विश्वास-प्रस्तुतिः
सूत उवाच
सात्त्वताज्जज्ञिरे पुत्राः कौशल्यायां महाबलाः ।
भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥ २.७१.१ ॥
मूलम्

महाभोजश्च विख्यातो ब्रह्मण्यस्सत्यसङ्गरः ।
तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै ॥ २.७१.२ ॥

भजमानस्य सृञ्जय्यो बाह्यका चोपवाह्यका ।
सृञ्ज यस्य सुते द्वे तु बाह्यके ते उदावहत् ॥ २.७१.३ ॥

तस्य भार्ये भगिन्यौ ते प्रसूते तु सुतान्बहून् ।
निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः ॥ २.७१.४ ॥

ते बाह्यकाया सृञ्जय्या भजमानाद्विजज्ञिरे ।
अयुताजित्सहस्राजिच्छताजिदिति नामतः ॥ २.७१.५ ॥

बाह्यकायां भगिन्यां ते भजमानाद्विजज्ञिरे ।
तेषां देवावृधो राजा चचार परमं तपः ।
पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह ॥ २.७१.६ ॥

संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत् ॥ २.७१.७ ॥
विश्वास-प्रस्तुतिः
सा चोपस्पर्शनात्तस्य चकार प्रियमापगा ।
कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ २.७१.८ ॥

चिन्तयाभिपरीताङ्गी जगामाथ विनिश्चयम् ।
नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ २.७१.९ ॥

भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि ।
तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ॥ २.७१.१० ॥

जज्ञे तस्याः स्वयं हृत्स्थो भावस्तस्य यथेरितः ।
अथ भूत्वा कुमारी तु सा चिन्तापरमेव च ॥ २.७१.११ ॥

वरयामास राजानं तामियेष स पार्थिवः ।
तस्यामाधत्त गर्भे स तेजस्विनमुदारधीः ॥ २.७१.१२ ॥

अथ सा नवमे मासि सुषुवे सरिता वरा ।
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा ॥ २.७१.१३ ॥

तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः ।
गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ २.७१.१४ ॥

यथैव शृणुमो दूरात्सपंश्यामस्तथान्तिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः ॥ २.७१.१५ ॥

पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ।
येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि ॥ २.७१.१६ ॥

यज्वा दानपतिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः ।
कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः ॥ २.७१.१७ ॥

तस्यान्ववायः सुमहान्भोजा ये भुवि विश्रुताः ।
गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः ॥ २.७१.१८ ॥

गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ।
साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च ॥ २.७१.१९ ॥

अनमित्रं शिनं चैव ताबुभौ पुरुषोत्तमौ ।
अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २.७१.२० ॥

प्रसेनश्च महाभागः सत्राजिच्च सुताबुभौ ।
तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ २.७१.२१ ॥

स कदाचिन्निशापाये रथेन रथिनां वरः ।
तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम् ॥ २.७१.२२ ॥

तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः ।
सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः ॥ २.७१.२३ ॥

अथ राजा विवस्वन्तमुवाच स्थितमग्रतः ।
यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते ॥ २.७१.२४ ॥

तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् ।
को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै ॥ २.७१.२५ ॥

एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् ।
स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥ २.७१.२६ ॥

ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा ।
प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम् ॥ २.७१.२७ ॥

तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् ।
प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति ॥ २.७१.२८ ॥

तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि ।
स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः ॥ २.७१.२९ ॥

स तमामुच्य नगरीं प्रविवेश महीपतिः ।
विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ ॥ २.७१.३० ॥

स प्रसेनाय तद्दिव्यं मणिरत्नं स्यमन्तकम् ।
ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २.७१.३१ ॥

स्यमन्तको नाम मणिर्यस्मिन्राष्ट्रे स्थितो भवेत् ।
कामवर्षी च पर्जन्यो न च व्याधिभयं तथा ॥ २.७१.३२ ॥

लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् ।
गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥ २.७१.३३ ॥

कधाचिन्मृगयां यातः प्रसेनस्तेन भूषितः ।
स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम् ॥ २.७१.३४ ॥

जाम्बवानृक्षराजस्तु तं सिंहं निजघान वै ।
आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह ॥ २.७१.३५ ॥

तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः ।
मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे ॥ २.७१.३६ ॥

मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः ।
अमृष्यमाणो भगवान्वनं स विचचार ह ॥ २.७१.३७ ॥

