०५२

विश्वास-प्रस्तुतिः

जैमिनिरुवाच
त्यक्त्वा पुत्रं स धर्मात्मा सगरः प्रेम तद्गतम् ।
धर्मशीले तदा वाले चकारांशुमति प्रभुः ॥ २.५२.१ ॥

मूलम्

एतस्मिन्नेव काले तु सुमत्यास्तनया नृप ।
ववृधुः सघशः सर्वे परस्परमनुव्रताः ॥ २.५२.२ ॥

वज्रसंहननाः क्रूरा निर्दया निरपत्रपाः ।
अधर्मशीला नितरामेकघर्माण एव च ॥ २.५२.३ ॥

एककार्याभिनिरताः क्रोधना मूढचेतसः ।
अधृष्याः सर्वभूतानां जनोपद्रवकारिणः ॥ २.५२.४ ॥

विनयाचा रसन्मार्गनिरपेक्षाः समन्ततः ।
बबाधिरे जगत्सर्वमसुरा इव कामतः ॥ २.५२.५ ॥

विध्वस्तयज्ञसन्मार्गं भुवनं तैरुपद्रुतम् ।
निःस्वाध्याय वषट्कारं बभूवार्तं विशेषतः ॥ २.५२.६ ॥

विध्वस्यमाने सुभृशं सागरैर्वरदर्पितैः ।
प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः ॥ २.५२.७ ॥

धरासा सागराक्रान्ता न चलापि तदा चला ।
तपः समाधिभङ्गश्च प्रबभूव तपस्विनाम् ॥ २.५२.८ ॥

हव्यकव्यपरिभ्रष्टास्त्रिदशाः पितृभिः सह ।
दुःशेन महाताविष्टा विरिञ्जभवनं ययुः ॥ २.५२.९ ॥

तत्र गत्वा यथान्यायं देवाः शर्वपुरोगमाः ।
शशंसुः सकलं तस्मै सागराणां विचेष्टितम् ॥ २.५२.१० ॥

तच्छ्रत्वा वचनं तेषां ब्रह्मा लोकपितामहः ।
क्षणमन्तर्मना भूत्वा जगाद सुरसत्तमः ॥ २.५२.११ ॥

देवाःशृणुत भद्रं वो वाणीमवहिता मम ।
विनङ्क्ष्यन्त्यचिरेमैव सागरा नात्र संशयः ॥ २.५२.१२ ॥

कालं कञ्चित्प्रतीक्षध्वं तेन सर्वं नियम्यते ।
निमित्तमात्रमन्यत्तु स एव सकलेशिता ॥ २.५२.१३ ॥

तस्माद्युष्मद्धितार्थाय यद्वक्ष्यामि सुरोत्तमाः ।
सर्वैर्भवद्भिरधुना तत्कर्त्तव्यमतं द्रितैः ॥ २.५२.१४ ॥

विष्णोरंशेन भगवान्कपिलो जयतां वरः ।
जातो जगद्धितार्थाय योगीन्द्रप्रवरो भुवि ॥ २.५२.१५ ॥

अगस्त्यपीतसलिले दिव्यवर्षशतावधि ।
ध्यायन्नास्तेऽधुनांऽभोधावेकान्ते तत्र कुत्र चित् ॥ २.५२.१६ ॥

गत्वा यूयं ममादेशात्कपिलं मुनिपुङ्गवम् ।
ध्यानाव सानमिच्छन्तस्तिष्ठध्वं तदुपह्वरे ॥ २.५२.१७ ॥

समाधिविरतौ तस्य स्वाभिप्रायमशेषतः ।
नत्वा तस्मै वदिष्यध्वं स वः श्रेयो विधास्यति ॥ २.५२.१८ ॥

समाधिभङ्गश्च मुनेर्यथा स्यात्सागरैः कृतः ।
कुरुध्वं च तथा यूयं प्रवृत्तिं विबुधोत्तमाः ॥ २.५२.१९ ॥

इत्युक्तास्तेन विबुधास्तं प्रणम्य वितामहम् ।
गत्वा तं विबुधश्रेष्टं ते कृताञ्जलयोऽब्रुवन् ॥ २.५२.२० ॥

देवा ऊचुः
प्रसीद नो मुनिश्रेष्ठ वयं त्वां शरणं गताः ।
उपद्रुतं जगत्सर्वंसागरैः सम्प्रणश्यति ॥ २.५२.२१ ॥

त्वं किलाखिललोकानां स्थितिसहारकारणः ।
विष्णोरंशेन योगीन्द्रस्वरूपी भुवि संस्थितः ॥ २.५२.२२ ॥

