००२

विश्वास-प्रस्तुतिः

वायुरुवाच
असाधारणवृत्तैस्तु हुतशेषादिभिर्जनैः ।
धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः ॥ ३.२.१ ॥

मूलम्

ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः ।
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥ ३.२.२ ॥

अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।
देवाश्च ऋषयश्चैव मनवः पितरस्तथा ॥ ३.२.३ ॥

सर्वे ह्युक्ता मयातीत महर्लोकं समाश्रिताः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सरैः ॥ ३.२.४ ॥

तैस्तथाकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः ।
वर्णाश्रमाणान्धर्मेषु श्रौतस्मार्त्तेषु संस्थितैः ।
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ३.२.५ ॥

ऋषय ऊचुः
महर्ल्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभोः ॥ ३.२.६ ॥

प्रतिलोके तु कर्त्तव्यं तत्रकिं समधिष्ठितम् ।
प्रोवाच मधुरं वाक्यं यथा तत्त्वेन तत्त्ववित् ॥ ३.२.७ ॥

चतर्दशैव स्थानानि निर्मितानि महर्षिभिः ।
लोकाख्यानि तु यानि स्युर्येषां तिष्ठन्ति मानवाः ॥ ३.२.८ ॥

सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै ।
भूरादयस्तु सत्यान्ताः सप्त लोकाः कृतास्त्विह ॥ ३.२.९ ॥

अकृतानि तु सप्तैव प्राकृतानि तु यानि वै ।
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ॥ ३.२.१० ॥

पृथिवी चान्तरीक्षं च दिव्यं यच्च महः स्मृतम् ।
स्थानान्येतानि चत्वारि स्मृतान्यावर्णकानि च ॥ ३.२.११ ॥

क्षयातिशययुक्तानि तथायुक्तानि चक्षते ।
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसम्प्लवात् ॥ ३.२.१२ ॥

जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु ।
एकान्तिकानि तानि स्युस्तिष्ठन्तीहाप्रसंयमात् ॥ ३.२.१३ ॥

व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै ।
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ ३.२.१४ ॥

स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः ।
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ ३.२.१५ ॥

सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् ।
भूरिति व्याहृतेः पूर्व भूर्लोकश्च ततोऽभवत् ॥ ३.२.१६ ॥

द्वीतीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् ।
तृतीयं स्वरितीत्युक्तो दिवं प्रादुर्बभूव ह ॥ ३.२.१७ ॥

व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् ।
ततो भूः पार्थिवो लोको ह्यन्तरिक्षं भूवः स्मृतम् ॥ ३.२.१८ ॥

स्वर्लोकं वै दिवं ह्येष पुराणे निश्चयो गतः ।
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ ३.२.१९ ॥

वायुर्भुवश्चाधिपतिस्तेन वायुर्भुवस्पतिः ।
दिवस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ ३.२.२० ॥

महेति व्याहृतेनैव महर्लोकस्ततोऽभवत् ।
विनिवृत्ताधिकारणां देवानां तत्र वै क्षयः ॥ ३.२.२१ ॥

जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः ।
तासां स्वायम्भुवाद्यानां प्रजानां जननाज्जनः ॥ ३.२.२२ ॥

ये ते स्वायम्भुवाद्या हि पुरस्तात्परिकीर्त्तिताः ।
कल्प एते यदा लोके प्रतिष्ठन्ति तदा तपः ॥ ३.२.२३ ॥

ऋभुः सनत्कुमाराद्या यत्रासन्नूर्द्ध्वरेतसः ।
तपसा भावितात्मानस्तत्र सन्तीति वा तपः ॥ ३.२.२४ ॥

सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु स स्मृतः ।
ब्रह्मलोकस्ततः सत्यः सप्तमः स तु भास्वरः ॥ ३.२.२५ ॥

गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः ।
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ॥ ३.२.२६ ॥

स्वर्लोकवासिनः सर्वे देवा भुवि निवासिनः ।
मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ ॥ ३.२.२७ ॥

अनिकेतान्तरिक्षास्ते भुवर्लोका दिवौकसः ।
आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा ॥ ३.२.२८ ॥

ऋषयोङ्गिर सश्चैव भुवर्लोकं समाश्रिताः ।
एते वैमानिका देवास्ताराग्रहनिवासिनः ॥ ३.२.२९ ॥

आरम्भन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ।
शुक्राद्याश्चक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः ॥ ३.२.३० ॥

महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ।
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः ॥ ३.२.३१ ॥

भूर्लोकप्रथमा लोका महरन्ताश्च ते स्मृताः ।
तान्सर्वान्सप्तसूर्यास्ते अर्चिभिर्निर्दहन्ति वै ॥ ३.२.३२ ॥

मारीचिः कश्यपो दक्षस्तथा स्वायम्भुवोङ्गिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥ ३.२.३३ ॥

प्रजानां पतयः सर्वे वर्त्तन्न्ने तत्र तैः सह ।
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्वरेतसः ॥ ३.२.३४ ॥

ऋभुः सनत्कुमाराद्या वैराजास्ते तपोधनाः ।
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः ॥ ३.२.३५ ॥

चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः ।
योगं तपश्च सत्त्वं च समाधाय तदात्मनि ॥ ३.२.३६ ॥

षष्ठे काले निवर्त्तते तदा प्राहुर्विपर्ययात् ।
सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् ॥ ३.२.३७ ॥

ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।
पर्यासपरिमाणेन भूर्लोकः समभिस्मृतः ॥ ३.२.३८ ॥

भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ।
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः ॥ ३.२.३९ ॥

ध्रुवाज्जनान्तरं यच्च महर्लोकः स उच्यते ।
व्याख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः ॥ ३.२.४० ॥

भूर्लोकवासिनः सर्वे उन्नादास्तु रसात्मकाः ।
भुवि स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते ॥ ३.२.४१ ॥

चतुर्थे येऽपि वर्त्तन्ते महर्लोकं समाश्रिताः ।
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा ॥ ३.२.४२ ॥

सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ।
एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम् ॥ ३.२.४३ ॥

अतीता वर्त्तमानाश्च तथा ये चाप्यनागताः ।
प्रथमानन्तरोद्दिष्टा अन्तराः साम्प्रतैः पुनः ॥ ३.२.४४ ॥

निवर्त्तते हि सम्बन्धोऽतीते देवगणे तपः ।
विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी ॥ ३.२.४५ ॥