स तु प्रोसेनो मृगयामचरद्यत्र चाप्यथ ।
प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः ॥ २.७१.३८ ॥

ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् ।
अन्वेषयत्परिश्रान्तः स ददर्श महामनाः ॥ २.७१.३९ ॥

साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् ।
अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ २.७१.४० ॥

ऋक्षेण निहतो दृष्टः पदैरृक्षस्य सूचितः ।
पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ २.७१.४१ ॥

महत्यन्तर्बिले वाणीं शश्राव प्रमदेरिताम् ।
धात्र्या कुमारमादाय सुतं जाम्बवतो द्विजाः ।
क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम् ॥ २.७१.४२ ॥

धात्र्युवाच
प्रसेनमवधीत्सिंहः सिंहो जाम्बवता हतः ॥ २.७१.४३ ॥

सुकुमारक मारो दीस्तव ह्यें स्यमन्तकः ।
व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम् ॥ २.७१.४४ ॥

अपश्यच्च बिलाभ्याशे प्रसेन मवदारितम् ।
प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा ॥ २.७१.४५ ॥

ददर्श ऋक्षराजानं जाम्बवन्तमुदारधीः ।
युयुधे वासुदेवस्तु बिले जाम्बवता सह ॥ २.७१.४६ ॥

बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् ।
प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः ॥ २.७१.४७ ॥

पुनर्द्वारवतीं चैत्य हतं कृष्णं न्यवेदयन् ।
वासुदेवस्तु निर्जित्य जाम्बवन्तं महाबलम् ॥ २.७१.४८ ॥

लेभे जाम्बवन्तीं कन्यामृक्षराजस्य सम्मनाम् ।
भगवत्तेजसा ग्रस्तो जाम्बवान्न्प्रसभं मणिम् ॥ २.७१.४९ ॥

सुतां जाम्बवतीमाशु विष्वक्सेनाय दत्तवान् ।
मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये ॥ २.७१.५० ॥

अनुनीयर्क्षराजं तं निर्ययौ च तदा बिलात् ।
एवं स मणिमाहृत्य विशोध्यात्मानमात्मना ॥ २.७१.५१ ॥

ददौ सत्राजिते रत्नं मणिं सात्त्वतसन्निधौ ।
कन्यां पुनर्जाम्बवतीमुवाह मधुसूदनः ॥ २.७१.५२ ॥

तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः ।
इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम् ॥ २.७१.५३ ॥

वेद मिथ्याभिशप्तिं स नाभिस्पृशति कर्हिचित् ।
दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः ॥ २.७१.५४ ॥

ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः ।
वीरो वातपतिश्चैव तपस्वी च बहुप्रियः ॥ २.७१.५५ ॥

अथ वीरमती नाम भङ्गकारस्य तु प्रसूः ।
सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥ २.७१.५६ ॥

सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता ।
तथा तपस्विनी चैव पिता कृष्णय तां ददौ ॥ २.७१.५७ ॥

न च सत्राजितः कृष्णो मणिरत्नं स्यमन्तकम् ।
आदत्त तदुपश्रुत्य भोजेन शतधन्वना ॥ २.७१.५८ ॥

तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् ।
अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ २.७१.५९ ॥

सत्राजितं ततो इत्वा शतधन्वा महाबलः ।
रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ २.७१.६० ॥

अक्रूरस्तु तदा रत्नमादाय स नरर्षभः ।
समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत ॥ २.७१.६१ ॥

वयमभ्युपयोत्स्यामः कृष्णेन त्वां प्रधर्षितम् ।
मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम् ॥ २.७१.६२ ॥

हते पितरि दुःखार्त्ता सत्यभामा यशस्विनी ।
प्रययौ रथमारुह्य नगरं वारणावतम् ॥ २.७१.६३ ॥

सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः ।
भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत् ॥ २.७१.६४ ॥

पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् ।
कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम् ॥ २.७१.६५ ॥

ततस्त्वरितमागत्य द्वारकां मधुसूदनः ।
पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ २.७१.६६ ॥

हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना ।
स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो ॥ २.७१.६७ ॥

तहारोह रथं शीघ्रं भोजं हत्वा महाबलम् ।
स्यमन्तकं महाबाहो सामान्यं वो भविष्यति ॥ २.७१.६८ ॥

ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः ।
शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम् ॥ २.७१.६९ ॥

अनालब्धावहारौ तु कृत्वा भोजजनार्द्दनौ ।
शक्तोऽपि शाठ्याद्धार्दिक्यो नाक्रूरोऽभ्युपपद्यत ॥ २.७१.७० ॥

