विश्वास-प्रस्तुतिः
सूत उवाच
ततो मन्वन्तरेऽतीते चाक्षुषे दैवतैः सह ।
वैवस्वताय महते पृथिवीराज्यमादिशत् ॥ २.६०.१ ॥
मूलम्

तस्माद्वैवस्वतात्पुत्रा जज्ञिरे दश तत्समाः ।
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेवच ॥ २.६०.२ ॥

नरिष्यन्तस्तथा प्रांशुर्नाभागो दिष्ट एव च ।
करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ २.६०.३ ॥

ब्रह्मणा तु मनुः पूर्वं चोदितस्तु प्रबोधितम् ।
यष्टुं प्रजक्रमे कामं हयमेधेन भूपतिः ॥ २.६०.४ ॥

अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः ।
मित्रावरुणयोरंशे अनलाहुतिमेव यत् ॥ २.६०.५ ॥

तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यासंहनना चैव इला जज्ञ इति श्रुतम् ॥ २.६०.६ ॥

तामिलेत्यथ होवाच मनुर्दण्डधरस्ततः ।
अनुगच्छस्व भद्रं ते तमिला प्रत्युवाच ह ॥ २.६०.७ ॥

धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।
मित्रावरुणयोरंशे जातास्मि वदतां वर ॥ २.६०.८ ॥

तयोः सकाशं यास्यामि मातो धर्मो हतो वधीत् ।
एवमुक्त्वा पुनर्देवी तयोरन्तिकमागमत् ॥ २.६०.९ ॥

गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ।
अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि वाम् ॥ २.६०.१० ॥

मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति ।
तथा तु ब्रुवतीं साध्वीमिडामाश्रित्य तावुभौ ॥ २.६०.११ ॥

देवौ च मित्रावरुणाविदं वचनमूचतुः ।
अनेन तव धर्मज्ञे प्रश्रयोण दमेन च ॥ २.६०.१२ ॥

सत्येन चैव सुश्रोणि प्रीतौ स्वौ वरवर्णिनि ।
आवयोस्त्वं महाभागे ख्यातिं कन्ये प्रयास्यसि ॥ २.६०.१३ ॥

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु पूजितः ।
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्द्धनः ॥ २.६०.१४ ॥

मानवः स तु सुद्युम्नः स्त्रीभावमगमत्प्रभुः ।
सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥ २.६०.१५ ॥

बुधेनोत्तरमासाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्राद्बुधाच्चास्यामैलो जज्ञे पुरूखाः ॥ २.६०.१६ ॥

बुधात्सा जनयित्वा तु सुद्युम्नत्वं पुनर्गताः ।
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ २.६०.१७ ॥

उत्कलश्च गयश्चैव विनतश्च तथैव च ।
उत्कलस्योत्कलं राष्ट्रं विनतस्यापि पश्चिमम् ॥ २.६०.१८ ॥

दिक्पूर्वा तस्य राजर्षेर्गयस्य तु गया पुरी ।
प्रविष्टेतु मनौ तस्मिन्प्रजाः सृष्ट्वा दिवाकरम् ॥ २.६०.१९ ॥

दशधा तदधात्क्षत्त्रमकरोत्पृथिवीमिमाम् ।
इक्ष्वाकुरेव दायादो भागं दशममाप्तवान् ॥ २.६०.२० ॥

कन्याभावत्तु सुद्युम्नो नैव भागमवाप्तवान् ।
वसिष्ठवचनाच्चासीत्प्रतिष्ठाने महाद्युतिः ॥ २.६०.२१ ॥

प्रतिष्ठां धर्मराजस्य सुद्युम्नस्य महात्मनः ।
एतच्छ्रुत्वा तु ऋषयः पप्रच्छुः सूतजं प्रति ।
मानवः स तु सुद्यम्नः स्त्रीभावमगमत्कथम् ॥ २.६०.२२ ॥

पुरा महेश्वरं द्रष्टुं कुमारास्सनकादयः ।
इलावृतं समाजग्मुर्ददृशुर्वृषभध्वजम् ॥ २.६०.२३ ॥

उमया रममाणं तं विलोक्य पिहितेस्थले ।
प्रतिजग्मुस्ततः सर्वे व्रीडिताभूच्छिवाप्यथ ॥ २.६०.२४ ॥

प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया ।
इमं ममाश्रमं देव यः पुमान्सं प्रवेक्ष्यति ॥ २.६०.२५ ॥

भविष्यति ध्रुवं नारी स तुल्याप्सरसां शुभा ।
तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये ॥ २.६०.२६ ॥

स्त्रीभूताः सहरुद्रेण क्रोडन्त्यप्सरसो यथा ।
उमावनं प्रविष्टस्तु स राजा मृगयां गतः ॥ २.६०.२७ ॥

पिशाचैः सह भूतैस्तु रुद्रे स्त्रीभावमास्थिते ।
तस्मात्सराजा सुद्युम्नः स्त्रीभावं लब्धवान्पुनः ।
महादेवप्रसादाच्च मानवत्वमवाप्तवान् ॥ २.६०.२८ ॥

इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे वायुप्रोक्ते वैवस्वतमनोः सृष्टिर्नाम षष्टितमोऽध्यायः ॥ ६०॥