तषां तु मानसी ज्ञेया शुद्धा सिद्धिः परस्परात् ।
उक्ता लोकास्तु चत्वारो जनस्यानुविधिस्तथा ।
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ॥ ३.२.४६ ॥

मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः ॥ ३.२.४७ ॥

पुलस्त्यः पुलहस्छैव क्रतुरित्येवामादयः ।
पूर्वं ते सम्प्रसूयन्ते ब्रह्मणो मानसा इह ॥ ३.२.४८ ॥

ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ।
कल्पदाहेषु तु सदा तथा कालेषु तेषु वै ॥ ३.२.४९ ॥

भूरादिषु महान्तेषु भृशं व्याप्ते यथाग्निना ।
शिखाः संवर्त्तकाग्नेर्याः प्राप्नुवन्ति सवासनाः ॥ ३.२.५० ॥

यामादयो गणाः सर्वे महर्लोकनिवासिनः ।
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते ॥ ३.२.५१ ॥

सर्वे सूक्ष्मशरीरास्ते तत्रस्थाश्च भवन्ति ते ।
तेषां ते तुल्यसामर्थ्या स्तुल्यमूर्त्तिधरास्तथा ॥ ३.२.५२ ॥

जनलोके विवर्त्तन्ते संवर्त्तः प्लवते जगत् ।
व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनितः ॥ ३.२.५३ ॥

अहरादौ प्रसूयन्ते पूर्ववत्क्रमशस्त्विह ।
स्वायम्भुवादयः सर्वे मरीच्यन्तास्तु साधकाः ॥ ३.२.५४ ॥

देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ।
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः ॥ ३.२.५५ ॥

पूर्वं पूर्वे प्रसूयन्ते पश्चिमे पश्चिमास्तथा ।
देवान्वये देवता हि सप्त सम्भूत यः स्मृताः ॥ ३.२.५६ ॥

व्यतीताः कल्पजास्तेषां तिस्रः शिष्टास्तथापरे ।
आवर्त्तमाना देवास्ते क्रमेणैतेन सर्वशः ॥ ३.२.५७ ॥

गत्वा जव जवीभावं दशकृत्वाः पुनः पुनः ।
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम् ॥ ३.२.५८ ॥

भाविनोर्ऽथस्य च बलात्पुण्यख्यातिबलेन च ।
निवृत्तवृत्त्यः सर्वेऽत्रस्थाः सुमनसस्तथा ॥ ३.२.५९ ॥

वैराजमुपपद्यन्ते लोकानुत्सृज्य तं गताः ।
ततोऽनेनैव कालेन नित्ययुक्तास्तपस्विनः ॥ ३.२.६० ॥

कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ।
इहोत्पन्नास्ततस्ते वै स्थानान्यापूरयन्त्युत ॥ ३.२.६१ ॥

देवत्वे च ऋषित्वे च मनुष्यत्वे च सर्वशः ।
एवं देवगणाः सर्वे दशकृत्वो निवर्त्यवै ॥ ३.२.६२ ॥

वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ।
पूर्णोपूर्णो ततः कल्पेस्थित्वा वैराजके पुनः ॥ ३.२.६३ ॥

ब्रह्मलोके विवर्त्तन्ते पूर्वपूर्वक्रमेण तु ।
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते ॥ ३.२.६४ ॥

वैराजः पुनरव्यक्ते कल्पस्थानमकल्पयत् ।
एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै ॥ ३.२.६५ ॥

वैराजेषूपपद्यन्ते दशकृत्वो विवर्त्यत ।
एवं देवयुगानीह व्यतीतानि सहस्रशः ॥ ३.२.६६ ॥

निधनं ब्रह्मलोके तु गतानामृषिभिः सह ।
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् ॥ ३.२.६७ ॥

अनादित्वाच्च कालस्य ह्यसङ्ख्यानाच्च सर्वशः ।
एवमेव न सन्देहो यथावत्कथितं मया ॥ ३.२.६८ ॥

तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः ।
सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम् ॥ ३.२.६९ ॥

वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः ।
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥ ३.२.७० ॥

तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित् ।
सूतः पौराणिको वाक्यं विनयेनेदम ब्रवीत् ॥ ३.२.७१ ॥

ततः प्राप्य तु सर्वेशं शुद्धबुद्धिं तमाश्रयत् ।
आभूतसम्प्लवास्तत्र दश तिष्ठन्ति तेऽज्वराः ॥ ३.२.७२ ॥

सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः ।
स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥ ३.२.७३ ॥

ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः ।
एवमेव महाभागाः प्रणवं सम्प्रविश्य ह ॥ ३.२.७४ ॥

ब्रह्मलोके प्रवर्त्तामस्तन्नः श्रेयो भविष्यते ।
एवमुक्त्वा तदा सर्वे ब्रह्माण्डाध्यवसायि नः ॥ ३.२.७५ ॥

याजयित्वा तदात्मानो वर्त्तन्ते योगधर्मिणः ।
तत्रैव सम्प्रलीयन्ते शान्ता दीपर्चिषो यथा ॥ ३.२.७६ ॥

ब्रह्मकायमवर्त्तन्त पुन रावृत्तिदुर्लभम् ।
लोकं तं समनुप्राप्य सर्वे ते भावनामयम् ॥ ३.२.७७ ॥

आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः ।
वैराजेभ्यस्तथैवोर्द्ध्व मन्तरे षड्गुणे ततः ॥ ३.२.७८ ॥

ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ।
ते सर्वे प्रणवात्मानो बुद्धिशुद्धतया स्थिताः ॥ ३.२.७९ ॥

आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वं भजन्त्युत ।
द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः ॥ ३.२.८० ॥

आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ।
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनः ॥ ३.२.८१ ॥

ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्यानिवर्त्तिनीम् ।
ब्रह्मणा सहदेवैश्च सम्प्राप्ते प्रतिसञ्चरे ॥ ३.२.८२ ॥

तपसोंऽते क्रियात्मानो बुद्धावस्था मनीषिणः ।
अव्यक्ते सम्प्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ३.२.८३ ॥

इत्येतदमृतं शुक्रं नित्यमक्षयव्ययम् ।
देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ३.२.८४ ॥

अपुनर्मारकादीनां तेषां चैवोद्ध्वरेतसाम् ।
कर्माभ्यासकृतां श्रद्धां वेदान्तेषूपलक्ष्यते ॥ ३.२.८५ ॥

तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते ।
हित्वा शरीरं पाप्मानममृतत्वाय ते गाताः ॥ ३.२.८६ ॥

वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः ।
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ३.२.८७ ॥

निःसङ्गाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः ।
अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ॥ ३.२.८८ ॥

तेषाम्मभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ।
एतद्ब्रह्मपदं दिव्यं परमे व्योम्नि भास्वरम् ।
यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ३.२.८९ ॥

कस्मादेषु परार्द्धंश्च कश्चैव पर उच्यते ।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥ ३.२.९० ॥

सूत उवाच
शृणुध्वं मे परार्द्धस्य परिसङ्ख्यां परस्यच ॥ ३.२.९१ ॥

एकं दशशतं चैव सहस्रं चैव सङ्ख्याया ।
विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् ॥ ३.२.९२ ॥

एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः ।
तथा शतसहस्राणां दशप्रयुतमुच्यते ॥ ३.२.९३ ॥

तथा दशसहस्राणामयुतं कोटिरुच्यते ।
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ॥ ३.२.९४ ॥

सहस्रमापि कोटीनां खर्वमाहुर्मनीषिणः ।
दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ३.२.९५ ॥

शतं कोटि सहस्राणां शङ्कुरित्यभिधीयते ।
सहस्रं तु सहस्राणां कोटीनां पद्ममुच्यते ॥ ३.२.९६ ॥

सहस्राणि सहस्राणां कोटीनां दशधा पुनः ।
गुणितानि समुद्रं वै प्राहुः सङ्ख्याविदो जनाः ॥ ३.२.९७ ॥

कोटीसहस्रनियुतमन्त्यमित्यभिधीयते ।
कोटीसहस्रप्रयुतं मध्यमित्यभिसञ्ज्ञितम् ॥ ३.२.९८ ॥

कोटिकोटिसहस्रं तु परार्द्ध इति कीर्त्यते ।
परार्द्धं द्विगुणं चापि परमाहुर्मनीषिणः ॥ ३.२.९९ ॥

शतमाहुः परिवृढं सहस्रं परिपद्मकम् ।
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥ ३.२.१०० ॥

अर्बुदं न्यर्बुदं चैव खर्बुदं च ततः स्मृतम् ।
खर्वं चैव निखर्वं च शङ्कुः पद्मन्तथैव च ॥ ३.२.१०१ ॥

समुद्रमन्त्यं मध्यं च परार्द्धं च परं ततः ।
एवमष्टादशैतानि स्थानानि गणनाविधौ ॥ ३.२.१०२ ॥

शतादीनि विजानीयात्सञ्ज्ञितानि महर्षिभिः ।
कल्पसङ्ख्याप्रवृत्तस्य परार्द्धो ब्रह्ममः स्मृतः ॥ ३.२.१०३ ॥

तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतितिष्ठते ।
पर एव परार्द्धश्च सङ्ख्यातः सङ्ख्याया मया ॥ ३.२.१०४ ॥

यस्मादस्य परं विर्यं परमायुः परं तपः ।
परा शक्तिः परो धर्मः पराविद्या परा धृतिः ॥ ३.२.१०५ ॥

परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च ।
तस्मात्परतरं भूतं ब्रह्मणो यन्न विद्यते ॥ ३.२.१०६ ॥

परे स्थितो ह्येष परः सर्वार्थेवु ततः परम् ।
सङ्ख्यातस्तु परो ब्रह्मा तस्यार्द्धस्य परार्द्धता ॥ ३.२.१०७ ॥

सङ्ख्येयं चाप्यसङ्ख्येयं सततं चापि तान्त्रिकम् ।
सङ्ख्येयं सङ्ख्यया दृष्टमपरार्द्धाद्विभाष्यते ॥ ३.२.१०८ ॥

राशौ दृष्टे न सङ्ख्यास्ति तदसङ्ख्यास्तु लक्ष्णम् ।
आनन्त्यं सिकता द्येषु हृष्टं चान्यं त्वलक्षणम् ॥ ३.२.१०९ ॥

ईश्वरैस्तत्प्रसङ्ख्यानं शुद्धत्वाद्दिव्यदृष्टिभिः ।
एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति ॥ ३.२.११० ॥

एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः ।
बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः ॥ ३.२.१११ ॥

पप्रच्छुर्मातारिश्वानं सर्वे ते ब्रह्मवादिनः ।
ब्रह्मलोकस्तु भगवन्यावन्मात्रान्तरे प्रभो ॥ ३.२.११२ ॥

योजनाग्रेण सङ्ख्यातः साधनं योजनस्य तु ।
क्रोशस्य च परीमाणं श्रोतुमीच्छाम तत्त्वतः ॥ ३.२.११३ ॥

तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवत् ।
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥ ३.२.११४ ॥

एतद्वोऽहं प्रवक्ष्यामि श्रुणुध्वं मे विवक्षितम् ।
अव्यक्ताद्व्यक्तभागो वै महान्स्थूलो विभाष्यते ॥ ३.२.११५ ॥

दशैव महतो भागा भूतादिः स्थूल उच्यते ।
दशभागाधिकं चापि भूतादिपरिमाणकम् ॥ ३.२.११६ ॥

परमाणुः सुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा ।
यदभेद्यतमं लोके विज्ञेयं परमाणुवत् ॥ ३.२.११७ ॥

जालान्तरगते भानैं यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥ ३.२.११८ ॥

अष्टानां परमाणूनां समावायो यदा भवेत् ।
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥ ३.२.११९ ॥

त्रसरेणवोऽथ येऽप्यष्टौ रथरेणुस्तु सस्मृतः ।
तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ॥ ३.२.१२० ॥

बालाग्राण्यष्टलिक्षा स्याद्यूकालिक्षाष्टकं भवेत् ।
यूकाष्टकं यवप्राहुरङ्गुलं तु यवाष्टकम् ॥ ३.२.१२१ ॥

द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते ।
रत्निश्चागुलिपर्वाणि विज्ञेयो ह्येकविंशतिः ॥ ३.२.१२२ ॥

चत्वारो विंशतिश्चैव हस्तः स्यादङ्गुलानि तु ।
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ॥ ३.२.१२३ ॥