अपयोते ततो बुद्धिं भूयश्चक्रे भयान्वितः ।
योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ २.७१.७१ ॥

विख्याता हृदया नाम शतयोजनगामिनी ।
भोजस्य वडवा दिव्या यया कृष्णमयोधयत् ॥ २.७१.७२ ॥

क्षीणां जवेन त्दृदयामध्वनः शतयोजने ।
दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत् ॥ २.७१.७३ ॥

ततस्तस्या हयायास्तु श्रमात्खेदाच्च वै द्विजाः ।
खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ २.७१.७४ ॥

तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयी ।
पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ २.७१.७५ ॥

पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः ।
मिथिलोपवने तं वै जघान परमास्त्रवित् ॥ २.७१.७६ ॥

स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् ।
निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली ॥ २.७१.७७ ॥

नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः ।
धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम् ॥ २.७१.७८ ॥

भातृत्वान्मर्षयाम्वेष स्वस्ति तेऽस्तु व्रजाम्यहम् ।
कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २.७१.७९ ॥

प्रविवेश ततो रामो मिथिलामरिमर्द्दनः ।
सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥ २.७१.८० ॥

एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः ।
नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान् ॥ २.७१.८१ ॥

दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह ।
स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः ॥ २.७१.८२ ॥

अकूर यज्ञा इति ते ख्यातास्तस्य महात्मनः ।
बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २.७१.८३ ॥

अथ दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः ।
गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २.७१.८४ ॥

प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः ।
आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २.७१.८५ ॥

अक्रूरश्चान्धकैः सार्द्धमथायात्पुरुषर्षभः ।
युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली ॥ २.७१.८६ ॥

सुयज्ञतनयायां तु नरायां नरसत्तमौ ।
भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ ॥ २.७१.८७ ॥

जज्ञातेंऽधकमुख्यस्य शक्रघ्नो बन्धुमांश्च तौ ।
वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत् ॥ २.७१.८८ ॥

ज्ञातिभेदभयाद्भीतस्तमुबेक्षितवानथ ।
अपयाते ततोऽक्रूरे नावर्षत्पाकशासनः ॥ २.७१.८९ ॥

अनावृष्ट्या हतं राष्ट्रमभवद्बहुधा यतः ।
ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ २.७१.९० ॥

पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा ।
प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ २.७१.९१ ॥

कन्यां वै वासुदेवाय स्वसारं शीलसम्मताम् ।
अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः ॥ २.७१.९२ ॥

अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् ।
सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः ॥ २.७१.९३ ॥

यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो ।
तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः ॥ २.७१.९४ ॥

षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम ।
सुसंरूढोऽसकृत्प्राप्तस्तदा कालात्ययो महान् ॥ २.७१.९५ ॥

ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि ।
प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ २.७१.९६ ॥

ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः ।
ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः ॥ २.७१.९७ ॥

स कृष्णहस्तात्सम्प्राप्य मणिरत्नं स्यमन्तकम् ।
आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ २.७१.९८ ॥

इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमाम् ।
वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन ॥ २.७१.९९ ॥

अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ।
सत्यवान्सत्यसम्पन्नः सत्यकस्तस्य चात्मजः ॥ २.७१.१०० ॥

सात्यकिर्युयुधानश्च तस्य भूतिः सुतोऽभवत् ।
भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः ॥ २.७१.१०१ ॥

माड्याः सुतस्य जज्ञे तु सुतो वृष्णिर्युधाजितः ।
जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः ॥ २.७१.१०२ ॥

श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते ।
नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ २.७१.१०३ ॥

कादाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः ।
त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ २.७१.१०४ ॥

स तत्रवासयामास श्वफल्कं परमार्चितम् ।
श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥ २.७१.१०५ ॥

श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत ।
गान्दिनीन्नाम गां सा हि ददौ विप्राय नित्यशः ॥ २.७१.१०६ ॥

सा मातुरुदरस्था वै बहून्वर्षशातान्किल ।
निवसन्ती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ २.७१.१०७ ॥

जायस्व शीघ्रं भद्रं ते किमर्थं वापि तिष्ठसि ।
प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने ॥ २.७१.१०८ ॥

यदि दद्यास्ततो गर्भाद्बहिः स्यां हायनैस्त्रिभिः ।
तथेत्युवाच तां तस्याः पिता काममपूरयत् ॥ २.७१.१०९ ॥

