विश्वास-प्रस्तुतिः
सूत उवाच
एवमाराध्य देवेशमीशानं नीललोहितम् ।
प्रह्वोऽतिप्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.७३.१ ॥
मूलम्

काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः ।
निकामं दर्शनं दत्त्वा तत्रैवान्तरधाद्धरः ॥ २.७३.२ ॥

ततः सोऽतर्हिते तास्मिन्देवे सानुचरे तदा ।
तिष्ठन्तीं प्राजलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ २.७३.३ ॥

कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता ।
सहता तपसा युक्तं किमर्थं मां जिगीष्सि ॥ २.७३.४ ॥

अनया सततं भक्त्या प्रश्रयेण दमेन च ।
स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ २.७३.५ ॥

किमिच्छसि वरारोहे कस्ते कामः समृद्ध्यताम् ।
तं ते सम्पूरयाम्यद्य यद्यपि स्यात्सुदुर्लभः ॥ २.७३.६ ॥

एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि ।
चिकीर्षितं मे ब्रह्मिष्ठ त्वं हि वेत्थ यथातथम् ॥ २.७३.७ ॥

एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा ।
माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ॥ २.७३.८ ॥

मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि ।
अदृश्यं सर्वभूतैस्तु सम्प्रयोगमिहेच्छसि ॥ २.७३.९ ॥

देवीन्द्रनीलवर्णाभेवरारोहे सुलोचने ।
इमं वृणीष्व कामं त्वं मत्तो वै वल्गुभाषिणि ॥ २.७३.१० ॥

एवं भवतु गच्छावो गृहान्मत्तेभगामिनि ।
ततः स्वगृहमागम्य जयत्या सहितः प्रभुः ॥ २.७३.११ ॥

स तया चावसद्देव्या दश वर्षाणि भार्गवः ।
अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ २.७३.१२ ॥

कृतार्थमामतं ज्ञातवा काव्यं सर्वे दितेः सुताः ।
अभिजग्सुर्गृहं तस्य मुदितास्तं दिदृक्षवः ॥ २.७३.१३ ॥

गता यदा न पश्यन्ति जयत्या संवृतं गुरुम् ।
लक्षमं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ २.७३.१४ ॥

बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं वरेण ह ।
प्रीत्यर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ २.७३.१५ ॥

बुद्ध्वा तदन्तरं सोऽथ देवानां मन्त्रचोदितः ।
काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ २.७३.१६ ॥

ततः सोऽभ्यागतान्दृष्ट्वा बृहस्पतिरुवाच तान् ।
स्वागतं मम याज्यानां सम्प्राप्तोऽस्मि हिताय च ॥ २.७३.१७ ॥

अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि याः ।
ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ २.७३.१८ ॥

पूर्णे काव्यस्तदा तस्मिन्समये दशवार्षिके ।
समयान्ते देवयाजी सद्यो जातमतिस्तदा ॥ २.७३.१९ ॥

बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे ।
शुक्र उवाच
देवि गच्छाम्यहं द्रष्टुं तव याज्याञ्छुचिस्मिते ॥ २.७३.२० ॥

विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने ।
एवमुक्ताब्रवीद्देवी भज भक्तां महाव्रत ।
एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २.७३.२१ ॥

ततो गत्वा सुरान्दृष्ट्वा देवाचार्येण धीमता ॥ २.७३.२२ ॥

वञ्चितान्काव्यरूपेण वचसा पुनरब्रवीत् ।
काव्यं मामनुजानीध्वमेष ह्याङ्गिरसो मुनिः ॥ २.७३.२३ ॥

वञ्चिता बत यूयं वै मयि सक्ते तु दानवाः ।
श्रुत्वा तथा ब्रुवाणं तं सम्भ्रान्ता दितिजास्ततः ॥ २.७३.२४ ॥

सम्प्रैक्षन्तावुभौ तत्र स्थिरासीनौ शुचिस्मितौ ।
सम्प्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन ॥ २.७३.२५ ॥

ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् ।
आचार्यो यो ह्ययं काव्यो देवायार्योऽयमङ्गिराः ॥ २.७३.२६ ॥

अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् ।
एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च ॥ २.७३.२७ ॥

तदासुरा विशेष तु न व्यजानंस्तयोर्द्वयोः ।
बृहस्पतिरुवाचैनामं भ्रातोऽयमङ्गिराः ॥ २.७३.२८ ॥

काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ।
सम्मोहयति रूपेण मामकेनैष वोऽसुराः ॥ २.७३.२९ ॥

श्रुत्वा तस्य वचस्ते वै सम्मन्त्र्याथ वचोऽब्रुवन् ।
अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः ॥ २.७३.३० ॥

एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजाः ।
ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च ॥ २.७३.३१ ॥

वचनं जगृहुस्तस्य विद्याभ्यासेन मोहिताः ।
ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः ॥ २.७३.३२ ॥

अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ।
भार्गवोऽगिरसो वायं भवत्वेषैव नो गुरुः ॥ २.७३.३३ ॥

स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् ।
एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम् ॥ २.७३.३४ ॥

यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् ।
चुकोप भार्गवस्ते षामवलेपेन वै तदा ॥ २.७३.३५ ॥

बोधितापि मया यस्मान्न मां भजत दानवाः ।
तस्मात्प्रणष्टसञ्ज्ञा वै पराभवमवाप्स्यथ ॥ २.७३.३६ ॥

इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् ।
शप्तांस्तानसुराञ्ज्ञात्वा काव्येन तु बृहस्पतिः ॥ २.७३.३७ ॥

कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ।
बुद्ध्वासुरांस्तदा ब्रष्टान्कृतार्थोंऽतर्द्धिमागमत् ॥ २.७३.३८ ॥

ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा ।
अहो धिग्वञ्चिताः स्नेहात्परस्परमथाब्रुवन् ॥ २.७३.३९ ॥

धर्मतोऽविमुखाश्चैव कारिता वेधसा वयम् ।
दग्धाश्चैवोपधायोगात्स्वेस्वे कार्ये तु मायया ॥ २.७३.४० ॥

ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः ।
प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ २.७३.४१ ॥

ततः काव्यं समासाद्य ह्यभितस्थु रवाङ्मुखाः ।
तानागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ २.७३.४२ ॥

मया सम्बोधिताः काले यतो मां नाभ्यनन्दथ ।
ततस्तेनावलेपेन गता यूयं पराभवम् ॥ २.७३.४३ ॥

प्रह्लादस्तमथोवाच मानस्त्वं त्यज भार्गव ।
स्वान्याज्यान्भजमानांश्च भक्तांश्चैव विशेषतः ॥ २.७३.४४ ॥

त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः ।
भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ २.७३.४५ ॥

यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन ।
अपध्यातास्त्वया ह्यद्य प्रवेक्ष्यामोरसातलम् ॥ २.७३.४६ ॥

ज्ञात्वा काव्यो यथातत्त्वं कारुण्येन महीयसा ।
एवं शुक्रोऽनुनीतः संस्ततः कोपं न्यवर्त्तयत् ॥ २.७३.४७ ॥

उवाचेदं न भेतव्यं गन्तव्यं न रसातलम् ।
अवश्यम्भावीह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ २.७३.४८ ॥

न शक्यमन्यथाकर्त्तुं दिष्टं हि बलवत्तरम् ।
सञ्ज्ञा प्रनष्टा या चेयं कामं तां प्रतिलप्स्यथ ॥ २.७३.४९ ॥

प्राप्तः पर्यायकालो वा इति ब्रह्माभ्यभाषत ।
मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ॥ २.७३.५० ॥

युगाख्या दश सम्पूर्णा देवानाक्रम्य मूर्द्धनि ।
तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ॥ २.७३.५१ ॥

सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति ।
लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ २.७३.५२ ॥

