०६६

विश्वास-प्रस्तुतिः

सूत उवाच
सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ २.६६.१ ॥

मूलम्

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः ।
आहर्त्ता चाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ २.६६.२ ॥

सत्यवाग्धर्मबुद्धिश्च कान्तः संवृत्तमैथुनः ।
अतीव त्रिषु लोकेषु रूपेणाप्रतिमोऽभवत् ॥ २.६६.३ ॥

तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् ।
उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ २.६६.४ ॥

तया सहावसद्राजा दश वर्षाणि चाष्ट च ।
सप्त षट्सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ २.६६.५ ॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥ २.६६.६ ॥

गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे ।
उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च ॥ २.६६.७ ॥

एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्वश्या सहितो राजा रेमे परमया मुदा ॥ २.६६.८ ॥

ऋषय ऊचुः
गन्धर्वी चोर्वशी देवी राजानं मानुषं कथम् ।
उत्सृज्य तं च सम्प्राप्ता तन्नो ब्रूहि च दुष्कृतम् ॥ २.६६.९ ॥

ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता ।
आत्मनः शापमोक्षार्थं नियमं सा चकार तु ॥ २.६६.१० ॥

अनग्नदर्शनं चैव अकामात्सह मैथुनम् ।
द्वौ मेषौ शयनाभ्याशे सा तावद्ध्यवतिष्ठते ॥ २.६६.११ ॥

घृतमात्रं तथाऽहारः कालमेकं तु पार्थिव ।
यद्येष समयो राजन्यावत्कालश्च ते दृढः ॥ २.६६.१२ ॥

तावत्कालं तु वत्स्यामि एष नः समयः कृतः ।
तस्यास्तं समयं सर्वं स राजा पर्यपालयत् ॥ २.६६.१३ ॥

एवं सा चावसत्तेन सहेलेना भिगामिनी ।
वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता ॥ २.६६.१४ ॥

उर्वशी मानुषं प्राप्ता गन्धर्वाश्चिन्तयान्विताः ।
गन्धर्वा ऊचुः
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ॥ २.६६.१५ ॥

आगच्छेत्तु पुनर्देवानुर्वशी स्वर्गभूषणम् ।
ततो विश्वापसुर्नाम गन्धर्वः सुमहामतिः ॥ २.६६.१६ ॥

जहारोरणकौ तस्यास्तत्पश्चात्सा दिवं गता ।
तस्यास्तु विरहेणासौ भ्रममाणस्त्वथोर्वशीम् ॥ २.६६.१७ ॥

ददर्श च कुरुक्षेत्रे तया सम्भाषितोऽप्ययम् ।
गन्धर्वानुपधावेति स तच्चक्रेऽथ ते ददुः ॥ २.६६.१८ ॥

अग्निस्थालीं तया राजा गतः स्वर्गं महारथः ।
एकोऽग्निः पूर्वमासीद्वै ऐलस्तं त्रीनकल्पयत् ॥ २.६६.१९ ॥

एवम्प्रभावो राजासीदैलस्तु द्विजसत्तमाः ।
देशे पुण्यतमे चैव महर्षिभिरलङ्कृते ॥ २.६६.२० ॥

राज्यं स कारयामास प्रयागे पृथिवीपतिः ।
उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ २.६६.२१ ॥

तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः ।
गन्धर्वलोके विदिता आयुर्द्धीमानमावसुः ॥ २.६६.२२ ॥

विश्वावसुः श्रुतायुश्च घृतायुश्चोवर्शीसुताः ।
अमावसोस्तु वै जाते भीमो राजाथ विश्वचित् ॥ २.६६.२३ ॥

श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः ।
विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबल ॥ २.६६.२४ ॥

सुहोत्रस्याभवज्जह्नुः केशिनीगर्भसम्भवः ।
प्रतिगत्य ततो गङ्गा वितते य५ अर्मणि ॥ २.६६.२५ ॥

सादयामास तं देशं भाविनोर्ऽथस्य दर्शनात् ।
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ २.६६.२६ ॥

सौहोत्रिरपि सङ्क्रुद्धो गङ्गां राजा द्विजोत्तमाः ।
तदाराजर्षिणा पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥ २.६६.२७ ॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ।
यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत् ॥ २.६६.२८ ॥

युवनाश्वस्य शापेन गङ्गार्द्धेन विनिर्ममे ।
कावेरीं सरितां श्रेष्ठ जह्नुभार्यामनिन्दिताम् ॥ २.६६.२९ ॥

