह्यतेजस्को मम शापाद्भविष्यति ॥ ३.६.२८ ॥

इति शप्त्वा विनीतेन तेन सम्पूजितोऽपि सः ।
तूष्णीमेव ययौ ब्रह्मन्भाविकार्यमनुस्मरन् ॥ ३.६.२९ ॥

विजयश्रीस्ततस्तस्य दैत्यं तु बलिमन्वगात् ।
नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगात् ॥ ३.६.३० ॥

इन्द्रोऽपि स्वपुरं गत्वा सर्वदेवसमन्वितः ।
विषण्णचेता निःश्रीकश्चिन्तयामास देवराट् ॥ ३.६.३१ ॥

अथामरपुरे दृष्ट्वा निमित्तान्यशुभानि च ।
बृहस्पतिं समाहूय वाक्यमेतदुवाच ह ॥ ३.६.३२ ॥

भगवन्सर्वधर्मज्ञ त्रिकालज्ञानकोविद ।
दृश्यतेऽदृष्टपूर्वाणि निमित्तान्यशुभानि च ॥ ३.६.३३ ॥

किम्फलानि च तानि स्युरुपायो वाथ कीदृशः ।
इति तद्वचनं श्रुत्वा देवेन्द्रस्य बृहस्पतिः ।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम् ॥ ३.६.३४ ॥

कृतस्य कर्मणो राजन्कल्पकोटिशतैरपि ।
प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते ॥ ३.६.३५ ॥

इन्द्र उवाच
कर्म वा कीदृशं ब्रह्मन्प्रायश्चित्तं च कीदृशम् ।
तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ ३.६.३६ ॥

बृहस्पतिरुवाच
हननस्तेयहिंसाश्च पानमन्याङ्गनारतिः ।
कर्म पञ्चविधं प्राहुर्दुष्कृतं धरणीपतेः ॥ ३.६.३७ ॥

ब्रह्मक्षत्रियविट्शूद्रगोतुरङ्गखरोष्ट्रकाः ।
चतुष्पदोऽण्डजाब्जाश्च तिर्यचोऽनस्थिकास्तथा ॥ ३.६.३८ ॥

अयुतं च सहस्रं च शतं दश तथा दश ।
दशपञ्चत्रिरेकार्धमानुपूर्व्यादिदं भवेत् ॥ ३.६.३९ ॥

ब्रह्मक्षत्रविशां स्त्रीणामुक्तार्थे पापमादिशेत् ।
पितृमातृगुरुस्वामि पुत्राणां चैव निष्कृतिः ॥ ३.६.४० ॥

गुर्वाज्ञया कृतं पापं तदाज्ञालङ्घनेर्ऽथकम् ।
दशब्राह्मणभृत्यर्थमेकं हन्याद्द्विजं नृपः ॥ ३.६.४१ ॥

शतब्राह्मणभृत्यर्थं ब्राह्मणो ब्राह्मणं तु वा ।
पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेत् ॥ ३.६.४२ ॥

वैश्यं दशविशामर्थे विशां वा दण्डयेत्तथा ।
तथा शतविशामर्थे द्विजमेकं तु दण्डयेत् ॥ ३.६.४३ ॥

शूद्राणां तु सहस्राणां दण्डयेद्ब्राह्मणं तु वा ।
तच्छतार्थं तु वा वैश्यं तद्दशार्द्धं तु शूद्रकम् ॥ ३.६.४४ ॥

बन्धूनां चैव मित्राणामिष्टार्थे तु त्रिपादकम् ।
अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन ॥ ३.६.४५ ॥

आत्मानं हन्तुमारब्धं ब्राह्मणं क्षत्रियं विशम् ।
गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते ॥ ३.६.४६ ॥

आत्मदारात्मजभ्रातृबन्धूनां च द्विजोत्तम ।
क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम् ॥ ३.६.४७ ॥

भूपद्विजश्रोत्रियवेदविद्व्रतीवेदान्तविद्वेदविदां विनाशे ।
एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति सन्तः ॥ ३.६.४८ ॥

तेषां च रक्षणविधौ हि कृते च दाने पूर्वोदितोत्तरगुणं प्रवदन्ति पुण्यम् ।
तेषां च दर्शनविधौ नमने चकार्ये शूश्रूषणेऽपि चरतां सदृशांश्च तेषाम् ॥ ३.६.४९ ॥

