०६१

विश्वास-प्रस्तुतिः

सूत उवाच
विसर्गं मनुपुत्राणां विस्तरेण निबोधत ।
पृषध्रो हिंसयित्वा तु गुरोर्गां निशि तत्क्षये ॥ २.६१.१ ॥

मूलम्

शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः ।
करूषस्य तु कारूषाः क्षत्त्रिया युद्धदुर्मदाः ॥ २.६१.२ ॥

सहस्रं क्षत्त्रियगणो विक्रान्तः सम्बभूव ह ।
नाभागो दिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ॥ २.६१.३ ॥

भलन्दनस्य पुत्रोऽभूत्प्रांशुर्नाम महाबलः ।
प्रांशोरेकोऽभवत्पुत्रः प्रजापतिसमो नृपः ॥ २.६१.४ ॥

संवर्तेन दिवं नीतः ससुहृत्सहबान्धवः ।
विवादोऽत्र महानासीत्संवर्त्तस्य बृहस्पतेः ॥ २.६१.५ ॥

ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ।
संवर्त्तेन तते यज्ञे चुकोप स भृशं तदा ॥ २.६१.६ ॥

लोकानां सहि नाशाय दैवतैर्हि प्रसादितः ।
मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवासवान् ॥ २.६१.७ ॥

नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ।
तस्य पुत्रस्तु विज्ञातो राजासीद्राष्ट्रवर्द्धनः ॥ २.६१.८ ॥

सुधृतिस्तस्य पुत्रस्तु नरः सुधृतितः पुनः ।
केवलस्य पुत्रस्तु बन्धुमान्केवलात्मजः ॥ २.६१.९ ॥

अथ बन्धुमतः पुत्रोधर्मात्मा वेगवान्नृप ।
बुधो वेगवतः पुत्रस्तृणबिन्दुर्बुधात्मजः ॥ २.६१.१० ॥

त्रेतायुगमुखे राजा तृतीये सम्बभूव ह ।
कन्या तु तस्येडविडामाता विश्रवसो हि सा ॥ २.६१.११ ॥

पुत्रो योऽस्य विशालोऽभूद्राजा परमधार्मिकः ।
दाश्वान्प्रख्यातवीर्य्यौजा विशाला येन निर्मिता ॥ २.६१.१२ ॥

विशालस्य सुतो राजा हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ २.६१.१३ ॥

सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयो विद्वान्सृञ्जयः समपद्यत ॥ २.६१.१४ ॥

सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ।
कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ २.६१.१५ ॥

कृशाश्वस्य महातेजा सोमदत्तः प्रतापवान् ।
सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः ॥ २.६१.१६ ॥

जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ।
तृणबिन्दुप्रभावेण सर्वे वैशालका नृपाः ॥ २.६१.१७ ॥

दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।
शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः ॥ २.६१.१८ ॥

पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य च ।
आनर्त्तस्य तु दायादो रेवो नाम सुवीर्यवान् ॥ २.६१.१९ ॥

आनर्त्तविषयो यस्य पुरी चापि कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ २.६१.२० ॥

ज्येष्ठो भ्रातृशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोंऽतिके ॥ २.६१.२१ ॥

मुहर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभो ।
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् ॥ २.६१.२२ ॥

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ २.६१.२३ ॥

तां कथां रेवतः श्रुत्वा यथातत्त्वमरिन्दमः ।
कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् ।
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २.६१.२४ ॥

रेमे रामश्च धर्मात्मा रेवत्या सहितः किल ।
तां कथामृषयः श्रुत्वा पप्रच्छुक्तदनन्तरम् ॥ २.६१.२५ ॥

ऋषय ऊचुः
कथं बहुयुगे काले समतीते महामते ।
न जरा रेवतीं प्राप्ता रैवतं वा ककुद्मिनम् ।
एतच्छुश्रूषमाणान्नो गान्धर्वं वद चैव हि ॥ २.६१.२६ ॥

न जरा क्षुत्पिपासे वा न च मृत्युभयं ततः ।
न च रोगः प्रभवति ब्रह्मलोकं गतस्य ह ॥ २.६१.२७ ॥

गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः ।
ततोऽहं सम्प्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ २.६१.२८ ॥

सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।
तानाश्चैकोनपञ्चाशदित्येत्स्वरमण्डलम् ॥ २.६१.२९ ॥

