०५६

विश्वास-प्रस्तुतिः

जैमिनिरुवाच
एतत्ते चरितं सर्वं सगरस्य महात्मनः ।
सङ्क्षेपविस्तराभ्यां तु कथितं पापनाशनम् ॥ २.५६.१ ॥

मूलम्

खण्डोंऽयं भारतो नाम दक्षिणोत्तरमायतः ।
नवयोजनसाहस्रं विस्तारपरिमण्डलम् ॥ २.५६.२ ॥

पुत्रैस्तस्य नरेद्रस्य मृगयद्भिस्तुरङ्गमम् ।
योजनानां सहस्रं तु खात्वाष्टौ विनिपातिताः ॥ २.५६.३ ॥

सागरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः ।
ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥ २.५६.४ ॥

ब्रह्मपादावधि महीं सतीर्थक्षेत्रकाननाम् ।
अब्धिः सङ्क्रमयामास परिक्षिप्य निजाम्भसा ॥ २.५६.५ ॥

ततस्तन्निलयाः सर्वे सदेवासुरमानवाः ।
इतस्ततश्च सञ्जाता दुःखेन महतान्विताः ॥ २.५६.६ ॥

गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् ।
सार्द्धयोजनविस्तारं तीरे पश्चिम वारिधेः ॥ २.५६.७ ॥

तत्रासङ्ख्यानि तीर्थानि मुनिदेवालयाश्च वै ।
वसन्ति सिद्धसङ्घाश्च क्षेत्रे तस्मिन्पुरा नृप ॥ २.५६.८ ॥

क्षेत्रं तल्लोकविख्यातं सर्वपापहरं शुभम् ।
तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे ॥ २.५६.९ ॥

यत्र सर्वे तपस्तप्त्वा मुनयः संशितव्रताः ।
निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम् ॥ २.५६.१० ॥

तत्त्रेत्रस्य प्रभावेण प्रीत्या भूतगणैः सह ।
देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः ॥ २.५६.११ ॥

एनांसि यत्समुद्दिश्य तीर्थयात्रां प्रकुर्वताम् ।
नृणामाशु प्रणश्यन्ति प्रवाते शुष्कपर्णवत् ॥ २.५६.१२ ॥

तत्क्षेत्रसेवनरतिर्नैव जात्वभिजायते ।
समीपे वसमानोनामपि पुंसां दुरात्मनाम् ॥ २.५६.१३ ॥

महाता सुकृतेनैव तत्क्षेत्रगमने रतिः ।
नृणां सञ्जायते राजन्नान्यथा तु कथञ्चन ॥ २.५६.१४ ॥

निर्बन्धेन तु ये तस्मिन्प्राणिनः स्थिरजङ्गमाः ।
म्रियन्ते नृप सद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम् ॥ २.५६.१५ ॥

स्मृत्यापि सकलैः पापैर्यस्य मुच्येत मानवः ।
क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनम् ॥ २.५६.१६ ॥

स्नात्वा चैतेषु तीर्थेषु यजन्तश्च सदाशिवम् ।
सिद्धिकामा वसन्ति स्म मुनयस्तत्र केचन ॥ २.५६.१७ ॥

कामक्रोधविनिर्मुक्ता ये तस्मिन्वीतमत्सराः ।
निवसन्त्यचिरेणैव तत्सिद्धिम्प्राप्नुवन्ति हि ॥ २.५६.१८ ॥

जपहोमरताः शान्ता निपता ब्रह्मचारिणः ।
वसन्ति तस्मिन्ये ते हि सिद्धिं प्राप्स्यन्त्यभीप्सिताम् ॥ २.५६.१९ ॥

दानहोमजपाद्यं वै पितृदेवद्विजार्चनम् ।
अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं नृप ॥ २.५६.२० ॥

अम्भोधिसलिले मग्न तस्मिन् क्षेत्रेऽतिपावने ।
महता तपसा युक्ता मुनयस्तन्निवासिनः ॥ २.५६.२१ ॥