दाता यज्वा च शुरश्च श्रुतवानतिथिप्रियः ।
तस्याः पुत्रः स्मृतोऽक्रूरः श्वाफल्को भूरिदक्षिणः ॥ २.७१.११० ॥

उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः ।
गिरिरक्षस्ततो यक्षः शत्रुघ्नोऽथारिमर्दनः ॥ २.७१.१११ ॥

धर्मवृद्धः सुकर्मा च गन्धमादस्तथापरः ।
आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ २.७१.११२ ॥

अक्रूरादौग्रसेन्यां तु सुतौ द्वौ कुलनन्दिनौ ।
देववानुपदेवश्च जज्ञाते देवसन्निभौ ॥ २.७१.११३ ॥

चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ॥ २.७१.११४ ॥

अरिष्टनेमिरश्वास्यः सुवार्मा वर्मभृत्तथा ।
अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ २.७१.११५ ॥

सत्यकात्काशिदुहिता लेभे या चतुरः सुतान् ।
कुकुरं भजमानं च शुचिं कम्बल बर्हिषम् ॥ २.७१.११६ ॥

कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा तस्याथ विलोमाभवदात्मजः ॥ २.७१.११७ ॥

तस्यासीत्तुम्बुरुसखा विद्वान्पुत्रोंऽधकः किल ।
ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः ॥ २.७१.११८ ॥

तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः ।
अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः ॥ २.७१.११९ ॥

तस्य मध्येऽतिरात्रस्य सदोमध्यात्ससुच्छ्रितः ।
ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ २.७१.१२० ॥

तस्याथ पुत्रमिथुनं बभूवाभिजितः किल ।
आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ ॥ २.७१.१२१ ॥

इमांश्चोदा हरन्त्यत्र श्लोकान्प्रति तमाहुकम् ।
सोपासाङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥ २.७१.१२२ ॥

रथानां मेघघोषाणां महस्राणि दशैव तु ।
नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः ॥ २.७१.१२३ ॥

नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् ।
आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम् ॥ २.७१.१२४ ॥

स तेन परिवारेण किशोरप्रतिमान्हयान् ।
अशीतिमश्वनियुतान्याहुकोऽप्रतिमो व्रजन् ॥ २.७१.१२५ ॥

पूर्वस्यां दिशि नागानां भोजस्य त्वतिभावयन् ।
रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः ॥ २.७१.१२६ ॥

तावन्त्येव सहस्राणि उत्तरस्यां तथादिशि ।
भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल ॥ २.७१.१२७ ॥

आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ ।
आहुकात्काश्यदुहितुर्द्वै पुत्रौ सम्बभूवतुः ॥ २.७१.१२८ ॥

देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २.७१.१२९ ॥

देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ ॥ २.७१.१३० ॥

धृतदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा तथापरा ॥ २.७१.१३१ ॥

सप्तमी देवकी तासां सानुजा चारुदर्शना ।
नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः ॥ २.७१.१३२ ॥

न्यग्रो दश्च सुनामा च कङ्कशङ्कुसुभूमयः ।
सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान् ॥ २.७१.१३३ ॥

तेषां स्वसारः पञ्चैव कंसा कंसवती तथा ।
सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ २.७१.१३४ ॥

उग्रसेनो महापत्यो व्याख्यातः कुकुरोद्भवः ।
कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ २.७१.१३५ ॥

आत्मनोविपुलं वंशं प्रजावांश्च भवेन्नरः ।
भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः ॥ २.७१.१३६ ॥

राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ।
तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ॥ २.७१.१३७ ॥

वातश्चैव निवातश्च शोणितः श्वेतवाहनः ।
शमी च गदवर्मा च निदान्तः खलु शत्रुजित् ॥ २.७१.१३८ ॥

शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः ।
स्वयम्भोजः स्वयम्भोजाद्धृदिकः सम्बभूव ह ॥ २.७१.१३९ ॥

हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः ।
कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ २.७१.१४० ॥

देवबाहुस्सुबाहुश्च भिषक्श्वेतरथश्च यः ।
सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः ॥ २.७१.१४१ ॥

देवबाहोस्सुतो विद्वाञ्जज्ञे कम्बलबर्हिषः ।
असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः ॥ २.७१.१४२ ॥

अजातपुत्राय ततः प्रददावसमौजसे ।
सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृताः ॥ २.७१.१४३ ॥

