विश्वास-प्रस्तुतिः
जैमिनिरुवाच
ततः शुष्कसुमित्राद्या मुनयः शंसितव्रताः ।
ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति ॥ २.५७.१ ॥
मूलम्

अतीत्य सुबहून्देशान्वनानि सरितस्तथा ।
आसेदुरचलश्रेष्ठं क्रमेण मुनिपुङ्गवाः ॥ २.५७.२ ॥

तमारुह्य शनैस्तस्यख्यातमाश्रममण्डलम् ।
प्रशान्तक्रूरसत्त्वाढ्यं शुभं मध्ये तपोवनम् ॥ २.५७.३ ॥

सर्वर्त्तुफलपुष्पाढ्यतरुखण्डमनोहरम् ।
स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम् ॥ २.५७.४ ॥

तं तदाश्रममासाद्य ब्रह्मघोषेण नादितम् ।
विविशुर्त्दृष्टमनसो यथावृद्धपुरस्सरम् ॥ २.५७.५ ॥

ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे ।
शिष्यैः परिवृतं शान्तं ददृशुस्ते तपोधनाः ॥ २.५७.६ ॥

कालाग्निमिव लोकांस्त्रीन्दग्ध्वा पूर्वं निजेच्छया ।
तद्दोषशान्त्यै तपसि प्रवृत्तमिव्देहिनम् ॥ २.५७.७ ॥

ते समेत्य भृगुश्रेष्ठं विनयाचारशालिनः ।
ववन्दिरे महामौनं भक्तिप्रणतकन्धराः ॥ २.५७.८ ॥

ततस्तानागतान्दृष्ट्वा मुनीन्भृगुकुलोद्वहः ।
अर्घपाद्यादिभिः सम्यक्पूजयामास सादरम् ॥ २.५७.९ ॥

तानासीनान्कृतातिथ्यानृषीन्देशान्तरागतान् ।
उवाच भृगुशार्दूलः स्मितपूर्वमिदं वचः ॥ २.५७.१० ॥

स्वागतं वो महाभागा यूयं सर्वे समागताः ।
करणीयं किमस्माभिर्वदध्वमविचारितम् ॥ २.५७.११ ॥

ततस्ते मुनयो रामं प्रणम्येदमथाब्रुवन् ।
अवेह्यस्मान्मुनिश्रेष्ठ गोकर्णनिलयान्मुनीन् ॥ २.५७.१२ ॥

खनद्भिः सागरैर्भूमिं कस्मिंश्चित्कारणान्तरे ।
सतीर्थं तन्महाक्षेत्रं पतितं सागराम्भसि ॥ २.५७.१३ ॥

उत्सारितार्मवजलं क्षेत्रं तत्सर्वपावनम् ।
उपलब्धुमभीप्सामो भवतस्तु न संशयः ॥ २.५७.१४ ॥

विष्णोरंशेन सञ्जातो भवान्भृगुकुले किल ।
तस्मात्कर्तुमशक्यं ते त्रैलोक्येऽपि न किञ्चन ॥ २.५७.१५ ॥

वाञ्छितार्थप्रदो लोके त्वमेवेत्यनुशुश्रुम ।
वयं त्वामागताः सर्वे रामैतदभियाचितुम् ॥ २.५७.१६ ॥

स त्वमात्मप्रभावेण क्षेत्रप्रवरमद्य तत् ।
दातुमर्हसि विप्रेन्द्र समुत्सार्यार्मवोदकम् ॥ २.५७.१७ ॥

राम उवाच
एतत्सर्वमशेषण विदितं मे तपोधनाः ।
करणीयं च वः कृत्यं मया नात्र विचारणा ॥ २.५७.१८ ॥

किं तु युष्मदभिप्रेतं कर्म लोके सुदारुणम् ।
शस्त्रसङ्ग्रहणाच्छक्यं मयापि न तदन्यथा ॥ २.५७.१९ ॥

दत्तसर्वाभयोऽहं वै न्यस्तशस्त्रः शमान्वितः ।
तपः समास्थितश्चर्तु प्रागेव पितृ शासनात् ॥ २.५७.२० ॥

न जातु शस्त्रग्रहणं करिष्यामीत्यहं पुरा ।
प्रतिश्रुत्य सतां मध्ये तपः कर्त्तुमिहानघाः ॥ २.५७.२१ ॥

शस्त्रग्रहणसाध्यत्वाद्युष्मदीप्सितवस्तुनः ।
किङ्कर्त्तव्यं मयात्रेति मम डोलायते मनः ॥ २.५७.२२ ॥

शुष्क उपाच ।
सतां संरक्षणार्थाय शस्त्रसङ्ग्रहणं तु यत् ।
तन्नच्यावयते सत्यद्यथोक्तं ब्रह्मणा पुरा ॥ २.५७.२३ ॥

तस्मादस्मद्धितार्थाय भवता ग्राह्यमायुधम् ।
धर्म एव महांस्तेन चरितस्ते भविष्यति ॥ २.५७.२४ ॥

एवं सम्प्रार्थ्यमानस्तु मुनिभिर्भृगुपुङ्गवः ।
तमनुद्रुत्य मेधावी धर्ममुद्दिश्य केवलम् ॥ २.५७.२५ ॥