सह्यं शिखरिणं श्रेष्ठं निलयार्थं समारुहन् ।
वसन्तस्तत्र ते सर्वे सम्प्रधार्य परस्परम् ॥ २.५६.२२ ॥

सहेन्द्राद्रौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः ।
राजोवाच ।
अगस्त्यपीततोयेऽब्धौ परितो राजनन्दनैः ॥ २.५६.२३ ॥

खात्वाधः पातिते क्षेत्रे सतीर्थाश्रमकानने ।
भूभागेषु तथान्येषु पुरग्रमाकरादिषु ॥ २.५६.२४ ॥

विनाशितेषु देशेषु समुद्रोपान्तवर्त्तिषु ।
किमकार्षुर्मुनिश्रेष्ठ जनास्तन्निलयास्ततः ॥ २.५६.२५ ॥

तत्रैव चावसन्कृच्छ्रात्प्रस्थितान्यत्र वा ततः ।
कियता चैव कालेन सम्पूर्णोऽभूदपान्निधिः ।
केन वापि प्रकारेण ब्रह्मन्नेतद्वदस्व मे ॥ २.५६.२६ ॥

अनूपेषु प्रदेशेषु नाशितेषु दुरात्मभिः ॥ २.५६.२७ ॥

जनास्तन्निलयाः सर्वे सम्प्रयाता इतस्ततः ।
तत्रैव चावसन्कृच्छ्रात्केचित्क्षेत्रनिवासिनः ॥ २.५६.२८ ॥

एतस्मिन्नेव काले तु राजन्नंशुमतः सुतः ।
बभूव भुविधर्मात्मा दिलीप इति विश्रुतः ॥ २.५६.२९ ॥

राज्येऽभिषिच्य तं सम्यग्भुक्तभोगोंऽशुमान्नृपः ।
वनं जगाम मेधावी तपसे धृतमानसः ॥ २.५६.३० ॥

दिलीपस्तु ततःश्रीमानशेषां पृथिवीमिमाम् ।
पालयामास धर्मेण विजित्य सकलानरीन् ॥ २.५६.३१ ॥

भगीरथो नाम सुतस्तस्यासील्लोकविश्रुतः ।
सर्वधर्मार्थकुशलः श्रीमानमितविक्रमः ॥ २.५६.३२ ॥

राज्येऽभिषिच्य तं राजा दिलीपोऽपि वनं ययौ ।
स चापि पालयन्नुर्वीं सम्यग्विहतकण्टकाम् ॥ २.५६.३३ ॥

मुमुदे विविधैर्भोगैर्दिवि देवपतिर्यथा ।
स शुश्रावात्मनः पूर्वं पूर्वजानां महीपतिः ॥ २.५६.३४ ॥

निरये पतनं घोरं विप्रकोपसमुद्भवम् ।
ब्रह्मदण्डहतान्सर्वान्पितञ्छ्रुत्वातिदुःखितः ॥ २.५६.३५ ॥

राज्ये बन्धुषु भोगे वा निर्वेदं परमं ययौ ।
स मन्त्रिप्रवरे राज्यं विन्यस्य तपसे वनम् ॥ २.५६.३६ ॥

प्रययौ स्वपितॄन्नाकं निनीषुर्नृपसत्तमः ।
तपसा महाता पूर्वमायुषे कमलोद्भवम् ॥ २.५६.३७ ॥

आराध्य तस्माल्लेभे च यावदायुर्निजेप्सितम् ।
ततो गङ्गां महाराज समाराध्य प्रसाद्य च ॥ २.५६.३८ ॥

वरमागमनं वव्रे दिवस्तस्या महीम्प्रति ।
ततस्तां शिरसा धर्त्तु तपसाऽराधयच्छिवम् ॥ २.५६.३९ ॥