अन्धकानामिमं वंशं कीर्त्तयेद्यस्तु नित्यशः ।
आत्मनो विपुलं वंशं लभते नात्र संशयः ॥ २.७१.१४४ ॥

अश्मक्यां जनयामास शूरं वै देव मीढुषम् ।
मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश ॥ २.७१.१४५ ॥

वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः ।
जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि ॥ २.७१.१४६ ॥

आनकानां च संह्नादः सुमहानभवद्दिवि ।
पपात पुष्पवर्षं च शरस्य भवने महत् ॥ २.७१.१४७ ॥

मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि ।
यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ २.७१.१४८ ॥

देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः ।
अनाधृष्टिवृकश्चैव नन्दनश्चैव सृञ्जयः ॥ २.७१.१४९ ॥

श्यामः शमीको गण्डूषः स्वसारस्तु वरागनाः ।
पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः ॥ २.७१.१५० ॥

राजाधिदेवी च तथा पञ्चैता वीरमातरः ।
पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ ॥ २.७१.१५१ ॥

तस्मात्सा तु स्मृता कुन्ती कुन्तिभोजात्मजा पृथा ।
कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥ २.७१.१५२ ॥

पुथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः ।
लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान् ॥ २.७१.१५३ ॥

धर्माद्युधिष्टिरं पुत्रं मारुताच्च वृकोदरम् ।
इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत् ॥ २.७१.१५४ ॥

माद्रवत्या तु जनितावश्विनाविति विश्रुतम् ।
नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ ॥ २.७१.१५५ ॥

जज्ञे तु श्रुतदेवायां तनयो वृद्धशर्मणः ।
करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः ॥ २.७१.१५६ ॥

कैकयाच्छ्रुतिकीर्त्यं तु जज्ञे सन्तर्दनो बली ।
चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ २.७१.१५७ ॥

विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ ।
श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ २.७१.१५८ ॥

दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः ।
यः पुरा सदशग्रीवः सम्बभूवारिमर्दनः ॥ २.७१.१५९ ॥

वैश्रवाणानुजस्तस्य कुम्भकर्णोऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ २.७१.१६० ॥
विश्वास-प्रस्तुतिः
पौरवी रोहिणी चैव मदिरा चापरा तथा ।
तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा ॥ २.७१.१६१ ॥

सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता ।
धृतदेवोपदेवा च देवकी सप्तमी तथा ॥ २.७१.१६२ ॥

सुगन्धा वनराजी च द्वेचान्ये परिचारिके ।
रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत् ॥ २.७१.१६३ ॥

ज्येष्ठा पत्नी महाभागदयिताऽनकदुन्दुभेः ।
ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा ॥ २.७१.१६४ ॥

दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ ।
चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत ॥ २.७१.१६५ ॥

पुत्रौ रामस्य जज्ञाते विज्ञातौ निशठोल्मुकौ ।
पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा ॥ २.७१.१६६ ॥

मन्दबाह्योऽथ रामणाङ्गिरिको गिरिरेव च ।
शुल्कगुल्मोऽतिगुल्मश्च दरिद्रान्तक एव च ॥ २.७१.१६७ ॥

कुमार्यश्चापि पञ्जान्या नामतस्ता निबोधत ।
अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ २.७१.१६८ ॥

तथा शतबला चैव सारणस्य सुतास्त्विमाः ।
भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च ॥ २.७१.१६९ ॥

भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च ।
सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वः शठात्मजाः ॥ २.७१.१७० ॥

दुर्मदस्याभिभूतश्च रोहिण्याः कुलजाः स्मृताः ।
नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः ॥ २.७१.१७१ ॥

चित्रोपचित्रौ कृतकस्तुष्टिः पुष्टिरथापरः ।
मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे ॥ २.७१.१७२ ॥

उपबिम्बोऽथ बिम्बश्च सत्त्वदन्तमहौजसौ ।
चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥ २.७१.१७३ ॥

वैशाल्यामदधाच्छौरिः पुत्रं कौशिकमुत्तमम् ।
देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि ॥ २.७१.१७४ ॥

उदर्षिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः ।
षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान् ॥ २.७१.१७५ ॥

अथ तस्या मवस्थाया आयुष्मान्सम्बभूव ह ।
लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः ॥ २.७१.१७६ ॥

अनुजाताभवकृष्णात्सुभद्रा भद्रभाषिणी ।
कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ॥ २.७१.१७७ ॥

