विश्वास-प्रस्तुतिः
सूत उवाच
पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः ।
तत्रात्रिः सर्वलोकानां तस्थौ स्वेनौजसा वृतः ॥ २.६५.१ ॥ अत्रि शब्दोपरि टिप्पणी
मूलम्

कर्मणा मनसा वाचा शुभान्येव समाचरन् ।
काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ॥ २.६५.२ ॥

सुदुश्चरं नाम तपो येन तप्तं महात्पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ २.६५.३ ॥

तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्य ह ।
सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः ॥ २.६५.४ ॥

ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः ।
नेत्राभ्या मस्रवत्सोमो दशधा द्योतयन् दिशः ॥ २.६५.५ ॥

तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ २.६५.६ ॥

स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रसाधितः ।
पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः ॥ २.६५.७ ॥

यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः ।
ततः सहाभिः शीतांशुर्निपपात वसुन्धराम् ॥ २.६५.८ ॥

पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ॥ २.६५.९ ॥

स हि वेदमयो विप्रा धर्मात्मा सत्यसङ्गरः ।
युक्ते वाजिसहस्रेण रथेऽध्यास्तेति नःश्रुतम् ॥ २.६५.१० ॥

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनः ।
तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः ॥ २.६५.११ ॥

तत्रैवाङ्गिरसास्तस्य भृगोश्चैवात्मजास्तथा ।
ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ॥ २.६५.१२ ॥

ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः ॥ २.६५.१३ ॥

स तेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥ २.६५.१४ ॥

तस्य यद्वर्द्धितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूतास्तेजसा खं ज्वलत्युत ॥ २.६५.१५ ॥

ताभिः पुण्यात्ययं लोकान्प्रजाश्चापि चतुर्विधाः ।
पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः ॥ २.६५.१६ ॥

स लब्धतेजास्तपसा संस्तवैस्तैः स्वकर्मभिः ।
तवस्तेपे महाभागः समानां नवतीर्दश ॥ २.६५.१७ ॥

इरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत् ।
विभुस्तासां मुदा सोमः प्रख्यातःस्वेन कर्मणा ॥ २.६५.१८ ॥

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च द्विजसत्तमाः ॥ २.६५.१९ ॥

सोऽभिषिक्तो महातेजा महाराज्येन राजराट् ।
लोकान्वै भावयामास तेजस्वी तपतां वरः ॥ २.६५.२० ॥

सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः ।
ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ २.६५.२१ ॥

स तत्प्राप्य महाद्राज्यं सोमः सोमवतां प्रभुः ।
समारेभे राजसूयं सहस्रशतदक्षिणम् ॥ २.६५.२२ ॥

हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमीयिवान् ।
सदस्यस्तत्र भगवान्हरिर्नारायणः प्रभुः ॥ २.६५.२३ ॥

सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २.६५.२४ ॥
विश्वास-प्रस्तुतिः
दक्षिणामददात्सोमस्त्रींल्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ॥ २.६५.२५ ॥

तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः ।
कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ २.६५.२६ ॥

प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ।
अतिरेजे हि राजेन्द्रो दशधा भासयन्दिशः ॥ २.६५.२७ ॥

तस्य तत्प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् ।
विबभ्राम मतिर्विप्रा विनयादनयावृता ॥ २.६५.२८ ॥

बृहस्पतेः सवै भार्यां तारां नाम यशस्विनीम् ।
जहार सहसा सर्वानवमत्याङ्गिरःसुतान् ॥ २.६५.२९ ॥

स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह ।
नैव व्यसर्जयत्तारां तस्मा अङ्गिरसे तदा ॥ २.६५.३० ॥

उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो भवः ।
स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ॥ २.६५.३१ ॥

तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः ।
पार्ष्मिग्राहोऽभवद्देवः प्रगृह्याजगवं धनुः ॥ २.६५.३२ ॥

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ २.६५.३३ ॥

तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ॥ २.६५.३४ ॥

तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ते स्मृताः ।
ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ २.६५.३५ ॥

ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् ।
ददावाङ्गिरसे तारां स्वयमेत्य पितामहः ॥ २.६५.३६ ॥

अन्तर्वत्नीं च तां दृष्ट्वा तारां ताराधिपाननाम् ।
गर्भमुत्सृज सद्यस्त्वं विप्रः प्राह बृहस्पतिः ॥ २.६५.३७ ॥

मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन ।
अथो तारासृजद्गर्भं ज्वलन्तमिव पावकम् ॥ २.६५.३८ ॥

जातमात्रोऽथ भगवान्देवानामाक्षिपद्वपुः ।
ततः संशयमापन्नस्तारामकथयन्सुराः ॥ २.६५.३९ ॥

सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ।
ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा ॥ २.६५.४० ॥

तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ।
तं निवार्य तदाब्रह्मा तारां पप्रच्छ संशयम् ॥ २.६५.४१ ॥

यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ।
सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥ २.६५.४२ ॥

सोमस्यति महात्मानं कुमारं दस्युहन्तमम् ।
ततः सुतमुपाघ्राय सोमो राजा प्रजापतिः ॥ २.६५.४३ ॥

बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः ।
प्रतिघस्रं च गगने समभ्युत्तिष्ठते बुधः ॥ २.६५.४४ ॥

उत्पादयामास तदा पुत्रं वे राजपुत्रिका ।
तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः ॥ २.६५.४५ ॥

उर्वश्यां जज्ञिरे तस्य पत्राः षट्सुमहौजसः ।
प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा ॥ २.६५.४६ ॥

ततो यक्ष्माभिभूतस्तु सोमः प्रक्षिणमण्डलः ।
जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ २.६५.४७ ॥

तस्य तत्पापशमनं चकारात्रिर्महायशाः ।
स राजयक्ष्मणा मुक्तः श्रीया जजवाल सर्वशः ॥ २.६५.४८ ॥

एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः ।
वंशं तस्य द्विजश्रेष्ठा कीर्त्यमानं निबोधत ॥ २.६५.४९ ॥

धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् ।
सौम्यस्य चन्म श्रुत्वैवं सर्वपापैः प्रमुच्यते ॥ २.६५.५० ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सोमसौम्ययोर्जन्मकथनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५॥