स चापि तद्वरं तस्मै प्रददौ भक्तवत्सलः ।
मेरोर्मूर्ध्नस्ततो गङ्गां पतं ती शिरसात्मनः ॥ २.५६.४० ॥

सग्राहनक्रमकरां जग्राह जगतां पतिः ।
सा तच्छिरः समासाद्य महावेगप्रवाहिनी ॥ २.५६.४१ ॥

तज्जटामण्डले शुभ्रे विलिल्ये सातिगह्वरे ।
चुलकोदकवच्छम्भोर्विलीनां शिरसि प्रभोः ॥ २.५६.४२ ॥

विलोक्य तत्प्रमोक्षाय पुनराराधयद्धरम् ।
स तां शर्वप्रसादेन लब्ध्वा तु भुवमागताम् ॥ २.५६.४३ ॥

आनिन्ये सागरा दग्धा यत्र तां वै दिशं प्रति ।
सऽनुव्रजन्ती राजानं राजर्षेर्यजतः पथि ॥ २.५६.४४ ॥

तद्यज्ञवाटमखिलं प्लावयामास सर्वतः ।
स तु राजऋषिः क्रुद्धो यज्ञवाटेऽखिले तया ॥ २.५६.४५ ॥

मग्ने गण्डूषजलवत्स पपौ तामशेषतः ।
अतन्द्रितो वर्षशतं शुश्रूषितवा स तं पुनः ॥ २.५६.४६ ॥

तस्मात्प्रसन्नान्नृपतिर्लेमे गङ्गां महात्मनः ।
उषित्वा सुचिरं तस्यनिसृता जठराद्यतः ॥ २.५६.४७ ॥

प्रथितं जाह्नवीत्यस्यास्ततो नामाभवद्भुवि ।
भगीरथानुगा भूत्वा तत्पितॄणामशेषतः ॥ २.५६.४८ ॥

निजाम्भसास्थिभस्मानि सिषेच सुरनिम्नगा ।
ततस्तदम्भसा सिक्तेष्वस्थिभस्मसु तत्क्षणात् ॥ २.५६.४९ ॥

निरयात्सागराः सर्वे नष्टपापा दिवं ययुः ।
एवं सा सागरान्सर्वान्दिवं नीत्वा महान्दी ॥ २.५६.५० ॥

तेनैव मार्गेण जवात्प्रयाता पूर्वसागरम् ।
सेनोर्मूर्ध्नश्चतुर्भेदा भूत्वा याता चतुर्द्दिशम् ॥ २.५६.५१ ॥

चतुर्भेदतया चाभूत्तस्या नाम्नां चतुष्टयम् ।
सीता चालकनन्दा च सुचक्षुर्भद्रवत्यपि ॥ २.५६.५२ ॥

अगस्त्यपीतसलिलाच्चिरं शुष्कोदका अपि ।
गङ्गाम्भसा पुनः पूर्णाश्चत्वारोऽम्बुधयोऽभवन् ॥ २.५६.५३ ॥

पूर्वमाणे समुद्रे तु सागरैः परिवर्द्धिते ।
अन्तर्हिताभवन्देशा बहवस्तत्समीपगाः ॥ २.५६.५४ ॥

समुद्रोपान्तवर्त्तीनि क्षेत्राणि च समन्ततः ।
इतस्ततः प्रयाताश्च जनास्तन्निलया नृप ॥ २.५६.५५ ॥

गोकर्णमिति च क्षेत्रं पूर्वं प्रोक्तं तु यत्तव ।
अर्मवोपात्तवर्त्तित्वात्समुद्रेऽतर्द्धिमागमत् ॥ २.५६.५६ ॥

ततस्तन्निलयाः सर्वे तदुद्धाराभिकाङ्क्षिणः ।
सह्याद्रेर्भृगुशार्दूलं द्रष्टुकामा ययुर्नृप ॥ २.५६.५७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गङ्गानयनं नाम षट्पञ्चशत्तमोऽध्यायः