एवं कालमयं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् ।
तथाहृतेषु लोकेषु न शोको न किलाभवत् ॥ २.७३.५३ ॥

यस्मात्प्रवृत्तयश्चास्य न कामैरभिसन्धिताः ।
तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ॥ २.७३.५४ ॥

देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् ।
तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ २.७३.५५ ॥

प्रीतेन चामरत्वं वै दत्तं तुभ्यं स्वयम्भुवा ।
तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहसाकुलः ॥ २.७३.५६ ॥

न च शक्यं मया तुभ्यं पुर स्ताद्वै विसर्पितुम् ।
ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ २.७३.५७ ॥

इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः ।
दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः ॥ २.७३.५८ ॥

एवमुक्तास्तु दैतेया काव्येनाक्लिष्टकर्मणा ।
ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ॥ २.७३.५९ ॥

अवश्यभाव्यमर्थं तं श्रुत्वा दैतेयदानवाः ।
सहसा शंसमानास्ते जयं काव्येन भाषितम् ॥ २.७३.६० ॥

दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् ।
अथ देवासुरान्दृष्ट्वा सङ्ग्रामे समुपस्थितान् ॥ २.७३.६१ ॥

ततः संवृतसन्नाहा देवास्तान्समयोधयन् ।
देवासुरे ततस्तस्मिन्वर्त्तमाने शतं समाः ।
अजयन्तासुरा देवान्नग्रा देवा अमन्त्रयन् ॥ २.७३.६२ ॥

देवा ऊचुः
शण्डामर्कप्रभावेण जिताः स्मस्त्वसुरैर्वयम् ।
तस्माद्यज्ञं समुद्दिश्य कार्यं चात्महितं च यत् ॥ २.७३.६३ ॥

यज्ञेनोपाह्वयिष्यामस्ततो जेष्यामहेऽसुरान् ।
अथोपामन्न्रयन्देवाः शण्डामकारै तु तावुभौ ॥ २.७३.६४ ॥

यज्ञे चाहूय तौ प्रोक्तौ त्यजन्तामसुरा द्विजौ ॥ २.७३.६५ ॥
विश्वास-प्रस्तुतिः
ग्रहं तु वां ग्रहीष्यामो ह्यनुजित्य तु दानवान् ।
एवं तत्यजतुस्तौ तु षण्डामकारै तदा सुरान् ॥ २.७३.६६ ॥

ततो देवा जयं प्राप्ता दानवाश्च पराभवम् ।
देवासुरान्पराभाव्य शण्डामर्कावुपागमन् ॥ २.७३.६७ ॥

काव्यशापभिभूताश्च अनाधाराश्च ते पुनः ।
बाध्यमानास्तदा देवैर्विविशुस्ते रसातलम् ॥ २.७३.६८ ॥

एवं निरुद्यमास्ते वै कृता शक्रेण दानवाः ।
ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ २.७३.६९ ॥

यज्ञे पुनः पुनर्विष्णुर्यज्ञेऽथ शिथिले प्रभुः ।
कर्तुं धर्मव्यवस्थान मधर्मस्य प्रणाशनम् ॥ २.७३.७० ॥

प्रह्नादस्य निदेशे तु येऽसुरा न व्यवस्थिताः ।
मनुष्यवध्यांस्तान्सर्वान्ब्रह्मा व्याहरत प्रभुः ॥ २.७३.७१ ॥

धर्मान्नारायणस्तस्मात्सम्भूतश्चाक्षुषेऽन्तरे ।
यज्ञं प्रवर्त्तयामास वैन्यो वैवस्वतेऽन्तरे ॥ २.७३.७२ ॥

प्रादुर्भावे तु वैन्यस्य ब्रह्मैवासीत्पुरोहितः ।
चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्वथ ॥ २.७३.७३ ॥

सम्भुतः स समुद्रान्तर्हिरण्यकशिपोर्वधे ।
द्वितीयो नरसिंहोऽभूद्रौद्रः सुतपुरस्सरः ॥ २.७३.७४ ॥

यजमानं तु दैत्येन्द्रमदित्याः कुलनन्दनः ।
द्विजो भूत्वा शुभे काले बलिं वैरोचनं जगौ ॥ २.७३.७५ ॥

त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् ।
दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ २.७३.७६ ॥

ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत् ।
वामनं तं च विज्ञाय ततोऽदान्मुदितः स्वयम् ॥ २.७३.७७ ॥

स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः ।
त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ २.७३.७८ ॥

अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा ।
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ २.७३.७९ ॥

शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् ।
आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्द्दनः ॥ २.७३.८० ॥

स पुत्रपौत्रानसुरान्पातालतलमानयन् ।
नमुचिः शम्बरश्चैव प्रह्रादश्चैव विष्णुना ॥ २.७३.८१ ॥

क्रूरा हता विनिर्दूता दिशः सम्प्रतिपेदिरे ।
महाभूतानि भूतात्मा सविशेषाणि माधवः ॥ २.७३.८२ ॥

बलिं चं सबलं विप्रास्तत्राद्भुतमदर्शयत् ।
तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति ॥ २.७३.८३ ॥

न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना ।
तद्वै रूपमुपेन्द्रस्य देवादानवमानवाः ॥ २.७३.८४ ॥

दृष्ट्वा सम्मुमुहुः सर्वे विष्णुतेजोविमोहिताः ।
बलिः सितो महापाशैः सबन्धुः ससुत्दृद्गणः ॥ २.७३.८५ ॥

विरोचनकुलं सर्वं पाताले सन्निवेशितम् ।
ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने ॥ २.७३.८६ ॥

मानुषेषु महाबाहुः प्रादुरास जनार्द्दनः ।
एतास्तिस्रः समृतास्तस्य दिव्याः सम्भूतयः शुभाः ॥ २.७३.८७ ॥

मानुष्यः सप्त यास्तस्य साग्रगास्ता निबोधत ।
त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ॥ २.७३.८८ ॥

नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुः सरः ।
पञ्चमः पञ्चदश्यां तु त्रेतायां सम्बभूव ह ॥ २.७३.८९ ॥

मान्धाता चक्रवर्त्तित्वे तस्योतथ्यः पुरस्सरः ।
एकोनविंशयां त्रेतायां सर्वक्षत्रान्तकृद्विभुः ॥ २.७३.९० ॥

जामदग्न्यस्तदा षष्ठे विश्पामित्रपुरस्सरः ।
चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ॥ २.७३.९१ ॥

सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ।
अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् ॥ २.७३.९२ ॥

वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरस्सरः ।
तथैव नवमे विष्णुरदित्याः कश्यपात्मजः ॥ २.७३.९३ ॥

देवक्यां वसुदेवात्तु जातो गार्ग्यपुरस्सरः ।
अप्रमेयो नियोगश्च यतकामवरो वशी ॥ २.७३.९४ ॥

क्रीडते भगवांल्लोके बालः क्रीडनकेरिव ।
न प्रमातुं महाबाहुं शक्योऽसौ मधुसूदनः ॥ २.७३.९५ ॥

परं ह्यवरमेतस्माद्विश्वरूपान्न विद्यते ।
अष्टाविंशतिके तद्वद्द्वापरस्याथ सङ्क्षये ॥ २.७३.९६ ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः ।
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ।
माहयन्सर्वभूतानि योगात्मा योगमायया ॥ २.७३.९७ ॥

प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् ॥ २.७३.९८ ॥
विश्वास-प्रस्तुतिः
विहारार्थं मनुष्येषु सान्दीपनिपुरस्सरः ।
यत्र कंसं च शाल्वं च द्विविदं च महासुरम् ॥ २.७३.९९ ॥

अरिष्ठं वृषभं चैव पूतनां केशिनं हयम् ।
नागं कुवलयापीडं मल्लं राजगृहाधिपम् ॥ २.७३.१०० ॥

दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् ।
छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणा ॥ २.७३.१०१ ॥

नरकश्च हतः सङ्ख्ये यवनश्च महाबलः ।
हृतानि च महीपानां सर्वरत्नानि तेजसा ॥ २.७३.१०२ ॥

कुरुवीराश्च निहताः पार्थिवा ये रसातले ।
एते लोकहितार्थाय प्रादुर्भावा महात्मनः ॥ २.७३.१०३ ॥

अस्मिन्नेव युगे क्षीणे सन्ध्याशिष्टे भविष्यति ।
कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् ॥ २.७३.१०४ ॥

दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरस्सरः ।
अनुकर्षन्स वै सेनां हस्त्यश्वरथसङ्कुलाम् ॥ २.७३.१०५ ॥

प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ।
नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् ॥ २.७३.१०६ ॥

उदीच्यान्मध्यदेशांश्च तथा विन्ध्या परान्तिकान् ।
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ २.७३.१०७ ॥

गान्धारान्पारदांश्चैव पह्लवान्पवनाञ्छकान् ।
तुबराञ्छबरांश्चैव पुलिन्दान्बरदान् वसान् ॥ २.७३.१०८ ॥

लम्पाकानाङ्घ्रकान्पुण्ड्रान्किरातांश्चैव स प्रभुः ।
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्बली ॥ २.७३.१०९ ॥

अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति ।
मानवः स तु सञ्जज्ञे देवसेनस्य धीमतः ॥ २.७३.११० ॥

पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् ।
गोत्रेण वै चन्द्रमसः पूर्णे कलियुगेऽभवत् ॥ २.७३.१११ ॥

इत्येतास्तस्य देवस्य दक्षसम्भूतयः स्मताः ।
तन्तं कालं च कायं च तत्तदुद्दिश्य कारणम् ॥ २.७३.११२ ॥

अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते ।
पञ्चविंशे स्थितः कल्पे पञ्चविंशत्स वै समाः ॥ २.७३.११३ ॥

विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः ।
कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा ॥ २.७३.११४ ॥

शान्तयित्वा तु वृषलान्प्रायशस्तान धार्मिकान् ।
ततः स वै तदा कल्किश्चरितार्थः ससैनिकः ॥ २.७३.११५ ॥

कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् ।
अकस्मात्कुपितान्योन्यं भविष्यन्ति च मोहिताः ॥ २.७३.११६ ॥

क्षपयित्वा तु तान्सर्वान्भाविनार्थेन चोदितः ।
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ॥ २.७३.११७ ॥

ततो व्यतीते कल्पे तु समाप्ते सहसैनिके ।
नृपेष्वथ विनिष्टेषु तदा त्वप्रग्रहाः प्रजाः ॥ २.७३.११८ ॥

रक्षणे विनिपृत्ते तु हत्वा चान्योन्यमाहवे ।
परस्परत्दृतस्वाश्च निरानन्दाः सुदुःखिताः ॥ २.७३.११९ ॥

पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः ।
प्रनष्टश्रुतिधर्माश्चनष्टधर्माश्रमास्तथा ॥ २.७३.१२० ॥

ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः ।
सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः ॥ २.७३.१२१ ॥

चीरपत्राजिनघराः सङ्करं घोरमास्थिताः ।
अल्पायुषो नष्टवार्ता बह्वाबाधाः सुदुःखिताः ॥ २.७३.१२२ ॥

एवं काष्ठामनुप्राप्ताः कलिसन्ध्यांशके तदा ।
प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु ॥ २.७३.१२३ ॥

क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः ।
प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा ॥ २.७३.१२४ ॥

इत्येतत्कीर्त्तितं सर्वं देवासुरविचेष्टितम् ।
यदुवंशप्रसङ्गेन महद्वो वैष्मवं यशः ॥ २.७३.१२५ ॥

तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ॥ २.७३.१२६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे विष्णुमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३॥