०५०

विश्वास-प्रस्तुतिः

जैमिनिरुवाच
एवं स राजा विधिवत्पालयामास मेदिनीम् ।
सप्तद्वीपवतीं सम्यक्साक्षाद्धर्म इवापरः ॥ २.५०.१ ॥

मूलम्

ब्राह्मणादींस्तथा वर्णान्स्वेस्वे धर्मे पृथक्पृथक् ।
स्थापयित्वा यथान्यायं ररक्षाव्याहतेन्द्रियः ॥ २.५०.२ ॥

प्रजाश्च सर्ववर्णेषु यथाश्रेष्ठानुवर्त्तिनः ।
वर्णाश्चैवानुलोम्येन तद्वदर्थेषु च क्रमात् ॥ २.५०.३ ॥

न सति स्थविरे बालं मृत्युरभयुपगच्छति ।
सर्ववर्णेषु भूपाले महीं तस्मिन्प्रशासति ॥ २.५०.४ ॥

स्फीतान्यपेतबाधानि तदा राष्ट्राणि कृत्स्नशः ।
तेष्वसङ्ख्या जनपदाश्चातुर्वर्ण्यजनावृताः ॥ २.५०.५ ॥

ते चासङ्ख्यागृहग्रामशतोपेता विभागशः ।
देशाश्चावासभुयिष्टा नृपे तस्मिन्प्रशासति ॥ २.५०.६ ॥

अनाश्रमी द्विजः कश्चिन्न बभूव तदाभुवि ।
प्रजानां सर्ववर्णेषु प्रारम्भाः फलदायिनः ॥ २.५०.७ ॥

स्वोचितान्येव कर्माणि प्रारभन्ते च मानवाः ।
पुरुषार्थोपपन्नानि कर्माणि च तदा नृणाम् ॥ २.५०.८ ॥

महोत्सवसमुद्युक्ताः पुरग्रामव्रजाकराः ।
अन्योन्यप्रियकामाश्च राजभक्तिसमन्विताः ॥ २.५०.९ ॥

ननिन्दितोऽभिशस्तो वा दरिद्रो व्याधितोऽपि वा ।
प्रजासु कश्चिल्लुब्धो वा कृपणो वापि नाभवत् ॥ २.५०.१० ॥

जनाः परगुणप्रीताः स्वसम्पर्काभिकाङ्क्षिणाः ।
गुरुषु प्रणता नित्यं सद्विद्याव्यसनादृताः ॥ २.५०.११ ॥

परापवादभीताश्च स्वदाररतयोऽनिशम् ।
निसर्गात्खलसंसर्गविरता धर्मतत्पराः ॥ २.५०.१२ ॥

आस्तिकाः सर्वशोऽभूवन् प्रजास्तस्मिन्प्रशासति ।
एवं सुबाहुतन्ये स्वप्रतापार्जितां महीम् ॥ २.५०.१३ ॥

ऋतवश्च महाभाग यथाकालानुवर्तिनः ।
शालिभूयिष्ठसस्याढ्या सदैव सकला मही ॥ २.५०.१४ ॥

बभूव नृपशार्दूले तस्मिन् राज्यानि शासति ॥ २.५०.१५ ॥

विश्वास-प्रस्तुतिः

यस्याष्टादशमण्डलाधिपतिभिः सेवार्थमभ्यागतैः प्रख्यातोरुपराक्रमैर्नृपशतैर्मूर्द्धाभिषिक्तैः पृथक् ।
संविष्टैर्मणिविष्टरेषु नितरामध्यास्यमानामरैः शक्रस्येव विराजते दिवि सभा रत्नप्रभोद्भासिता ॥ २.५०.१६ ॥

सङ्केताविषयान्तराभ्युपगमाः सर्वेऽपि सोपायनाः कृत्वा सैन्यनिवेशनानि परितः पुर्याः पृथक्पार्थिवाः ।
द्रष्टुं काङ्क्षितराजकाः सतनयाविज्ञापयन्तो मुहुर्द्वास्थैरेव नरेश्वराय सुचिरं वत्स्यन्तमन्तःपुरे ॥ २.५०.१७ ॥

नमन्नरेद्रमुकुटश्रेणीनामतिघर्षणात् ।
किणीकृतौ विराजेते चरणौ तस्य भूभुजः ॥ २.५०.१८ ॥

सेवागतनरेद्रौघविनिकीर्णैः समन्ततः ।
रत्नैर्भाति सभा तस्य गुहा सोमे रवी यथा ॥ २.५०.१९ ॥

एवं स राजा धर्मेण भानुवंशशिखामणिः ।
अनन्यशासनामुर्वीमन्वशासदरिन्दमः ॥ २.५०.२० ॥

इत्थं पालयतः पृथ्वीं सगरस्य महीपतेः ।
न चापपात मुत्पुत्रमुखालोकनजृम्भिता ॥ २.५०.२१ ॥

विना तां दुःखितोऽत्यर्थं चितयामास नैकधा ।
अहो कष्टमपुत्रोऽहमस्मिन्वंशे ध्रुवं तु यत् ॥ २.५०.२२ ॥

प्रयान्ति नूनमस्माकं पितरः पिण्डविप्लवम् ।
निरयादपि सत्पुत्रे सञ्जाते पितरः किल ॥ २.५०.२३ ॥