पुंसां तापत्रयार्त्तानामार्तिनाशाय केवलम् ।
स्वेच्छया ते धृतो देहो न तु त्वं तपतां वरः ॥ २.५२.२३ ॥

मनसैव जगत्सर्वं स्रष्टुं संहर्तुमेव च ।
विधातुं स्वेच्छया ब्रह्मन्भवाञ्छक्रोत्यसंशयम् ॥ २.५२.२४ ॥

त्वं नो धाता विधाता च त्वं गुरुस्त्वं परायणम् ।
परित्राता त्वमस्माकं विनिवर्त्तय चापदम् ॥ २.५२.२५ ॥

शरणं भव विप्रेन्द्र विप्रेद्राणां विशेषतः ।
सागरैर्दह्यमानानां लोकत्रयनिवासिनाम् ॥ २.५२.२६ ॥

ननु वै सात्त्विकी चेष्टा भवतीह भवादृशाम् ।
त्रातुमर्हसि तस्मात्त्वं लोकानस्मांश्च सुव्रत ॥ २.५२.२७ ॥

न चेदकाले भगवन्विनङ्क्ष्यत्यखिलं जगत् ।
जैमिनिरुवाच
इत्युक्तः सकलैर्देवैरुन्मील्य नयने शनैः ॥ २.५२.२८ ॥

विलोक्य तानुवाचेदं कपिलः सूनृतं वचः ।
स्वकर्मणैव निर्दग्धाः प्रविनङ्क्ष्यन्ति सागराः ॥ २.५२.२९ ॥

काले प्राप्ते तु युष्माभिः सतावत्परिपाल्यताम् ।
अहं तु कारणं तेषां विनाशाय दुरात्मनाम् ॥ २.५२.३० ॥

भविष्यामि सुरश्रेष्ठा भवतामर्थसिद्धये ।
मम क्रोधाग्नि विप्लुष्टाः सागराः पापचेतसः ॥ २.५२.३१ ॥

भविष्यन्तु चिरेणैव कालोपहतबुद्धयः ।
तस्माद्गतज्वरा देवा लोकाश्चैवाकुतोभयाः ॥ २.५२.३२ ॥

भवन्तु ते दुराचाराः क्षिप्रं यास्यन्ति सङ्क्षयम् ।
तद्यूयं निर्भया भूत्वा व्रजध्वं स्वां पुरीं प्रति ॥ २.५२.३३ ॥

कालं कञ्चित्प्रतीक्षध्वं ततोऽभीष्टमवाप्स्यथ ।
कपिलेनैवमुक्तास्ते देवाः सर्वे सवासवाः ॥ २.५२.३४ ॥

तं प्रणम्य ततो जग्मुः प्रतीताग्निदिवं प्रति ।
एतस्मिन्नन्तरे राजा सगरः पृथिवीपतिः ॥ २.५२.३५ ॥

वाजिमेधं महायज्ञं कर्तुं चक्रे मनोरथम् ।
आहृत्य सर्वसम्भारान्वसिष्ठानुमते तदा ॥ २.५२.३६ ॥

और्वाद्यैः सहितो विप्रैर्यथावद्दीक्षितोऽभवत् ।
दीक्षां प्रविष्टो नृपतिर्हयसञ्चारणाय वै ॥ २.५२.३७ ॥

पुत्रान्सर्वान्समाहूय सन्दिदेश महयशाः ।
सञ्चारयित्वा तुरगं परीत्य पृथिवीतले ॥ २.५२.३८ ॥

क्षिप्रं ममान्तिकं पुत्राः पुनराहर्तुमर्हथ ।
जैमिनिरुवाच
ततस्ते पितुरादेशात्तमादाय तुरङ्गमम् ॥ २.५२.३९ ॥

परिचङ्क्रमयामासुः सकले क्षितिमण्डले ।
विधिचोदनयैवाश्वः स भूमौ परिवर्तिततः ॥ २.५२.४० ॥

न तु दिग्विजयार्थाय करादानार्थमेव च ।
पृथिवीभूभुजा तेन पूर्वमेव विनिर्जिता ॥ २.५२.४१ ॥

नृपाश्चोदारवीर्येण करदाः समरे कृताः ।
ततस्ते राजतनया निस्तोये लवणाम्बुधौ ॥ २.५२.४२ ॥

भूतले विविशुर्हृष्टाः परिवार्य तुरङ्गमम् ॥ २.५२.४३ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धातपादे सगरवरितेऽश्वमोचनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