षण्णवत्यङ्गुलं चैव धनुराहुर्मनीषिणः ।
एतद्गव्यूतिसङ्ख्यायामादानं धनुषः स्मृतम् ॥ ३.२.१२४ ॥

धनुर्दण्डयुगं नाली तुल्यान्यस्तैस्तथाङ्गुलैः ।
धनुषां त्रिशतं नल्वमाहुः सङ्ख्याविदो जनाः ॥ ३.२.१२५ ॥

धनुः सहस्रे द्वे चापि गव्यूतिरुपदिश्यते ।
अष्टौ धनुः सहस्राणि योजनं तु विधीयते ॥ ३.२.१२६ ॥

एतेन धनुषा चैव योजनं तु समाप्यते ।
एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा ॥ ३.२.१२७ ॥

योजनानां च सङ्ख्यातं सङ्ख्याज्ञानविशारदैः ।
एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोंऽतरे ॥ ३.२.१२८ ॥

महीतलात्सहस्राणां रातादूर्ध्वं दिवाकरः ।
दिवाकरात्सहस्रे तु शते चौर्द्ध्वं निशाकरः ॥ ३.२.१२९ ॥

पूर्णं शतसहस्रं तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशत ॥ ३.२.१३० ॥

शतं सहस्रं सङ्ख्यातमेतद्द्विगुणितं पुनः ।
ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डरात् ॥ ३.२.१३१ ॥

ताराग्रहाणां सर्वेषामध्यस्ताच्चरते बुधः ।
तस्योर्द्ध्वं चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ॥ ३.२.१३२ ॥

ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः ।
उर्द्ध्वं शतसहस्रं तु योजनानां शनैश्चरात् ॥ ३.२.१३३ ॥

सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।
ऋषिभ्यस्तु सहस्राणां शतादूर्द्ध्वं विभाष्यते ॥ ३.२.१३४ ॥

योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके ।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ ३.२.१३५ ॥

त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया ।
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥ ३.२.१३६ ॥

वर्णाश्रमेभ्य इष्टा तु लोकेऽस्मिन्सम्प्रवर्त्तते ।
सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ ३.२.१३७ ॥

त्रैलोक्यमेतद्व्याख्यातमत ऊर्द्ध्वं निबोधत ।
ध्रुवादूर्द्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः ॥ ३.२.१३८ ॥

एकायोजनकोटीशा इत्येवं निश्चयोगतः ।
द्वीकोट्यां तु महर्लोकाज्जनलोको व्यवस्थितः ॥ ३.२.१३९ ॥

यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ॥ ३.२.१४० ॥
वै राजा यत्र ते देवा भूतदाहविवर्जिताः ।
षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम् ॥ ३.२.१४१ ॥

अपुनर्मारको नाम ब्रह्मलोकः स उच्यते ।
यस्मिन्न च्यवते भूयो ब्रह्मणं य उपासते ॥ ३.२.१४२ ॥

एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ।
ऊर्द्ध्वभागस्ततोंऽडस्य ब्रह्मलोकात्परः स्मृतः ॥ ३.२.१४३ ॥

चतुर्दशैव कोट्यस्तु नियुतानि च पञ्च षट् ।
स चौर्द्ध्व सम्प्रचारोऽस्य गत्यन्तश्चपरः स्मृतः ॥ ३.२.१४४ ॥

ध्रुवाग्रमेतद्व्याख्यातं योजनग्राद्यथाश्रुतम् ।
अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम् ॥ ३.२.१४५ ॥

गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः ।
नरको रौरवो घोरः शूकरस्ताल एवं च ॥ ३.२.१४६ ॥

तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ।
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः ॥ ३.२.१४७ ॥

अधःशिराः पूयवहो रुधिरान्धुस्तथैवच ।
विष्टाकीर्णश्च नरको मूत्रकीर्ण स्तथैव च ॥ ३.२.१४८ ॥

तथा वैतरणी कृष्णमसिपत्रवनं तथा ।
अग्निज्वालो महाघोरः सन्दंशोऽथाश्वभोजनः ॥ ३.२.१४९ ॥

तमश्चकृष्णसूत्रश्च लोहश्चाप्यभिजस्तथा ।
अप्रतिष्ठोऽथ वीचिश्च नरका ह्येवमादयः ॥ ३.२.१५० ॥

तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणः पतन्तीह वृथक्पृथक् ॥ ३.२.१५१ ॥

भूमेरधस्तात्ते सर्वे रौरवाद्यः प्रकीर्त्तिताः ।
रौरवे कूटसाक्षे तुमिथ्या यश्चाभिशसति ॥ ३.२.१५२ ॥

क्रूरग्रह पक्षवादी ह्यसक्तः पतते नरः ।
राधो गोध्रो भ्रूणहा च ह्यग्निदाता पुरस्य च ॥ ३.२.१५३ ॥

शूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।
ताले पतेत्क्षत्रियहा हत्वा वैश्यं च मज्जति ॥ ३.२.१५४ ॥

ब्रह्महत्या च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।
सप्तकुम्भेष्वसौ गामी तथा राजभटश्च यः ॥ ३.२.१५५ ॥

सन्ताप्यते वाश्वणिक्तथाच धनरक्षिता ।
साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत् ॥ ३.२.१५६ ॥

महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ।
वेदं विक्रीणतेये च वेदं वै दूषयन्ति ये ॥ ३.२.१५७ ॥

गुरुंश्चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च ।
अगम्यगामी च नरो नरकं शबलं व्रजेत् ॥ ३.२.१५८ ॥

विमोहे पतते घोरे मर्यादां योभिनत्ति वै ।
दुरिष्टं कुरुते यस्तु कीडलोहं प्रपद्यते ॥ ३.२.१५९ ॥

देवब्राह्मणविद्वेष्टा गुरूणां वाप्यपूजकः ।
रत्नं दूषयते यस्तु कृमिभक्षे प्रपद्यते ॥ ३.२.१६० ॥

पर्यश्नाति य एकोऽन्नं ब्राह्मणान्सुहृदो विना ।
लालाभक्षे स तिष्ठेत्तु दुर्गन्धे नरके गतः ॥ ३.२.१६१ ॥

काण्डकर्त्ता कुलालश्च निष्कहर्ता चिकित्सकः ।
आरामेऽप्यग्निदाता यः पतते स विशंसनि ॥ ३.२.१६२ ॥

असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः ।
नक्षत्रैर्जीवते यश्च नरो गच्छत्यधोमुखम् ॥ ३.२.१६३ ॥

क्षीरं सुरां च लवणं लाक्षां गन्धं रसं तिलानेवमादीनि विक्रीणन्घोरे पूयवहे पतेत् ॥ ३.२.१६४ ॥
यः कुक्कुटान्निबद्नाति मार्जारान्सूकरांस्तथा ।
पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ॥ ३.२.१६५ ॥

अजाविको माहिषिकस्तथा चक्रध्वजी च यः ।
रङ्गोपजीवको विप्रः शाकनिर्ग्रामयाजकः ॥ ३.२.१६६ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सुरापो मासभक्षश्च तथा च पशुघातकः ॥ ३.२.१६७ ॥

विशस्ता महिषादीनां मृगहन्ता तथैव च ।
पर्वकारश्च मूची च यश्च स्यान्मित्रघातकः ॥ ३.२.१६८ ॥

रुधिरान्धौ पतन्त्येते ह्येवमाहुर्मनीषिणः ।
उपविष्टं भोक्तुमथ पङ्क्त्यां वै वञ्चयन्ति ये ॥ ३.२.१६९ ॥

पतन्ति नरके घोरे विड्भुजे नात्र संशयः ।
मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः ॥ ३.२.१७० ॥

पतते नरके घोरे मूत्राकीर्णे स पापकृत ।
मधुग्राहाभिहन्तारो यान्ति वैतग्णीं नराः ॥ ३.२.१७१ ॥

उन्मत्ताश्चित्तभग्नाश्चशौचाचारविवर्जिताः ।
क्रोधना दुःखदा ये च कुहकाः कृष्णगामिनः ॥ ३.२.१७२ ॥

असिपत्र वनच्छदकृतो ह्योरभ्रिकाश्च ये ।
कर्त्तनषु विकृत्यन्त मृगव्याधः सुदारुणैः ॥ ३.२.१७३ ॥

आश्रम प्रत्यवसिता ह्यग्निज्वाले पतन्ति वै ।
भक्ष्यन्ते श्यामशबलैरयस्तुडश्व वायसैः ॥ ३.२.१७४ ॥

इष्टापूर्तव्रतालोपात्सन्दंशे नरके पतेत् ।
स्कन्दन्ते ये दिवास्वप्ने व्रतिनो ब्रह्मचारिणः ॥ ३.२.१७५ ॥

पुत्रैरध्यापिता ये च पुत्रैराक्षापिताश्च ये ।
ते सर्व नरकं यान्ति नियतं तु श्वभोजनम् ॥ ३.२.१७६ ॥

वर्णाश्रमविरुद्धा ये क्रोधहर्षसमन्विताः ।
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥ ३.२.१७७ ॥

उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् ।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥ ३.२.१७८ ॥

एवमादिक्रमेणैव वर्ण्यमानान्निबोधत ।
भूमेरधस्तात्सप्तैव नरकाः परिकीर्त्तिताः ॥ ३.२.१७९ ॥

अधर्मसूतयस्ते स्युरन्धतामिस्रकादयः ।
रौरवः प्रथमस्तेषां महारौरव एव च ॥ ३.२.१८० ॥

अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः ।
तृतीयः कालसूत्रः स्यान्महाहिर्विविधः स्मृतः ॥ ३.२.१८१ ॥

अप्रतिष्ठश्चतुर्थः स्याद वीचिः पञ्चमः स्मृतः ।
लोहः षष्ठः स्मृतस्तेषामविधेयस्तु सप्तमः ॥ ३.२.१८२ ॥

घोरात्वाद्रौरवः प्रोक्तः सोष्णको दहनः स्मृतः ।
सुदारुणस्तु शीतात्मा त्स्याधस्तात्तपोऽधमः ॥ ३.२.१८३ ॥

सवां निकृन्तनः प्रोक्तो कालसूत्रोऽतिदारुणः ।
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सदा स्मृतः ॥ ३.२.१८४ ॥

अवीचिर्दारुणः प्रोक्तो यन्त्रसम्पीडनाच्च सः ।
तस्मात्सुदारुणो लोहः कर्मणां श्रयणाच्च सः ॥ ३.२.१८५ ॥

तथाभूतशरीत्वादविधेयस्तु स स्मृतः ।
पीडाबन्धवधासङ्गादप्रतीकारलक्षणः ॥ ३.२.१८६ ॥

ऊर्द्ध्वाधः सङ्गतास्ते तु निरालोकाश्च ते स्मृताः ।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥ ३.२.१८७ ॥

ऊर्द्ध्वलोकैः समावेतौ निरालोकौ च तावुभौ ।
कूटागारप्र माणैश्च शरीरैस्तत्र नारकाः ॥ ३.२.१८७ ॥

उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः ।
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ ३.२.१८८ ॥

दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ ३.२.१८९ ॥

यातनाश्चाप्यसङ्ख्येया नारकाणां तथा स्मृताः ।
तत्रानुभूयते दुःखं क्षीणे कर्मणि वै पुनः ॥ ३.२.१९० ॥

तिर्यग्योनौ प्रसूयन्ते कर्मशेषेण तेंऽततः ।
देवांश्च तारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ॥ ३.२.१९१ ॥

धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः ।
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ ३.२.१९२ ॥

पश्यन्ति नारकान्देवा ह्यधोवक्त्रा ह्यघोगतान् ।
नारकांश्च तथा देवान्सर्वान्पश्यं त्यधेमुखान् ॥ ३.२.१९३ ॥

अनयोस्तुल्यता यस्माद्धारमाश्च स्वभावतः ।
तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ॥ ३.२.१९४ ॥

एषा स्वाभाविकी सञ्ज्ञा लोकालोके प्रवर्त्तते ।
अथाब्रुवन्पुनर्वायुम्ब्राह्मणाः सत्रिणस्तदा ॥ ३.२.१९५ ॥

सर्वेषामेव भूतानां लोकालोकनिवासिनाम् ।
संसारे संसरन्तीह यावन्तः प्राणिनश्च ते ॥ ३.२.१९६ ॥

सङ्ख्याया परिसङ्ख्याय तान्नः प्रब्रूहि कृत्स्नशः ।
ऋषीणां तद्वचः श्रुत्वा मरुतो वाक्यमब्रवीत् ॥ ३.२.१९७ ॥

न शक्यं दिव्यया दृष्ट्या ज्ञातुं ज्ञानेन वा पुनः ।
चक्षुषा वै प्रसङ्ख्यातुमतो ह्यन्ते न च द्विजाः ॥ ३.२.१९८ ॥

अनाध्यानादमेयत्वान्नैव प्रश्नो विधीयते ।
ब्रह्मणा सञ्ज्ञितं यत्तु सङ्ख्यया तन्निबोधत ॥ ३.२.१९९ ॥

यः सहस्रतमो भागः स्थावराणां भवेदिह ।
पार्थिवाः कृमयस्तावत्संसेकाद्येषु सम्भवः ॥ ३.२.२०० ॥

संसेकजानां भागेन सहस्रेणैव सम्मिताः ।
औदका जन्तवः सर्वे निश्चयात्तन्निधार्यताम् ॥ ३.२.२०१ ॥

सहस्रेणैव भागेन सत्त्वानां सलिलौकसाम् ।
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ॥ ३.२.२०२ ॥

यः सहस्रतमो भागस्तेषां वै पक्षिमां भवेत् ।
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ ३.२.२०३ ॥

चतुष्पदानां सर्वेषां सहस्रेणैव सम्मिताः ।
द्विपदास्तत्सहस्रेण सम्मिता धार्मिकाः पुनः ॥ ३.२.२०४ ॥

सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः ।
यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥ ३.२.२०५ ॥

सम्मितास्तेन भागेन मोक्षिणस्तावदेव हि ।
स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः ॥ ३.२.२०६ ॥

पतिताधर्मविद्वेषाद्दुरात्मानो म्रियन्ति ये ।
रौरवे तमसि ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ ३.२.२०७ ॥

वेदनाः कटुकाः स्तब्धा यातनास्थानमागताः ।
उष्णस्तु रौरवो ज्ञेयस्तेजोघोररसात्मकः ॥ ३.२.२०८ ॥

ततोंऽधनामकश्चापि शीतान्मा सततं तपः ।
एवं सुदुर्लभाः सन्तः स्वर्गे वा धार्मिका नराः ॥ ३.२.२०९ ॥

एषा सञ्ज्ञीकृता सङ्ख्या चेश्वरेण स्वयम्भुवा ।
गणाना दिनिवृत्तैषा सङ्ख्या ब्राह्मी त्वमानुषी ॥ ३.२.२१० ॥

महाञ्जनस्तपः सत्यो भूतो भव्यो भवस्तथा ।
उक्ता ह्येते त्वया लाका लाकानामन्तरण च ॥ ३.२.२११ ॥

लोकान्तरं च यादृक्च तन्नो ब्रूहि यथा तथा ।
तेषां तद्वचन श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् ।
स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥ ३.२.२१२ ॥

व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः ॥ ३.२.२१३ ॥

प्रत्याहारेण ध्यानेन तपसा क्षयमात्मनः ।
ऋभुः सनत्कुमाराद्याः सम्बुद्धाः शुद्धबुद्धयः ॥ ३.२.२१४ ॥

व्यपेतकोशा विरजाः सन्तो ब्रह्मैव सत्तमाः ।
अक्षयाः प्रीतिसंयुक्ता ब्राह्मे तिष्ठन्ति योगिनः ॥ ३.२.२१५ ॥

ऋषीणां बालशिल्यानां तैर्यथाकृतमीश्वरैः ।
यथात्रैव सया दृष्टं सान्निध्यं तत्र कुर्वता ॥ ३.२.२१६ ॥

अग्राह्यमकृतार्थानामालयं चेश्वरस्य यत् ।
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् ॥ ३.२.२१७ ॥

ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
द्रष्टृत्वमात्मसम्बन्धमधिष्टातृत्वमेव च ॥ ३.२.२१८ ॥

अव्ययानि दशैतानि तस्मिस्तिंष्ठन्ति शङ्करे ।
विभुत्वात्खलु योगाढ्यो ब्रह्मणोऽनुग्रहे रतः ॥ ३.२.२१९ ॥

स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ।
अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् ॥ ३.२.२२० ॥

तस्येश्वरस्य चिन्मात्रं स्थानं मायामयं परम् ।
मायया कृतमाचष्टे मायी देवो महेश्वरः ॥ ३.२.२२१ ॥

देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते ।
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत ॥ ३.२.२२२ ॥

त्रयोदशैव कोट्यस्तु नियुतानि दशेषवः ।
भूलोकाद्ब्रह्मलोको वै योजनैः सम्प्रकीर्त्यते ॥ ३.२.२२३ ॥

एका योजनकोटी तु पञ्चाशन्नियुतानि च ।
ऊर्द्ध्व भागवतोऽडं तु ब्रह्मलोकात्परं स्मृतम् ॥ ३.२.२२४ ॥

एषोर्द्ध्वगः प्रचारस्तु गत्यन्तश्च ततः स्मृतः ।
नित्या ह्यपरिसङ्क्षाताः परस्परगुणाश्रयात् ॥ ३.२.२२५ ॥

सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः ।
येभ्योऽधिकर्त्ता सञ्जज्ञे क्षेत्रज्ञो ब्रह्मसञ्ज्ञितः ॥ ३.२.२२६ ॥

तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम् ।
अनुत्पाद्यं परं धाम परमाणु परेशयम् ॥ ३.२.२२७ ॥

अक्षयश्चाप्यनूह्यश्च त्वमूर्त्तिर्मूर्त्तिमानसौ ।
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ॥ ३.२.२२८ ॥

विधिरन्यैरनौपम्यः परमाणुमहेश्वरः ।
सतेजा एष तमसो यः पुरस्तात्प्रकाशकः ॥ ३.२.२२९ ॥

यदण्डमासीत्सौवर्मं प्रथमं त्वौपसर्गिकम् ।
बृहत्तु सर्वतो वृत्तमीश्वरात्तद्व्यजायते ॥ ३.२.२३० ॥

ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीजमिष्यते ।
योनिं प्रकृति माचष्टे सा च नारायणात्मिका ॥ ३.२.२३१ ॥

विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च ।
सन्निसर्गः सतत्त्वाच्च लोकधातुर्महात्मनः ॥ ३.२.२३२ ॥

पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः ।
त्योर्मध्ये पुरं दिव्यं मन मयमनामयम् ॥ ३.२.२३३ ॥

तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः ।
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ॥ ३.२.२३४ ॥