सुभद्रायां रथी पार्थादभिमन्युरजायत ।
वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ २.७१.१७८ ॥

ये पुत्रा जज्ञिरे शुरा नामतस्तान्निबोधत ।
पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः ॥ २.७१.१७९ ॥

शान्तिदेवा जनस्तम्बं शौरेर्जज्ञे कुलोद्वहम् ।
आगावहो महात्मा च वृकदेव्या मजायत ॥ २.७१.१८० ॥

श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः ।
उपासङ्गं वसुं चापि तनयौ देवरक्षिता ॥ २.७१.१८१ ॥

एवं दश सुतास्तस्य कंसस्तानप्यघातयत् ।
विजयं रोचनं चैव वर्द्धमानं च देवलम् ॥ २.७१.१८२ ॥

एतान्महात्मनः पुत्रान्सुषाव शिशिरावती ।
सप्तमी देवकी पुत्रं सुनामानमसूयत ॥ २.७१.१८३ ॥

गवेषणं महाभागं सङ्ग्रामे चित्रयोधिनम् ।
श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः ॥ २.७१.१८४ ॥

वैश्यायामदधाच्छौरिः पुत्रं कौशिकमव्ययम् ।
सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ ॥ २.७१.१८५ ॥

पुण्डश्च कपिलश्चैव सुगन्ध्याश्चात्मजौ तु तौ ।
तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ ॥ २.७१.१८६ ॥

अन्यस्यामभवद्वीरो वसुदेवात्मजो बली ।
जरा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ २.७१.१८७ ॥

विख्यातो देवभाग्यस्य महाभागः सुतोऽभवत् ।
पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ २.७१.१८८ ॥

अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् ।
निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम् ॥ २.७१.१८९ ॥

व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः ।
एकलव्यो महाभागो निषादैः परिवर्द्धितः ॥ २.७१.१९० ॥

गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ ।
चारुदेष्णं च साम्बं च कृतास्त्रौ शस्तलक्षणौ ॥ २.७१.१९१ ॥

रन्तिश्च रन्तिपालश्च द्वौ पुत्रौ नन्दनस्य च ।
वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान् ॥ २.७१.१९२ ॥

सौमिं ददौ सुत वीरं शौरिः कौशिकमेव च ।
सृञ्जयस्य धनुश्चैव विरजाश्च सुताविमौ ॥ २.७१.१९३ ॥

अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ ।
जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥ २.७१.१९४ ॥

य इदं जन्म कृष्णस्य पठते नियतव्रतः ।
श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात् ॥ २.७१.१९५ ॥

देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः ।
विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥ २.७१.१९६ ॥

देवक्यां वसुदेवेन तपसा पुष्करेक्षणः ।
चतुर्बाहुस्तु सञ्जज्ञे दिव्यरूपश्रियान्वितः ॥ २.७१.१९७ ॥

प्रकाश्यो भगवान्योगी कृष्णो मानुषतां गतः ।
अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः ॥ २.७१.१९८ ॥

नारायणो यतश्चक्रे व्ययं चैवाव्ययं हि यत् ।
देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥ २.७१.१९९ ॥

योऽबुञ्जाच्चादिपुरुषं पुरा चक्रे प्रजापतिम् ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ २.७१.२०० ॥

देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् ।
प्रासादयन्यं च विभुं ह्यदित्याः पुत्रकारणे ॥ २.७१.२०१ ॥

वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ।
ययातिवंशजस्याथ वसुदेवस्य धीमतः ॥ २.७१.२०२ ॥

कुलं पुण्यं यतो जन्म भेजे नारायमः प्रभुः ।
सागराः समकम्पत चेलुश्च धरणीधराः ॥ २.७१.२०३ ॥

जज्वलुस्त्वग्निहोत्राणि जायमाने जनार्द्दने ।
शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः ॥ २.७१.२०४ ॥

ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्द्दने ।
अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ॥ २.७१.२०५ ॥

मुहूर्त्तो विजयो नाम यत्र जातो जनार्द्दनः ।
अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः ॥ २.७१.२०६ ॥

जज्ञे तथैव भगवान्मायया मोहयन्प्रजाः ।
आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥ २.७१.२०७ ॥

गीर्भिर्मङ्गलयुक्ताभिस्तुवन्तो मधुसूदनम् ।
महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥ २.७१.२०८ ॥

वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम् ।
श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः ॥ २.७१.२०९ ॥