स तैः सह मुनिश्रेष्ठो दिशं दक्षिणपश्चिमाम् ।
समुद्दिश्य चचौ राजन्द्रष्टुकामः सरित्पतिम् ॥ २.५७.२६ ॥

स सह्यमचलश्रेष्ठमवतीर्य भृगूद्वहः ।
तत्परं सरितां पत्युस्तीरं प्राप महामनाः ॥ २.५७.२७ ॥

स ददर्श महाभागः परितो मारुताकुलम् ।
आकरं सर्वरत्नानां पूर्यमाणमनारतम् ॥ २.५७.२८ ॥

अपरिज्ञेयगाम्भीर्यं महातामिव मानसम् ।
दुष्पारपारं सर्वस्य विविधग्रहसंहतिम् ॥ २.५७.२९ ॥

अप्रधृष्य तमं लोके धातारमिव केवलम् ।
आत्मानमिव चात्मत्वे न्यक्कृताखिलमुद्धतम् ॥ २.५७.३० ॥

आश्रयं सर्वसत्त्वानामापगानां च पार्थिवः ।
अत्यर्थचपलोत्तुगतरङ्गशतमालिनम् ॥ २.५७.३१ ॥

उपान्तोपलसङ्घातकुहरान्तरसंश्रयात् ।
विशीर्यमाणलहरीशतफेनौघसोभितम् ॥ २.५७.३२ ॥

गम्भीरघोषं जलधिं पश्यन्मुनिगणैः सह ।
संसेव्यमानस्तरलैर्लहरीकणशीतलैः ॥ २.५७.३३ ॥

मुहूर्त्तमिव राजेन्द्र तीरेनदनदीपतेः ।
विशश्रमे महाबाहुर्द्रष्टुकामः प्रचेतसम् ॥ २.५७.३४ ॥

ततो रामः समुत्थाय दक्षिणाभिमुखः स्थितः ।
मेघगम्भिरया वाचा वरुणं वाक्यमब्रवीत् ॥ २.५७.३५ ॥

अहं मुनिगणैः सार्द्धमागतस्त्वद्दिदृक्षया ।
तस्मात्स्वरूपधृङ्मह्यं प्रचेतो देहि दर्शनम् ॥ २.५७.३६ ॥

इति श्रुत्वापि तद्वाक्यं वरुणो यादसां पतिः ।
न चचाल निजस्थानान्नृप धीरतरस्त्वयम् ॥ २.५७.३७ ॥

पुनः पुनश्च रामेण समाहूतोऽपि तोयराट् ।
न ददौ दर्शनं तस्मै प्रतिवाच्यं च नाभ्यधात् ॥ २.५७.३८ ॥

अलङ्घनीयं तद्वाक्यं वरुणेनावधीरितम् ।
अत्यन्तमिति कार्यार्थी विदुषा समुपेक्षितम् ॥ २.५७.३९ ॥

ततः प्रचेतसा वाक्यं मन्यमानोऽवधीरितम् ।
चुकोप तमभिप्रेक्ष्य रामः शस्त्रभृतां वरः ॥ २.५७.४० ॥

सङ्क्षुब्धसागराकारः स तदा स्वबलाश्रयात् ।
निस्तोयमर्णवं कर्तुमियेष रुषितो भृशम् ॥ २.५७.४१ ॥

ततो जलमुपस्पृश्य समीपे विजयं धनुः ।
ततः प्रणम्य मनसा शर्वं रामो महाद्धनुः ॥ २.५७.४२ ॥

गृहीत्वारोपयामास क्रोधसंरक्तलोचनः ।
अभिमृश्य धनुःश्रेष्ठं सगुणं भृगुसत्तमः ॥ २.५७.४३ ॥

पश्यतां सर्वभूतानां ज्याघोषमकरोत्तदा ।
ज्याघोषः शुश्रुवे तस्य दिविस्पृगतिनिष्ठुरः ॥ २.५७.४४ ॥

चचाल निखिलायेन सप्तद्वीपार्मवा मही ।
ततः सरभसं रामश्चापे कालानलोपमम् ॥ २.५७.४५ ॥

सुवर्मपुङ्खं विशिखं सन्दधे शरसत्तमम् ।
तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतम् ॥ २.५७.४६ ॥

युयोज भृगुशार्दूलः समन्त्राभ्यासमोक्षणम् ।
ततश्चचाल वसुधा सशैलवनकानना ॥ २.५७.४७ ॥

प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः ।
सन्धितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनम् ॥ २.५७.४८ ॥

दृष्ट्वा सम्भ्रान्तमनसो बभूवुः सचराचराः ।
सदिग्दाहभ्रपटलैरभवन्संवृता दिशः ॥ २.५७.४९ ॥

ववुश्च परुषा वाता रजोव्याप्ता महारवाः ।
मन्दरश्मिरशीतांशुरभूतसंरक्तमण्डलः ॥ २.५७.५० ॥

सोल्कापाताशनिर्वृष्टिर्बभूव रुधिरोदका ।
किमेतदिति सम्भ्रान्ता धूमोद्गारातिभीषणम् ॥ २.५७.५१ ॥