षड्जषभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥ २.६१.३० ॥

सौवीरा मध्यमा ग्रामा हरिणाश्च तथैव च ॥ २.६१.३१ ॥

विश्वास-प्रस्तुतिः

तस्याः कालोयनोपेताश्चतुर्थाशुद्धमध्यमाः ।
नग्निं च पौषा वै देव दृष्ट्वा काञ्च यथाक्रमः ॥ २.६१.३२ ॥

मध्यमग्रामिकाख्याता षड्जग्रामा निबोधत ।
उत्तरं मन्द्रा रजनी तथा वाचोन्नरायताः ॥ २.६१.३३ ॥

मध्यषड्जा तथा चैव तथान्या चाभिमुद्गणा ।
गान्धारग्रामिका श्यामा कीर्तिमाना निबोधत ॥ २.६१.३४ ॥

अग्निष्टोमं तु माद्यं तु द्वितीयं वाजपेयिकम् ।
यवरातसूयस्तु षष्ठवत्तु सुवर्मकम् ॥ २.६१.३५ ॥

सप्त गौसवना नाम महावृष्टिकताष्टमाम् ।
ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् ।
नागयक्षाश्रयं विद्वान् तद्गोत्तरतथैव च ॥ २.६१.३६ ॥

पदक्रान्तमृगक्रान्तं विष्णुक्रान्तमनोहरा ।
सूर्यकान्तधरेण्यैव सन्तकोकिलविश्रुतः ॥ २.६१.३७ ॥

तेनवानित्यपवशपिशाचातीवनह्यपि ।
सावित्रमर्धसावित्रं सर्वतोभद्रमेव च ॥ २.६१.३८ ॥

मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः ।
अलम्बुषेसेष्टमथो विष्णुवैणवरावुभौ ॥ २.६१.३९ ॥

सागराविजयं चैव सर्वभूतमनोहरः ।
हतोत्सृष्टो विजानीत स्कन्धं तु प्रियमेव च ॥ २.६१.४० ॥

अलम्बुसेष्टस्य तथा नारदप्रिय एव च ॥ २.६१.४१ ॥

कथितो भीमसेनेन नगरातानयप्रियः ।
विकलोपनीतविनताश्रीराख्यो भार्गवप्रियः ॥ २.६१.४२ ॥

चतुर्दश तथा पञ्चदशेच्छन्तीह नारदः ।
ससौवीरां सुसोवीरा ब्रह्मणो ह्यपगीयते ॥ २.६१.४३ ॥

उत्तरादिस्वरश्चैव ब्रह्मा वै देवतास्त्रयः ।
हरिदेशसमुत्पन्ना हरिणस्याव्यजायत ॥ २.६१.४४ ॥

मूर्छना हरिणा ते वै चन्द्रस्यास्याधिदैवतम् ।
करोपनीता विवृतावनुद्रिः स्वरमण्डले ॥ २.६१.४५ ॥

साकलोपनतातस्मान्मनुतस्यान्नदैवतः ।
मनुदेशाः समुत्पन्ना मूर्च्छनाशुद्धमात्मना ॥ २.६१.४६ ॥

तस्मात्तस्मान्मृगामर्गीमृगेन्द्रोस्याधिदैवता ।
सावश्रमसमाद्युम्ना अनेकापौरुषानखान् ॥ २.६१.४७ ॥

मूर्च्छनायोजनाह्येषास्याद्रजसारजनीततः ।
तानि उत्तर मद्रांसपद्गदैवतकं विदुः ॥ २.६१.४८ ॥

तस्मादुत्तरतायावत्प्रथमं स्वायमं विदुः ।
तमोदुत्तरमैद्रोयदेवतास्याद्रुवेन च ॥ २.६१.४९ ॥

अपामदुत्तरत्वावधैवतस्योत्तरायणः ।
स्यादिजमूर्छनाह्येच पितरः श्राद्धदेवताः ॥ २.६१.५० ॥

शुद्धषड्जस्वर कृत्वा यस्मादग्निमहर्षयः ।
उपैति तस्मान्नजानी याच्छुद्धयच्छिकरासभा ॥ २.६१.५१ ॥

इत्येता मूर्छनाः कृत्वा यस्यामीदृशभावनः ।
पक्षिणां मूर्छनाः श्रुत्वा पक्षोका मूर्छनाः स्मृताः ॥ २.६१.५२ ॥

नागादृष्टिविषागीतानोपसर्पन्तिमूर्छनाः ।
नानासाधारमश्चैववडवात्रिविदस्तथा ॥ २.६१.५३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गान्धर्वमूर्छनालक्षणवर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१॥