विश्वास-प्रस्तुतिः
जैमिनिरुवाच
तेषु तत्र निविष्टेषु वासवेन प्रचोदितः ।
जहारं तुरगं वायुस्तत्क्षणेन रसातलम् ॥ २.५३.१ ॥
मूलम्

अदृष्टमश्वं तैः सर्वैरपहृत्य सदागतिः ।
अनयत्तत्पथा राजन्कपिलस्यान्तिकं मुनेः ॥ २.५३.२ ॥

ततः समाकुलाः सर्वे विनष्टेऽश्वे नृपात्मजाः ।
परीत्य वसुधां सर्वां प्रमार्गन्तस्तुरगमम् ॥ २.५३.३ ॥

विचित्य पृथिवीं ते तु स पुराचलकाननाम् ।
अपश्यन्तो यज्ञपशुं दुःखं महदवाप्नुवन् ॥ २.५३.४ ॥

ततोऽयोध्यां समासाद्य ऋषिभिः परिवारिताम् ।
दृष्ट्वा प्रणम्य पितरं तस्मै सर्वं न्यवेदयन् ॥ २.५३.५ ॥

परीत्य पृथ्वीमस्माभिर्निविष्टे वरुणालये ।
रक्ष्यमाणोऽपि पश्यद्भिः केनापि तुरगो हृतः ॥ २.५३.६ ॥

इत्युक्तस्तै रुषाविष्टस्तानुवाच नृपोत्तमः ।
प्रयास्यध्वमधर्मिष्ठाः सर्वेऽनावृत्तये पुनः ॥ २.५३.७ ॥

कथं भवद्भिर्जीवद्भिर्विनष्टो वै दरात्मभिः ।
तुरगेण विना सत्यं नेहाग मनमस्ति वः ॥ २.५३.८ ॥

ततः समेत्य तस्मात्ते सप्रयाताः परस्परम् ।
ऊचुर्न दृश्यतेऽद्यापि तुरगः किं प्रकुमह ॥ २.५३.९ ॥

वसुधा विचितास्माभिः सशैलवनकानना ।
न चापि दृश्यते वाजी तद्वार्त्तापि न कुत्रचित् ॥ २.५३.१० ॥

तस्मादब्धेः समारभ्य पातालावधि मेदिनीम् ।
विभज्य रवात्वा पातालं विविशाम तुरङ्गमम् ॥ २.५३.११ ॥

इति कृत्वा मतिं सर्वे सागराः क्रूरनिश्चयाः ।
निचख्नुर्भूमिमम्बोधेस्तटा दारभ्य सर्वतः ॥ २.५३.१२ ॥

तैः खन्यमाना वसुधा ररास भृशविह्वला ।
चुक्रुशुश्चापि भूतानि दृष्ट्वा तेषां विचेष्टितम् ॥ २.५३.१३ ॥

ततस्ते भारतं खण्डं खात्वा सङ्क्षिब्य भूतले ।
भूमेर्योजनसाहस्रं योजयामासुरम्बुधौ ॥ २.५३.१४ ॥

आपातालतलं ते तु खनन्तो मेदिनीतलम् ।
चरन्तमश्वं पाताले ददृशुर्नृपनन्दनाः ॥ २.५३.१५ ॥

सम्प्रहृष्टास्ततः सर्वे समेत्य च समन्ततः ।
सन्तोषाज्जहसुः केचिन्ननृतुश्च मुदान्विताः ॥ २.५३.१६ ॥

ददृशुश्च महात्मानं कपिलं दीप्ततेजसम् ।
वृद्धं पद्मासनासीनं नासाग्रन्यस्तलोचनम् ॥ २.५३.१७ ॥

ऋज्वायतशिरोग्रीवं पुरोविष्टब्धवक्षसम् ।
स्वतेजसाभिसरता परिबूर्णेन सर्वतः ॥ २.५३.१८ ॥

प्रकाश्यमानं परितो निवातस्थप्रदीपवत् ।
स्वान्तप्रकाशिताशेषविज्ञानमयविग्रहम् ॥ २.५३.१९ ॥

समाधिगतचित्तन्तु निभृताम्भोधिसन्निभम् ।
आरूढयोगं विधिवद्ध्येयसंलीनमानसम् ॥ २.५३.२० ॥

च्दृदद्यत्दद्वड्ढ द्यदृ डद्धठ्ठण्थ्र्ठ्ठदड्डठ्ठथ्र्ठ्ठड्डण्न्र्ठ्ठडण्ठ्ठग्ठ्ठ
योगीन्द्रप्रवरं शान्तं ज्वालामाल मिवानलम् ।
विलोक्य तत्र तिष्ठन्तं विमृशन्तः परस्परम् ॥ २.५३.२१ ॥

मुहूर्त्तमिव ते राजन्साध्वसं परमं गताः ।
ततोऽयमश्वहर्त्तेति सागरा कालचोदिताः ॥ २.५३.२२ ॥

परिवव्रुर्दुरात्मानः कपिलं मुनिसत्तमम् ।
ततस्तं परिवार्योचुश्वोरोऽयं नात्र संशयः ॥ २.५३.२३ ॥

अश्वहर्त्ता ततोऽह्येष वध्योऽस्माभिर्दुराशयः ।
तं प्राकृतवदासीनं ते सर्वे हतवुद्धयः ॥ २.५३.२४ ॥

आसन्नमरणाश्चक्रुर्धर्षितं मुनिमञ्जसा ।
जैमिनिरुवाच
ततो मुनिरदीनात्मा ध्यानभङ्गप्रधर्षितः ॥ २.५३.२५ ॥

क्रोधेन महताऽविष्टश्चुक्षुभे कपिलस्तदा ।
प्रचचाल दुराधर्षो धर्षितस्तैर्दुरात्मभिः ॥ २.५३.२६ ॥

