विश्वास-प्रस्तुतिः
सूत उवाच
अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोघत ।
योऽसौ निवेशयामास पुरं देवपुरोपमम् ॥ २.६४.१ ॥
मूलम्

जयन्तमिति विख्यातं गौतमस्याश्रमान्तिकम् ।
यस्यान्ववाये जज्ञे वै जनको नृपसत्तमः ॥ २.६४.२ ॥

निमिर्नाम सुधर्मात्मा सर्वसत्त्वनमस्कृतः ।
आसीत्पुत्रो महाराज चैक्ष्वाकोर्भूरितेजसः ॥ २.६४.३ ॥

स शापेन वसिष्ठस्यविदेहः समपद्यत ।
तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥ २.६४.४ ॥

अरण्यां मथ्यमानाया प्रादुर्भूतो महायशाः ।
नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ॥ २.६४.५ ॥

मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत् ।
राजासौ नाम जनको जनकाच्चा प्युदावसुः ॥ २.६४.६ ॥

उदावसोस्तु धर्मात्मा जातोऽसौ नन्दिवर्द्धनः ।
नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥ २.६४.७ ॥

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य धर्मात्मा बृहदुक्थ इति श्रुतः ॥ २.६४.८ ॥

बृहदुक्थस्य तनयो महावीर्यः प्रतापवान् ।
महावीर्यस्य धृतिमान् सुधृति स्तस्य चात्मजः ॥ २.६४.९ ॥

सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः ।
धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः ॥ २.६४.१० ॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिम्बकः ।
प्रतिम्बकस्य धर्मात्मा राजा कीर्त्तिरथः स्मृतः ॥ २.६४.११ ॥

पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः ।
देवमीढस्य विबुधो विबुधस्य महाधृतिः ॥ २.६४.१२ ॥

महाधृतिसुतो राजा कीर्त्तिरातः प्रतापवान् ।
कीर्तिरातात्मजो विद्वान्महारोमेति विश्रुतः ॥ २.६४.१३ ॥

महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत ।
स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवन्नृपः ॥ २.६४.१४ ॥

ह्रस्वरोमान्मजो विद्वान् सरिद्ध्वज इति श्रुतः ।
उद्भिन्ना कर्षता येन सीता राज्ञा यशस्विनी ॥ २.६४.१५ ॥

रामस्य महिधी साध्वी सुव्रता नियतव्रता ।
वैशम्पायन उवाच
कथं सीता समुत्पन्न कृष्यमाण यशस्विनी ॥ २.६४.१६ ॥

किमर्थं वाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ।
सूत उवाच
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः ॥ २.६४.१७ ॥

विधिना सुप्रयत्नेन तस्मात्सा तु समुत्थिता ।
सीरध्वजानुजातस्तु भानुमान्नाम मैथिलः ॥ २.६४.१८ ॥

भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ।
तस्य भानुमतः पुत्रः प्रद्युम्नश्च पतापवान् ॥ २.६४.१९ ॥

मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ।
ऊर्जवहात्सनद्वाजः शकुनिस्तस्य चात्मजः ॥ २.६४.२० ॥

स्वागतः शकुनेः पुत्रः सुवर्चास्तत्सुतः स्मृतः ।
सुतोपस्तस्य दायादः सुश्रुतस्तस्य चात्मजः ॥ २.६४.२१ ॥

सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ।
विजयस्य क्रतुः पुत्र क्रतोश्च सुनयः स्मतः ॥ २.६४.२२ ॥

सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ।
धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः ॥ २.६४.२३ ॥

तस्मिन्सन्तिष्ठते वंशो चनकानां महात्मनाम् ।
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २.६४.२४ ॥

एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीये उपोद्धातपादे निमिवंशानुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४॥