सिंहव्याघ्रमृगादीनि लोकहिंसाकराणि तु ।
नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके ॥ ३.६.५० ॥

आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत् ॥ ३.६.५१ ॥

विश्वास-प्रस्तुतिः

नात्मार्थे पाचयेदन्न नात्मार्थे पाचयेत्पशून् ।
देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥ ३.६.५२ ॥

पुरा भगवती माया जगदुज्जीवनोन्मुखी ।
ससर्ज सर्वदेवांश्च तथैवासुरमानुषान् ॥ ३.६.५३ ॥

तेषां संरक्षणार्थाय पशूनपि चतुर्दश ।
यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह ॥ ३.६.५४ ॥

यजध्वं पशुभिर्देवान्विधिनानेन मानवाः ।
इष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः ॥ ३.६.५५ ॥

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि ॥ ३.६.५६ ॥

देवतार्थे च पित्रर्थे तथैवाभ्यागते गुरौ ।
महदागमने चैव हन्यान्मेध्यान्पशून्द्विजः ॥ ३.६.५७ ॥

आपत्सु ब्राह्मणो मांसं मेध्यमश्नन्न दोषभाक् ।
विहितानि तु कार्याणि प्रतिषिद्धानि वर्जयेत् ॥ ३.६.५८ ॥

पुराभूद्युवनाश्वस्य देवतानां महाक्रतुः ।
ममायमिति देवानां कलहः समजायत ॥ ३.६.५९ ॥

तदा विभज्य देवानां मानुषांश्च पशूनपि ।
विभज्यैकैकशः प्रदाद्ब्रह्मा लोकपितामहः ॥ ३.६.६० ॥

ततस्तु परमा शक्तिर्भूतसन्धसहायिनी ।
कुपिताभूत्ततो ब्रह्मा तामुवाच नयान्वितः ॥ ३.६.६१ ॥

प्रादुर्भूता समुद्वीक्ष्य भूतानन्दभयान्वितः ।
प्राञ्जलिः प्रणतस्तुत्वा प्रसीदेति पुनः पुनः ॥ ३.६.६२ ॥

प्रादुर्भूता यतोऽसि त्वं कृतर्थोऽस्मि पुरो मम ।
त्वयैतदखिलं कर्म निर्मितं सुशुभाशुभम् ॥ ३.६.६३ ॥

श्रुतयः स्मृतयश्चैव त्वयैव प्रतिपादिताः ।
त्वयैव कल्पिता यागा मन्मुखात्तु महाक्रतौ ॥ ३.६.६४ ॥

ये विभक्तास्तु पशवो देवानां परमेश्वरि ।
ते सर्वे तावकाः सन्तुभूतानामपि तृप्तये ॥ ३.६.६५ ॥

इत्युक्त्वान्तर्दधे तेषां पुर एव पितामहः ।
तदुक्तेनैव विधिना चकार च महाक्रतून् ॥ ३.६.६६ ॥

इयाज च परां शक्तिं हत्वा मेध्यान्पशूनपि ।
तत्तद्विभागो वेदेषु प्रोक्तत्वादिह नोदितः ॥ ३.६.६७ ॥

स्त्रियः शुद्रास्तथा मांसमादद्युर्ब्राह्मणं विना ।
आपत्सु ब्राह्मणो वापि भक्षयेद्गुर्वनुज्ञया ॥ ३.६.६८ ॥

शिवोद्भवमिद पिण्डमत्यथ शिवतां गतम् ।
उद्बुध्यस्व पशो त्वं हि नाशिवः सञ्छिवो ह्यसि ॥ ३.६.६९ ॥

ईशः सर्वजगत्कर्ता प्रभवः प्रलयस्तथा ।
यतो विश्वाधिको रुद्रस्तेन रुद्रोऽसि वै पशो ॥ ३.६.७० ॥

अनेन तुरगं गा वा गजोष्ट्रमहिषादिकम् ।
आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते ॥ ३.६.७१ ॥

गृहानिष्टकरान्वापि नागाखुबलिवृश्चिकान् ।
एतद्गृहाश्रमस्थानां क्रियाफलमभीप्सताम् ।
मनःसङ्कल्पसिद्धानां महतां शिववर्चसाम् ॥ ३.६.७२ ॥

पशुयज्ञेन चान्येषामिष्टा पूर्तिकरं भवेत् ।
जपहोमार्चनाद्यैस्तु तेषामिष्टं च सिध्यति ॥ ३.६.७३ ॥

इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः