०५१

विश्वास-प्रस्तुतिः

सगर उवाच
कुशलं मम सर्वत्र महर्षे नात्र संशयः ।
यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः ॥ २.५१.१ ॥

मूलम्

यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च साम्प्रतम् ।
सोऽहं कथमशक्तः स्यां सकलारिविनिग्रहे ॥ २.५१.२ ॥

त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् ।
न ह्यन्यमभिजानामि त्वामृते पितरं च मे ॥ २.५१.३ ॥

त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया ।
विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव ॥ २.५१.४ ॥

तपसा त्वं जगत्सर्वं पुनासि परिपासि च ।
स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः ॥ २.५१.५ ॥

महाननन्यसामान्यप्रभावस्तपसश्च ते ।
इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः ॥ २.५१.६ ॥

पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः ।
पिबत्यम्भः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने ॥ २.५१.७ ॥

धयत्यत्रातिविस्रम्भात्कृशापि हरिणी स्तनम् ।
करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः ॥ २.५१.८ ॥

नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे ।
व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून् ॥ २.५१.९ ॥

गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् ।
प्रविष्टोऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः ॥ २.५१.१० ॥

नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः ।
वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः ॥ २.५१.११ ॥

सृगाला गवयागावो हरिणा महिषास्तथा ।
वनेऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः ॥ २.५१.१२ ॥

एवंविधा तपःशक्तिर्लोकविस्मयदायिनी ।
न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा ॥ २.५१.१३ ॥

अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् ।
रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः ॥ २.५१.१४ ॥

वश्यामात्यस्त्रिवर्गेऽपि यथायोग्यकृतादरः ।
त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम् ॥ २.५१.१५ ॥

एवं प्रवर्त्तमानस्य मम राज्येऽवतिष्ठतः ।
भवद्दिदृक्षा सञ्जाता सापेक्षा भृगुपुङ्गव ॥ २.५१.१६ ॥

किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे ।
पितृपिण्डप्रदानेन सह संरक्षणं भुवः ॥ २.५१.१७ ॥

तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् ।
नानयोऽपहर्त्तां लोकंऽस्मिन्ममेति त्वामुपागतः ॥ २.५१.१८ ॥

इत्युक्तः सगरेणाथ स्थित्वा सोऽतर्मनाः क्षणम् ।
उवाच भगवानौर्वः सनिदेशमिदं वचः ॥ २.५१.१९ ॥

नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस ।
अवाप्स्यति ततोऽभीष्टं भवान्नात्र विचारमा ॥ २.५१.२० ॥

स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः ।
पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा ॥ २.५१.२१ ॥

राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते ।
मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः ॥ २.५१.२२ ॥

भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः ।
राजपत्न्यौ समाहूय इदं वचनम ब्रवीत् ॥ २.५१.२३ ॥

भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् ।
दास्यामि तं न सन्देहो यद्यपि स्यात्सुदुर्ल्लभम् ॥ २.५१.२४ ॥

ततः प्रणम्यशिरसा तेऽप्युभे तं महामुनिम् ।
ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम् ॥ २.५१.२५ ॥

ततस्ते भगवानाह भवतीभ्यां मया पुनः ।
राज्ञश्चप्रियकामेन वरो दत्तोऽयमीप्सितः ॥ २.५१.२६ ॥

पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः ।
भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम ॥ २.५१.२७ ॥

पुत्रो भविष्यत्येकस्यामेकः सोऽनतिधार्मिकः ।
तथापि तस्य कल्पान्तं सम्भूतिश्च भविष्यति ॥ २.५१.२८ ॥

षष्टिः पुत्रसहस्राणामपरस्यां च जायते ।
अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव ॥ २.५१.२९ ॥

एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् ।
अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम् ॥ २.५१.३० ॥

एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् ।
वरयामास तनयं पुत्रानन्यास्तथा परा ॥ २.५१.३१ ॥

इति दत्त्वा वरं राज्ञे सगराय महामुनिः ।
सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति ॥ २.५१.३२ ॥

मुनिना समनुज्ञातः कृत कृत्यो महीपतिः ।
रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम् ॥ २.५१.३३ ॥

स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् ।
आनन्दितः पौरजनै रेमे परमया मुदा ॥ २.५१.३४ ॥

एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप ।
राज्ञे प्रावोचतां गर्भं मुदा परमया युते ॥ २.५१.३५ ॥

ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् ।
सह सन्तोषसम्पत्त्या पित्रोः पौरजनस्य च ॥ २.५१.३६ ॥

सम्पूर्णे तु ततः काले मुहूर्ते केशिनीशुभे ।
असूयताग्निगर्भाभं कुमारममितद्युतिम् ॥ २.५१.३७ ॥

जातकर्मादिकं तस्य कृत्वा चैव यथाविधि ।
असमञ्चस इत्येव नाम तस्या करोन्नृपः ॥ २.५१.३८ ॥

सुमतिश्चापि तत्काले गर्भालाबमसूयत ।
सम्प्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः ॥ २.५१.३९ ॥

तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया ।
सम्यक्सम्भावितो राज्ञा तमुवाच त्वरान्वितः ॥ २.५१.४० ॥

गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति ।
पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव ॥ २.५१.४१ ॥

तस्मात्तत्सकलीकृत्य घृतकुम्भेषु यत्नतः ।
निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक् ॥ २.५१.४२ ॥

सम्यगेवं कृते राजन्भवतो मत्प्रसादतः ।
यथोक्तसङ्ख्या पत्राणां भविष्यति न संशयः ॥ २.५१.४३ ॥

काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् ।
एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप ॥ २.५१.४४ ॥

इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः ।
राजा च तत्तथा चक्रे यथौर्वेण समीरितम् ॥ २.५१.४५ ॥

ततः संवत्सरे पूर्णे घृतकुम्भात्क्रमेण ते ।
भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम् ॥ २.५१.४६ ॥

एवं क्रमेण सञ्जातास्तनयास्ते महीपते ।
ववृधुः सङ्घशो राजन्षष्टिसाहस्रसङ्ख्याया ॥ २.५१.४७ ॥

अपृथग्धर्मचरणा महाबलपराक्रमाः ।
बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः ॥ २.५१.४८ ॥

स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः ।
केशिनीतनयं त्वेकं बहुमान सुतं प्रियम् ॥ २.५१.४९ ॥

विवाहं विधिवत्तस्मै कारयामास पार्थिवः ।
सचाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् ॥ २.५१.५० ॥

एवं प्रवर्त मानस्य केशिनीतनयस्य तु ।
अजायत सुतः श्रीमानंशुमानिति विश्रुतः ॥ २.५१.५१ ॥

स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् ।
प्रीणयामास सुत्दृदः स्वपितामहमेव च ॥ २.५१.५२ ॥

एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रोऽसमञ्जसः ।
आविष्टो नष्टचेष्टोऽभूत्स पिशाचेन केन चित् ॥ २.५१.५३ ॥

स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् ।
कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान् ॥ २.५१.५४ ॥

स कदाचिदरण्येषु विचरन्निधिमुत्तमम् ।
दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः ॥ २.५१.५५ ॥

ततस्तद्रक्षकोऽभ्येत्य पिशाचः प्राह तं तदा ।
क्षुधितोऽहं चिरादस्मिन्निवसन्निधिपालकः ॥ २.५१.५६ ॥

तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् ।
कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया ॥ २.५१.५७ ॥

सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् ।
आदत्त च निधिं तं तु पिशाचेनानुमोदितः ॥ २.५१.५८ ॥

न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् ।
प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप ॥ २.५१.५९ ॥

तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया ।
अपनीतधनः सोऽपि ममार व्यथितः क्षुधा ॥ २.५१.६० ॥

वैश्योऽपि बालो मरणं सम्प्राप्य सगरस्य तु ।
बभूव काले केशिन्यां तनयोऽन्वयवर्द्धनः ॥ २.५१.६१ ॥

अशरीरः पिशाचेऽपि पूर्ववैरमनुस्मरन् ।
वायुभूतोऽविशद्देहं राजपुत्रस्य भूपते ॥ २.५१.६२ ॥

तेनाविष्टस्ततः सोऽपि क्रूरचित्तोऽभवत्तदा ।
मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः ॥ २.५१.६३ ॥

असमञ्जसत्वं नगरे चक्रे सोऽपि नृशंसवत् ।
बालांश्च यूनः स्थविरान्योषितश्च सदा खलः ॥ २.५१.६४ ॥

हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः ।
ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् ॥ २.५१.६५ ॥

बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् ।
राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः ॥ २.५१.६६ ॥

वारयामास बहुधा दुःखेन महतान्वितः ।
बहुशः प्रतिषिद्धोऽपि पित्रा तेन महात्मना ॥ २.५१.६७ ॥

जले तप्ते च सन्तप्ताः सम्बभूवुर्यथा यवाः ।
नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः ॥ २.५१.६८ ॥

लोकापवादभीरुत्वाद्विषयानत्यजत्तदा ॥ २.५१.६९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरितेऽसमञ्जसत्यागो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