उवाच वसुदेवस्तं रूपं संहर वै प्रभो ।
भीतोऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम् ॥ २.७१.२१० ॥

मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः ।
वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः ॥ २.७१.२११ ॥

अनुज्ञातः पिता त्वेनं नन्दगोपगृहं नयत् ।
उग्रसेनगृहेऽतिष्ठद्यशोदायै तदा ददौ ॥ २.७१.२१२ ॥

तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा ।
यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २.७१.२१३ ॥

यामेव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः ।
तामेव रजनीं कन्या यशोदायां व्यजायत ॥ २.७१.२१४ ॥

तं जात रक्षमाणस्तु वसुदेवो महायशाः ।
प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २.७१.२१५ ॥

दत्त्वेमं नन्दगोपस्य रक्षेममिति चाब्रवीत् ।
सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥ २.७१.२१६ ॥

अयं स गर्भा देवक्या मम क्लेशान्हरिष्यति ।
उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः ॥ २.७१.२१७ ॥

निवेदयामास तदा कन्येति शुभलक्षणा ।
स्वसुस्तु तनयं कंसो जातं नैवावधारयत् ॥ २.७१.२१८ ॥

अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः ।
तवैषा हि यथा कन्या तथा मम न संशयः ।
न हन्मीमां महाबाहो व्रजत्वेषा यथारुचि ॥ २.७१.२१९ ॥

कन्या सा ववृधे तत्र वृष्मिसद्मनि पूजिता ।
पुत्रवत्पालयामास देवी देवीं मुदा तदा ॥ २.७१.२२० ॥

तमेवं विधिनोत्पन्नमाहुः कृष्णं प्रजापतिम् ।
एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह ॥ २.७१.२२१ ॥

एतां चैकाग्रमनसः पूजयिष्यन्ति यादवाः ।
देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २.७१.२२२ ॥

ऋषय ऊचुः
किमर्थं वसुदेवस्य भोजः कंसो नराधिपः ।
जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २.७१.२२३ ॥

शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः ।
जाताञ्जातास्तु तान्सर्वान्निष्पिपेष वृथामतिः ॥ २.७१.२२४ ॥

भयाद्यथा महाबाहो जातः कृष्णो विवासितः ।
यथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २.७१.२२५ ॥

उद्वाहे किल देवक्या वसुदेवस्य धीमतः ।
सारथ्यं कृतवान्कंसो युवराजस्तदाभवत् ॥ २.७१.२२६ ॥

ततोंऽतरिक्षे वागासीद्दिव्याभूद्यस्य कस्यचित् ।
कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी ॥ २.७१.२२७ ॥

यामेतं वहसे कंस रथेन प्रियकारणात् ।
तस्या यश्चाष्टमो गर्भः स ते मृत्युर्भबिष्यति ॥ २.७१.२२८ ॥

तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः ।
निष्कृष्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ॥ २.७१.२२९ ॥

तमुवाच महाबाहुर्वसुदेवः प्रतापवान् ।
उग्रसेनात्मजं कसं सौत्दृदात्प्रणयेन वा ॥ २.७१.२३० ॥

न स्त्रियं क्षत्रियो जातु हन्तुमर्हसि कश्चन ।
उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥ २.७१.२३१ ॥

योऽस्याः सञ्जायते गर्भो ह्यष्टमः पृथिवीपते ।
तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २.७१.२३२ ॥

न त्विदानीं यथेष्टं त्वं वर्त्तेथा भूरिदक्षिण ।
सर्वानप्यथ वा गर्भान्पृथङ्नेष्यामि ते वशम् ॥ २.७१.२३३ ॥

एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति ।
एवमुक्तोऽनुनीतः स जग्राह वचनं तदा ॥ २.७१.२३४ ॥

वसुदेवश्च तां भार्यामवाप्य मुदितोऽभवत् ।
कंसस्तस्यावधीत्पुत्रान्पापकर्मा वृथामतिः ॥ २.७१.२३५ ॥

क एष वसुदेवस्तु देवकी च यशस्विनी ।
नन्दगोपस्तु कस्त्वेष यशोदा य महायशाः ॥ २.७१.२३६ ॥

यो विष्णुं जनयामास यं च तातेत्यभाषत ।
या गर्भं जनयामास या वैनं याभ्यवर्द्धयत् ॥ २.७१.२३७ ॥

पुरुषः कश्यपस्त्वासी ददितिस्तत्प्रिया तथा ।
कश्यपो ब्रह्मणोंऽशश्च पृथिव्या आदितिस्तथा ॥ २.७१.२३८ ॥