जह्नुस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् ।
कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ २.६६.३० ॥

अजकस्य तु दायादो बलाकाश्वो महायशाः ।
बभूव मृग शीलः सुशस्तस्यात्मजः स्मृतः ॥ २.६६.३१ ॥

कुशपुत्रा बभूवुश्च चत्वारो देववर्चसः ।
कुशाम्बः कुशानाभश्च अमूर्तरयमो वसुः ॥ २.६६.३२ ॥

कुशिकस्तु तपस्तेपे पुत्रार्थी राजसत्तमः ।
पूर्णे वर्षसहस्रे वै शतक्रतुरपश्यत ॥ २.६६.३३ ॥

तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ २.६६.३४ ॥

पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः ।
गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ २.६६.३५ ॥

पौरुकुत्स्यभवद्भार्या गाधेस्तस्यामजायत ।
पूर्वं कन्या महाभागा नाम्ना सत्यवती शुभा ॥ २.६६.३६ ॥

तां गाधिः पुत्रकामाय ऋचीकाय ददौ प्रभुः ।
तस्याः प्रीतस्तु वै भर्त्ता भार्गवो भृगुनन्दनः ॥ २.६६.३७ ॥

पुत्रार्थे साधयामास चरुं गाधेस्तथैव च ।
अथावोचत्प्रियां तत्र ऋचीको भार्गवस्तदा ॥ २.६६.३८ ॥

उपभोज्यश्चरुरयं त्वया मात्रा च ते शुभा ।
तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्त्रियर्षभः ॥ २.६६.३९ ॥

अजेयः क्षत्त्रियैर्युद्धे क्षत्रियर्षभसूदनः ।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ २.६६.४० ॥

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।
एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ॥ २.६६.४१ ॥

तपस्यभिरतो नित्यमरण्यं प्रविशेश ह ।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ २.६६.४२ ॥

तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।
चरुद्वयं गृहीत्वा तु ऋषेः स्त्यवती तदा ॥ २.६६.४३ ॥

भर्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् ।
माता तु तस्यै दैवैन दुहित्रे स्वचरुं ददौ ॥ २.६६.४४ ॥

तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह ।
अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम् ॥ २.६६.४५ ॥

धारयामास दीप्तेन वपुषा घोरदर्शना ।
तामृचीकस्ततो दृष्ट्वा योगेनाप्यवमृश्य च ॥ २.६६.४६ ॥

तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् ।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ २.६६.४७ ॥

जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुमः ।
माता जनिष्यते चापि तथा भूतं तपोधनम् ॥ २.६६.४८ ॥

विश्वं हि ब्रह्मतपसा मया तत्र समर्पितम् ।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ २.६६.४९ ॥

प्रसादयामास पतिं सुतो मे नेदृशो भवेत् ।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिमब्रवीत् ॥ २.६६.५० ॥

नैव सङ्कल्पितः कामो मया भद्रे तथा त्वया ।
उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ २.६६.५१ ॥

पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् ।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ २.६६.५२ ॥

शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि ।
काममेवंविधः पौत्रो मम स्यात्तव सुव्रत ॥ २.६६.५३ ॥

यद्यन्यथा न सक्यं वै कर्तुम्मेवं द्विजोत्तम ।
ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ २.६६.५४ ॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रेभविष्यति ॥ २.६६.५५ ॥

तस्मात्सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ॥ २.६६.५६ ॥

भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा ।
जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥ २.६६.५७ ॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
प्राप्य ब्रह्मर्षिसमतां जगाम ब्रह्मणा वृतः ६६.५८॥
सा हि सत्यवती पुण्या सत्यव्रतपरायणा ।
कौशिकी तु समाख्याता प्रवृत्तेयं महानदी ॥ २.६६.५९ ॥

परिस्रुता महाभागा कौशिकी सरितां वरा ।
इक्ष्वाकुवंशप्रभवो रेणुको नाम पार्थिवः ॥ २.६६.६० ॥

तस्य कन्या महाभागा कमली नाम रेणुका ।
रेणुकायां कमल्यां तु तपोधृतिसमाधिना ॥ २.६६.६१ ॥

आर्चीको जनयामाम जमदग्निः सुदारुणम् ।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ २.६६.६२ ॥

रामं क्षत्त्रियहन्तारं प्रदीप्तमिव पावकम् ।
और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः ॥ २.६६.६३ ॥

जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ।
मध्यमश्च शुनःशेफः शुनः पुच्छः कनिष्ठकः ॥ २.६६.६४ ॥

विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः ।
जज्ञे भृगुप्रसादेन कौशिकान्वयवर्द्धनः ॥ २.६६.६५ ॥

विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः ।
हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियतः स वै ॥ २.६६.६६ ॥

देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः ।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ २.६६.६७ ॥

विश्वामित्रस्य पुत्राणां शुनःशेफोऽग्रजः स्मृतः ।
मधुच्छन्दादयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥ २.६६.६८ ॥

कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै ।
तेषाङ्गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥ २.६६.६९ ॥

पार्थिवा देवराताश्च जाज्ञवल्क्याः समर्पणाः ।
उदुम्बराश्च वातड्यास्तलकायनचान्द्रवाः ॥ २.६६.७० ॥

लोहिण्यो रेणवस्छैव तथा कारिषवः स्मृताः ।
बभ्रवः पणिनस्छैव ध्यानजप्यास्तथैव च ॥ २.६६.७१ ॥

श्यामायना हिरण्याक्षाः साङ्कृता गालवाः स्मृताः ।
देवला यामदूताश्च शालङ्कायनबाष्कलाः ॥ २.६६.७२ ॥

लालाढ्या बादराश्चान्ये विश्वामित्रस्य धीमतः ।
ऋष्यन्तरविवाह्यास्ते बहबः कौशिकाः स्मृताः ॥ ६५.७३॥

कौशिकाः सौश्रुताश्चैव तथान्ये सैन्धवायनाः ।
योगेश्वरस्य पुण्यस्य बह्मर्षेः कौशिकस्य वै ।
विश्वामित्रस्य पुत्राणां शुनःशेफोऽग्रजः स्मृतः ॥ २.६६.७४ ॥

दृषद्वती सुतश्चापि विश्वामित्रात्तथाष्टकः ।
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ॥ २.६६.७५ ॥

किंलक्षणेन धर्मेण तपसेह श्रुतेन वा ॥ २.६६.७६ ॥

ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः ।
येनयेनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः ॥ २.६६.७७ ॥

विशेषं ज्ञातुमिच्छामि तपसो दानतस्तथा ।
एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत् ॥ २.६६.७८ ॥

अन्यायोपगतैर्द्रव्यैराहूय द्विजसत्तमान् ।
धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ २.६६.७९ ॥

जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः ।
रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥ २.६६.८० ॥

तेन दत्तानि दानानि ह्यफलानि भवन्त्युत ।
तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥ २.६६.८१ ॥

एवं लब्ध्वा धने मोहाद्ददतो यजतश्च ह ।
सङ्क्लिष्टं कर्मणा दानं न तिष्ठति दुरात्मनः ॥ २.६६.८२ ॥

न्यायागतानां द्रव्याणां तीर्थं सम्प्रतिपादनम् ।
कामाननभि सन्धाय यजते च ददाति च ॥ २.६६.८३ ॥

स दानफलमाप्नोति तच्च दानं सुखोदयम् ।
दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥ २.६६.८४ ॥

तपसा तु सुतप्तेन लोकान्विष्टभ्य तिष्ठति ।
सत्यं तु तपसः श्रेयस्तस्माज्ज्ञानं गुरु स्मृतम् ॥ २.६६.८५ ॥

श्रूयते हि तपस्सिद्धाः क्षत्त्रोपेता द्विजातयः ।
विश्वामित्रो नरपतिर्मान्धाता सङ्कृतिः कपिः ॥ २.६६.८६ ॥

काश्यश्च पुरुकुत्सश्च शलो गृत्समदः प्रभुः ।
आर्ष्टिषेणोऽजमीढश्च भार्गव्योमस्तथैव च ॥ २.६६.८७ ॥

कक्षीवांश्चैवौशिजश्च नृपश्च शिशिरस्तथा ।
रथान्तरः शौनकश्च विष्णुवृद्धादयो नृपाः ॥ २.६६.८८ ॥

क्षत्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः ।
एते राजर्षयः सर्वे सिद्धिं तु महतीं गताः ॥ २.६६.८९ ॥

अत ज्ञर्ध्वं प्रवक्ष्यामि आयोर्वंशं महात्मनः ॥ २.६६.९० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धात पादे भार्गवचरिते अमावसुवंशानुकीर्त्तनं नाम षट्षष्टितमोऽध्यायः ॥ ६६॥