अधिरोपितदिव्यास्त्रं प्रचकर्ष महाशरम् ।
धनुर्विकर्षमाणं तं स्फुरज्ज्वालाग्रसायकम् ॥ २.५७.५२ ॥

ददृशुर्मुनयो रामं कल्पान्तानलसन्निभम् ।
आकर्णाकृष्टकोदण्डमण्डलाभ्यं तरस्थितम् ॥ २.५७.५३ ॥

तस्य प्रतिभयाकारं दुष्प्रापमभवद्वपुः ।
विकृष्टधनुषस्तस्य रूपमुग्रं रवेरिव ॥ २.५७.५४ ॥

कल्पान्तेऽभ्युदितस्येव मण्डलं परिवेषितम् ।
कल्पान्ताग्नसमज्वालाभीषणं स्फुरतो वपुः ॥ २.५७.५५ ॥

तस्यालक्ष्यत चक्रम्य हरेरिव च मण्डलम् ।
स्फुरत्क्रोधानलज्वालापरीतस्यातिरौद्रताम् ॥ २.५७.५६ ॥

अवाप विष्णोः स तदा नरसिंहाकृतेरिव ।
वपुर्विकृष्टचापस्य भृकुटीकुटिलाननम् ॥ २.५७.५७ ॥

रामस्याभूद्भवस्येव दिधक्षोस्त्रिपुरं पुरा ।
जाज्वल्यमानवपुषं तं दृष्ट्वा सहसा भयात् ॥ २.५७.५८ ॥

प्रसीद जय रामेति तुष्टुवुर्मुनयोऽखिलाः ।
ततोऽस्त्राग्निस्फुरद्धूमपटलैः शकलीकृतम् ॥ २.५७.५९ ॥

बभूव च्छन्नमम्भोधेरन्तः पुरमशैषतः ।
ज्वलदस्त्रानलज्वालाप रितापपराहतः ॥ २.५७.६० ॥

अत्यरिच्यत सम्भ्रान्तसलिलौघ उदन्वतः ।
तिमिङ्गिलतिमिग्राहनक्रमत्स्याहिकच्छपाः ॥ २.५७.६१ ॥

प्रजग्मुः परमामार्त्तिं प्राणिनः सलिलेशयाः ।
उत्पतन्निपतत्ताम्यन्नानासत्त्वोद्धतोर्मिभिः ॥ २.५७.६२ ॥

प्रक्षोभं भृशमम्भोधिः सहसा समुपागमत् ।
त्रासरासं च विपुलमम्भसा प्लवता सह ॥ २.५७.६३ ॥

उद्वेलतामितस्तप्ताः सलिलान्तरचारिणः ।
ततस्तस्माच्छराज्ज्वालाः फूत्कृताशेष भीषणाः ॥ २.५७.६४ ॥

निरूपितमिव व्यक्तं निश्चेरुः सर्वतो दिशम् ।
ततः प्रचण्डपवनैः सर्वतः परिवर्त्तितम् ॥ २.५७.६५ ॥

अग्निज्वालामयं रक्तवितानाभमलक्ष्यत ।
प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलाम्भसः ॥ २.५७.६६ ॥

समुद्रिक्ततया तस्य तरङ्गास्तीरमभ्ययुः ।
अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा ॥ २.५७.६७ ॥

ककुभो बधिरीकुवन्नलक्ष्यत पयोनिधिः ।
परितोऽस्त्रानलज्वालापरिवीतजलाविलः ॥ २.५७.६८ ॥

जगाम परमामार्त्तिं सह्यः सद्यस्तदाश्रयः ।
आकर्णाकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधिः ॥ २.५७.६९ ॥

विषादमगमत्तीव्रं यमं दृष्ट्वेव पातकी ।
भयकम्पितसर्वाङ्गस्ततो नदनदीपतिः ॥ २.५७.७० ॥

विहाय सहजं धैर्यं भीरुत्वं समुपागमत् ।
ततः स्वरूपमास्थाय सर्वाभरणभूषितः ॥ २.५७.७१ ॥

उत्तीर्यमाणः स्वजलं वरुणः प्रत्यदृश्यत ।
कृताञ्जलिः सार्वहस्तः प्रचेता भार्गवान्तिकम् ॥ २.५७.७२ ॥

त्वरयाभ्यायायौ शीघ्रसायकाद्भीतभीतवत् ।
अभ्येत्याकृष्टधनुषः स तस्य चरणाब्जयोः ॥ २.५७.७३ ॥

अब्रवीच्च भृशं भीतः सम्भ्रमाकुलिताक्षरम् ।
रक्ष मां भृगुशार्दूल कृपया शरणागतम् ॥ २.५७.७४ ॥

अपराधमिमं राम मया कृतमजानता ।
स्थितोऽस्मि तव निर्देशेशाधि किं करवाणि वै ॥ २.५७.७५ ॥

इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे तृतीये उपोद्धातपादे भार्गवं प्रति वरुणागमनं नाम सप्तपञ्चशत्तमोऽध्यायः ॥ ५७॥