नन्दो द्रोणः समाख्यातो यशोदा च धराभवत् ।
अथ कामान्महाबाहुर्देवक्याः सम्प्रवर्द्धयन् ॥ २.७१.२३९ ॥

अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम् ।
मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ २.७१.२४० ॥

नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् ।
कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ २.७१.२४१ ॥

वैदर्भी रुक्मिणी कन्या सत्या नग्नजितस्तदा ।
सत्राजितः सत्यभामा जाम्बवत्यपि रोहिणी ॥ २.७१.२४२ ॥

शैब्या धन्यानि देवीनां सहस्राणि च षोडश ।
चतुर्दश तु ये प्रोक्ता गणास्त्वप्सरसां दिवि ॥ २.७१.२४३ ॥

विचार्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः ।
पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु ॥ २.७१.२४४ ॥

एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः ।
प्रद्युम्नश्चारुदेष्णश्च सुदेवः शरभस्तथा ॥ २.७१.२४५ ॥

चारुश्च चारुभद्रश्च भद्रचारुस्तथापरः ।
चारुविद्यश्च रुक्मिण्यां कन्या चारुमती तथा ॥ २.७१.२४६ ॥

सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रवित्तथा ।
जरोऽधकस्ताम्रचक्रौ सौभरिश्च जरेधरः ॥ २.७१.२४७ ॥

चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
भानुः सौभरिका चैव ताम्रपर्णी जरन्धरः ॥ २.७१.२४८ ॥

सत्यभामासुता एते जाम्बवत्याः प्रजाः श्रुणु ।
भद्रश्च भद्रगुप्तश्च भद्रचित्रस्तथैव च ॥ २.७१.२४९ ॥

बध्रबाहुश्च विख्यातः कन्या भद्रवती तथा ।
सम्बोधनी च विख्याता ज्ञेया जाम्बवतीसुताः ॥ २.७१.२५० ॥

सङ्ग्रामजिच्च शतजित्तथैव च सहस्र जित् ।
एते पुत्राः सुदेव्यां च विष्वक्सेनस्य कीर्त्तिताः ॥ २.७१.२५१ ॥

वृको वृकाश्वो वृकजिद्वृजिनी च वराङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्या प्रजास्त्विह ॥ २.७१.२५२ ॥

एवमादीनि पुत्राणां सहस्राणि निबोधत ।
प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः ॥ २.७१.२५३ ॥

अयु तानि यथाष्टौ च शूरा रणविशारदाः ।
जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम् ॥ २.७१.२५४ ॥

बृहती पुरुभार्यासीत्सुमध्या सुगतिस्तथा ।
कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः ॥ २.७१.२५५ ॥

तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः ।
आनन्दः कनकः श्वेतः कन्या श्वेता तथैव च ॥ २.७१.२५६ ॥

अगावहस्य चित्रश्च शूरश्चित्ररथश्च यः ।
चित्रसेनः स्मृतश्चास्य कन्या चित्रवती तथा ॥ २.७१.२५७ ॥

तुम्बश्च तुम्बंवर्चाश्च जातौ तुम्बस्य तावुभौ ।
उपासङ्गसुतौ द्वौ तु वज्रारः क्षिप्र एव च ॥ २.७१.२५८ ॥

भूरीन्द्रसेनो भूरिश्च गवेषणसुतापुभौ ।
युधिष्टिरस्य कन्यायां सुधनुस्तस्य चात्मजः ॥ २.७१.२५९ ॥

काश्यां तु पञ्च तनयांल्लेभे साम्बात्तरस्विनः ।
सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्त्तिताः ॥ २.७१.२६० ॥

तिस्रः कोट्यस्तु पौत्राणां यादवानां महात्मनाम् ।
सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले ॥ २.७१.२६१ ॥

विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिभिस्तस्य बध्यन्ते सुरमानुषाः ॥ २.७१.२६२ ॥

देवासुराहवहता असुरा ये महाबलाः ।
इहोत्पन्ना मनुष्येषु बाधन्ते ते तु मानवान् ॥ २.७१.२६३ ॥

तेषामुत्सादनार्थाय उत्पन्ना यादवे कुले ।
समुत्पन्नं कुलशतं यादवानां महात्मनाम् ॥ २.७१.२६४ ॥

इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः ।
कीर्त्तिता कीर्त्तनीया स कीर्त्तिसिद्धिमभीप्सता ॥ २.७१.२६५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