सहस्राणां शतं पूर्वं योजनानां द्विजोत्तमाः ।
अभ्यन्तरं तु विस्तीर्णं महीमण्डलसंस्थितम् ॥ ३.२.२३५ ॥

मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना ।
शात कैम्भेन महता प्राकारेणार्कवर्चसा ॥ ३.२.२३६ ॥

द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः ।
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ॥ ३.२.२३७ ॥

तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम् ।
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३.२.२३८ ॥

नानारत्नविचित्रेषु पताकाबहुलेषु च ।
सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३.२.२३९ ॥

राजतेषु गृहान्तेषु शातकैम्भमयेषु च ।
सन्ध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ॥ ३.२.२४० ॥

हृष्टैः शब्दादिभिर्भोगैर्ये भविष्यानुसारिणः ।
प्रासादवरपृष्ठेषु तेषु मोदन्ति सुव्रताः ॥ ३.२.२४१ ॥

ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः ।
गीतवादित्रघोषाश्च संस्रवाश्च समन्ततः ॥ ३.२.२४२ ॥

संहताश्चैवमतुला जनाश्रयकृतस्तथा ।
एवमादीनि वर्तन्ते तेषां प्रासादमूर्द्धनि ॥ ३.२.२४३ ॥

सहस्रपादः प्रासादस्तपनीयमयः शुभः ।
अनौपम्यैर्वरै रत्नैः सर्वतः संविभूषितः ॥ ३.२.२४४ ॥

स्फाटिकैश्चन्द्रसङ्काशैर्वैडूर्यमणिसप्रभैः ।
बालसुर्यमयैश्चापि सौवर्णैश्चाग्निसप्रभैः ॥ ३.२.२४५ ॥

चुक्रुशुर्मुनयः श्रुत्वा नैमिषेयास्तपस्विनः ।
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३.२.२४६ ॥

के तु तत्र महात्मानो ये भवस्यानुसारिणः ।
अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥ ३.२.२४७ ॥

ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमुदैरयत् ।
वायुरुवाच
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता ॥ ३.२.२४८ ॥

ह्रीमन्तस्फूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३.२.२४९ ॥

अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३.२.२५० ॥

भवस्य रूपसादृश्यं गताश्चैव ह्यनुत्तमम् ।
वैश्वानारमुखाः सर्वे विश्वरूपाः कपर्दिनः ॥ ३.२.२५१ ॥

नीलकण्ठाः शितग्रीवास्तीक्ष्णदंष्टास्त्रिलोचनाः ।
अर्द्धचन्द्रकृतोष्णीषा जटामुकुट धारिणः ॥ ३.२.२५२ ॥

सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ।
तरुणादित्यसङ्काशाः सर्वे ते पीतवाससः ॥ ३.२.२५३ ॥

पिनाकपाणयः सर्वेश्वेत गोवृषवाहनाः ।
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः ॥ ३.२.२५४ ॥

तेजसाभ्यधिकैर्दहैः सर्वज्ञाः सर्वदर्शिनः ।
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः ॥ ३.२.२५५ ॥

क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ।
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चन्यैर्विबोधिताः ॥ ३.२.२५६ ॥

एकादशानां रुद्राणां कोट्यो नैका महात्मनाम् ।
एभिः सह महात्मा वै देवदेवो महेश्वरः ॥ ३.२.२५७ ॥

भक्तानुकम्पी भगवान्मोदते पार्वतीप्रियः ।
नाहं तेषां तु रुद्राणां भवस्य च महात्मनः ॥ ३.२.२५८ ॥

नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ।
मातारिश्वाब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम् ॥ ३.२.२५९ ॥

अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः ।
श्रुत्वेमां परमां पुण्यां कथां त्रैयम्बकीन्ततः ॥ ३.२.२६० ॥

भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् ।
सम्भाजयित्वा चाप्येनं वायुमूचुर्महाबलम् ॥ ३.२.२६१ ॥

समीरण महाभाग त्वस्माकं च त्वया विभो ।
ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसार्गिकम् ॥ ३.२.२६२ ॥

तस्य स्थानं प्रमाणं च चथावत्परिकीर्तितम् ।
योगधर्मसमृद्धं वै परमं परमात्मनः ॥ ३.२.२६३ ॥

महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि ।
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥ ३.२.२६४ ॥

यस्य भक्तंषु सम्मोहो ह्यनुकम्पार्थमेव च ।
ब्राह्मी लक्ष्म्या स्वयं जुष्टा या साप्रतिमशालिनी ॥ ३.२.२६५ ॥

व्याप्यज्योत्स्नेव चन्द्रस्य विन्यस्ता विश्वरूपिणः ।
विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥ ३.२.२६६ ॥

महादेवस्य तुल्यानां रुद्राणां तु महात्मनाम् ।
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवः ॥ ३.२.२६७ ॥

आपीतं खलु शर्वस्य भक्त्यास्माभिस्तु सुव्रत ।
नास्ति किञ्चिदविज्ञेय मन्यच्चैवानुगामिनः ।
प्रश्नं देववरप्राण यथावद्वक्तुमर्हसि ॥ ३.२.२६८ ॥

स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम् ।
यन्मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥ ३.२.२६९ ॥

आदित्याः परिपार्श्वे ये सिंहा वै क्रोधविक्रमाः ।
वैश्वानरा भूतगण व्याघ्रास्चैवानुगामिनः ॥ ३.२.२७० ॥

आभुतसम्प्लवे घोरे सर्वप्राणिभृतां क्षये ।
किमावस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥ ३.२.२७१ ॥

विज्ञायेश्वरसद्भावमव्यक्तं प्रभवं तथा ।
वायुरुवाच
यत्र पूर्वं गतास्ते तु कुमारा ब्रह्मणः सुताः ॥ ३.२.२७२ ॥

सनन्दनश्च सनकस्तृतीयश्च सनातनः ।
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः ॥ ३.२.२७३ ॥

मुनिः पञ्जशिखश्चैव ये चान्येऽप्येवमादयः ।
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते ॥ ३.२.२७४ ॥

महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।
अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीम् ॥ ३.२.२७५ ॥

शब्दादीन्विषयान्भोगान्सन्त्यज्याष्टविधाश्रयात् ।
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा ॥ ३.२.२७६ ॥