व्यजृम्भत च कल्पान्ते मरुद्भिरिव चानलः ।
तस्य चार्णवगम्भीराद्वपुषः कोपपावकः ॥ २.५३.२७ ॥

दिधक्षुरिव पातालांल्लोकान्साङ्कर्षणोऽनलः ।
शुशुभे धर्षणक्रोधपरामर्शविदीपितः ॥ २.५३.२८ ॥

उन्मीलयत्तदा नेत्रे वह्निचक्रसमद्युतिः ।
तदाक्षिणी क्षणं राजन्राजेतां सुभृशारुणे ॥ २.५३.२९ ॥

पूर्वसंव्यासमुदितौ पुष्पवन्ताविवाम्बरे ।
ततोऽप्युद्वर्त्तमानाभ्यां नेत्राभ्यां नृपनन्दनान् ॥ २.५३.३० ॥

अवैक्षत च गम्भीरः कृतान्तः कालपर्यये ।
क्रुद्धस्य तस्यनेत्राभ्यां सहसा पावकार्चिषः ॥ २.५३.३१ ॥

निश्चेरुरभिलोदिक्षु कालाग्नेरिव सन्तताः ।
सधूमकवलोदग्राः स्फुलिङ्गौघमुचो मुहुः ॥ २.५३.३२ ॥

मुनिक्रोधानलज्वालाः समन्ताव्द्यानशुर्दिशः ।
व्यालोदरौग्रकुहरा ज्वाला स्तन्नेत्रनिर्गताः ॥ २.५३.३३ ॥

विरेजुर्निभृताम्भोधेर्वडवाग्नेरिवार्चिषः ।
क्रोधाग्निः सुमहाराज ज्वालावव्याप्तदिगन्तरः ॥ २.५३.३४ ॥

दग्धांश्चकार तान्सर्वानावृण्वानो नभस्तलम् ॥ २.५३.३५ ॥
विश्वास-प्रस्तुतिः
सशब्दमुद्भ्रान्तमरुत्प्रकोपविवर्त्तमानानलधूमजालैः ।
महीरजोभिश्च नितान्तमुद्धतैः समावृतं लोक मभूद्भृशातुरम् ॥ २.५३.३६ ॥

ततः स वह्निर्विलिखन्निवाभितः समीरवेगाभिहताभिरम्बरम् ।
शिखाभिरुर्वीशसुतानशेषतो ददाह सद्यः सुर विद्विषस्तान् ॥ २.५३.३७ ॥

मिषतः सर्वलोकस्य क्तोधाग्निस्तमृते हयम् ।
सागरांस्तानशेषेण भस्मसादकरोत्स तान् ॥ २.५३.३८ ॥

एवं क्रोधाग्निना तेन सागराः पापचेतसः ।
जज्वलुः सहसा दावे तरवो नीरसा इव ॥ २.५३.३९ ॥

दृष्ट्वा तेषां तु निधनं सागराणान्दुरात्मनाम् ।
अन्योन्यमबुवन्देवा विस्मिता ऋषिभिः सह ॥ २.५३.४० ॥

अहोदारुणपापानां विपाको न चिरायितः ।
दुरन्तः खलु लोकेऽस्मिन्नराणामसदात्मनाम् ॥ २.५३.४१ ॥

यदि मे पर्वताकारा नृशंसाः क्रूरवुद्धयः ।
युगपद्विलयं प्राप्ताः सहसैव तृणाग्निवत् ॥ २.५३.४२ ॥

उद्वेजनीया भूतानां सद्भिरत्यन्तगर्हिताः ।
आजीवान्तमिमे हर्तु दिष्ट्या सङ्क्षयमागताः ॥ २.५३.४३ ॥

परोपतापि नितरां सर्वलोकजुगुप्सितम् ।
इह कृत्वाशुभं कर्म कःपुमान्विन्दते सुखम् ॥ २.५३.४४ ॥

विक्रोश्य सर्वभूतानि सम्प्रयाताः स्वकर्मभिः ।
ब्रह्मदण्डहताः पापा निरयं शाश्वतीः समाः ॥ २.५३.४५ ॥

तस्मात्सदैव कर्त्तव्यं कर्म पुंसां मनीपिणाम् ।
दुरतश्च परित्याज्यमितरल्लोकनिन्दितम् ॥ २.५३.४६ ॥

कर्त्तव्यः श्रेयसे यत्नो यावज्जीवं विजानता ।
नाचरेत्कस्यचिद्द्रोहमनित्यं जीवनं यतः ॥ २.५३.४७ ॥

अनित्योऽयं सदा देहःसपदश्चातिचञ्चलाः ।
संसारश्चातिनिस्सारस्तत्कथं विश्वसेद्बुधः ॥ २.५३.४८ ॥

एवं सुरमुनीन्द्रेषु कथयत्सु परस्परम् ।
मुनिक्रोधेन्धनीभूता विनेशुः सगरात्मजाः ॥ २.५३.४९ ॥

निर्दगधदेहाः सहसा भुवं विष्टभ्य भस्मना ।
अवापुर्निरयं सद्यः सागरास्ते स्वकमभिः ॥ २.५३.५० ॥

सागरांस्तानशेषेण दग्धवातत्क्रोधजोऽनलः ।
क्षणेन लोकानखिलानुद्यतो दग्धुमञ्जसा ॥ २.५३.५१ ॥

भयभीतास्ततो देवाः समेत्य दिवि संस्थिताः ।
तुष्टुवुस्ते महात्मानं क्रोधाग्निशमनार्थिनः ॥ २.५३.५२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सगरचरितेसागराविनाशो नाम त्रिपञ्चशत्तमोऽध्यायः ॥ ५३॥