विहाय पदमव्यग्रं भूतानाम नुकम्पया ।
तत्र यान्ति महात्मानः परमाणुं महेश्वरम् ॥ ३.२.२७७ ॥

तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ।
ततः पश्यन्त्यपर्वाणं परं ब्रह्माणामेव च ॥ ३.२.२७८ ॥

देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ।
यत्तत्सहस्रं सिंहानामादित्यानां तथैव च ॥ ३.२.२७९ ॥

वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ।
आवेश्यात्मनि तान्सर्वान् सङ्ख्यायोग्यभवांस्तथा ॥ ३.२.२८० ॥

लोकान्सप्त इमान्भूयो महाभूतानि पञ्च च ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३.२.२८१ ॥

स रुद्रो यः साममयस्तथैव च यजुर्मयः ।
स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् ॥ ३.२.२८२ ॥

एको हि भगवान्नाथः प्रभवश्चान्तकृद्द्विजाः ।
ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः ॥ ३.२.२८३ ॥

सुसत्यं श्रवसः सम्यगारोप्याग्निं तथात्मनि ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३.२.२८४ ॥

अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ।
व्रतोपवासनिरताः सर्वभूतदयापराः ॥ ३.२.२८५ ॥

योगं त्वनुयमं दिव्यं प्राप्तन्तैश्छिन्नसंशयैः ।
प्रपद्य परया भक्त्याज्ञानयुक्तेन तेजसा ॥ ३.२.२८६ ॥

तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम् ॥ ३.२.२८७ ॥

ब्राह्मणः क्षत्रियो वापिवैश्यो वा स्वक्रियापरः ।
लभते रुद्रलोकं वै कारणं लोककारणम् ॥ ३.२.२८८ ॥

विनिवृत्ते तदा सर्गे प्रकृत्या वस्थितेन वै ।
तदात्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्यचित् ॥ ३.२.२८९ ॥

अनाख्यानादबोध्यत्वादज्ञानाज्ज्ञानिनामपि ।
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥ ३.२.२९० ॥

भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते ।
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके ॥ ३.२.२९१ ॥

अनिर्देश्ये प्रवृत्तिर्वै स्वात्मिकाकारणेन तु ।
एवं सप्तद्विरभ्यस्ताः क्रमात्प्रकृतयस्तु वै ॥ ३.२.२९२ ॥

प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परम् ।
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ ३.२.२९३ ॥

सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
उदकावरणं यच्च ज्योतिष्यालीयते तु यत् ॥ ३.२.२९४ ॥

यत्तेजसं चावरणं मारुतो ग्रसते नु यत् ।
यद्वायव्यं चावरणमाकाशग्रसते तु तत् ॥ ३.२.२९५ ॥

आकाशावरणं यच्च भूतादिर्ग्रसते तु तत् ।
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षमः ॥ ३.२.२९६ ॥

महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम् ।
एतौ संहारविस्तारौ ब्रह्मा व्यक्तौ ततः पुनः ॥ ३.२.२९७ ॥

सृजते ग्रसते चैव विकारात्सर्गसंयमे ।
संसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥ ३.२.२९८ ॥

गत्वा जवं जवीभावे स्थाने स्वेषु प्रसंयमात् ।
प्रत्याहारेऽधियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥ ३.२.२९९ ॥

अव्यक्तं क्षेत्रमित्याहुर्ब्रह्मा क्षेत्रज्ञ उच्यते ।
साधर्म्यवैधर्म्यकृतः संयोगो नादिमास्तयोः ॥ ३.२.३०० ॥

एवं सर्गेषु विज्ञेयः क्षेत्रज्ञेष्विह ब्राह्मणाः ।
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक् ॥ ३.२.३०१ ॥

विषयाविषयत्वं च क्षेत्रक्षेत्रज्ञयोः स्मृतम् ।
ब्रह्मा त्वविषयो ज्ञेयो विषयः क्षेत्रमुच्यते ॥ ३.२.३०२ ॥

क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते ।
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥ ३.२.३०३ ॥

अव्यूहाशङ्कराच्चैव ज्योतिर्यच्च व्यवस्थितम् ।
यस्मात्प्रतिशरीरं हि सुखदुःखो पलब्धिता ॥ ३.२.३०४ ॥

तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ।
यदा प्रवर्त्तते चैषां भेदानां चैव संयमः ॥ ३.२.३०५ ॥

स्वभावकारिताः सर्वे कालेन महता तदा ।
निवर्त्तन्ते तदा तस्मिन्स्थितरागाः स्वयम्भुवः ॥ ३.२.३०६ ॥

सह सायुज्यकैः सर्वैर्ब्रह्मलोकनिवासिभिः ।
विनिवृत्तेस्तदा तेषां स्थितेरात्मनिवासिनाम् ॥ ३.२.३०७ ॥

तत्कालवासिनां तेषां तत्र वै दोषदर्शिनाम् ।
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम् ॥ ३.२.३०८ ॥

भोज्यभोक्तृत्वनानात्वैस्तेषां तद्भावदर्शिनाम् ।
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः ॥ ३.२.३०९ ॥

प्रकृतौ कारणातीताः सर्वे नानाप्रदर्शिनः ।
स्वात्मन्येवावतिष्ठन्ते प्रशान्तादर्शनात्मकाः ॥ ३.२.३१० ॥

शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ।
तत्रैव परिनिर्वाणाः स्मृतानागामिनस्तु ते ॥ ३.२.३११ ॥

निर्गुणत्वाग्निरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ।
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयम्भुवा ॥ ३.२.३१२ ॥

वर्णाश्रमाचारयुतः प्रतिसर्गं शृणोति यः ।
स व्रजेच्छिवसालोक्यं भक्तिमान्विगतज्वरः ॥ ३.२.३१३ ॥

अमद्यपश्च य शूद्रो भवभक्तो जितेद्रियः ।
आभूतसम्प्लवस्थायी अप्रतीघातलक्षणः ॥ ३.२.३१४ ॥

गाणपत्यं स लभते स्थानं वा सार्वकालिकम् ।
मद्यपो मद्यपैः सार्द्धं भूतसङ्घैश्च मोदते ॥ ३.२.३१५ ॥

सेव्यमानो महीपृष्ठे मर्त्यानां वरदो भवः ।
इति होवाच भगवान्वायुर्वाक्यमिदवरम् ॥ ३.२.३१६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे शिवपुरवर्णनं नाम द्वितीयोऽध्यायः