प्रीत्या प्रयान्ति तद्गेहं जातकर्मक्रियोत्सुकाः ।
महता सुकृतेनापि सम्प्राप्तस्य दिवं किल ॥ २.५०.२४ ॥

अपुत्रस्यामराः स्वर्गे द्वारं नोद्धाटयन्ति हि ।
पिता तु लोकमुभयोः स्वर्लोकं तत्पितामहाः ॥ २.५०.२५ ॥

जेष्यन्ति किल सत्पुत्रे जाते वंशद्वयेऽपि च ।
अनपत्यतयाहं तु पुत्रिणां या भवेद्गतिः ॥ २.५०.२६ ॥

न तां प्राप्क्यामि वै नूनं सुदुर्लभतरा हि सा ।
पदादैन्द्रात्किलाभिन्नमृद्धं राज्यमखण्डितम् ॥ २.५०.२७ ॥

मम यत्तदपुण्यस्य याति निष्फलतामिह ।
इदं मत्पूर्वजैरेव सिंहासनमधिष्ठितम् ॥ २.५०.२८ ॥

अपुत्रत्वेन राज्यं च पराधीनत्वमेष्यति ।
तस्मादौर्वाश्रममहं गत्वा तं मुनिपुङ्गवम् ॥ २.५०.२९ ॥

प्रसादयिष्ये पुत्रार्थं भार्याभ्यां सहितोऽधुना ।
गत्वा तस्मै त्वपुत्रत्वं विनिवेद्य महात्मने ॥ २.५०.३० ॥

स यद्वक्ष्यति तत्सर्वं करिष्ये नात्र संशयः ।
इति सञ्चिन्त्य मनसा सगरोराजसत्तमः ॥ २.५०.३१ ॥

इत्येष कृत्यविद्राजन्गन्तुमौर्वाश्रमं प्रति ।
स मन्त्रिप्रवरे राज्यं प्रतिष्ठाप्य ततो वनम् ॥ २.५०.३२ ॥

प्रययौ रथमारुह्य भार्याभ्यां सहितो मुदा ।
जगाम रथघोषेण मेघनादातिशङ्किभिः ॥ २.५०.३३ ॥

स्तब्धेक्षणैर्लक्ष्यमाणो मार्गोपान्ते शिखण्डिभिः ।
प्रियाभ्यां दर्शयन्राजन्सारङ्गांस्तिमितेक्षणान् ॥ २.५०.३४ ॥

क्षममूर्ध्वमुखान्सद्यः पलायनपरान्पुनः ।
वृक्षान्पुष्पफलोपेतान्विलोक्य मुदितोऽभवत् ॥ २.५०.३५ ॥

अम्लानकुसुमैः स्वादुफलैः शाद्वलभूमिकैः ।
सुस्निग्धपल्लवच्छायैरभितः सम्भृतं नगैः ॥ २.५०.३६ ॥

चूताग्रपल्लवास्वादस्निग्धकण्ठपिकारवैः ।
श्रोत्राभिरामजनकैस्सङ्घुष्टं सर्वतोदिशम् ॥ २.५०.३७ ॥

सर्वर्तुकुसुमोपेतं भ्रमद्भ्रमरमण्डितम् ।
प्रसूनस्तबकानम्रबल्लरीवेल्लितद्रुमम् ॥ २.५०.३८ ॥

कपियूथसमाक्रान्तव नस्पतिशतावृतम् ।
उन्मत्तशिखिसारङ्गकूजत्पक्षिगणान्वितम् ॥ २.५०.३९ ॥

गायद्विद्याधरवधूगीतिकासुमनोहरम् ।
सञ्चरत्किन्नरीद्वन्द्वविराजद्वनगह्वरम् ॥ २.५०.४० ॥

हंससारसचक्राह्वकारण्डवशुकादिभिः ।
सुस्वरैरावृतोपान्तैः सरोभिः परिवारितम् ॥ २.५०.४१ ॥

सरः स्वम्बुज कह्लारकुमुदोत्पलराशिषु ।
शनैः परिवहन्मन्दमारुतापूर्णदिङ्मुखम् ॥ २.५०.४२ ॥

एवंविधगुणोपेतमधिगाह्य तपोवनम् ।
गच्छन्रथेनाथ नृपः प्रहर्षं परमं ययौ ॥ २.५०.४३ ॥

उपशान्ताशयः सोऽथ सम्प्राप्याश्रममण्डलम् ।
भार्याभ्यां सहितः श्रीमान्वाहादवरुरोह वै ॥ २.५०.४४ ॥

धुर्यान्विश्रामयेत्युक्त्वा यन्तारमवनीपतिः ।
आससादाश्रमोपान्तं महर्षेर्भावितात्मनः ॥ २.५०.४५ ॥

स श्रुत्वा मुनिशिष्येभ्यः कृतनित्यक्रियादरम् ।
मुनिं द्रष्टुं विनीतात्मा प्रविवेशाश्रमं तदा ॥ २.५०.४६ ॥

मुनिमध्ये समासीनमृषिवृन्दैः समन्वितम् ।
ननाम शिरसा राजा भार्याभ्यां सहितो मुदा ॥ २.५०.४७ ॥

कृतप्रणामं नृपतिमृषिरौर्वः प्रतापवान् ।
उपविशेति प्रेम्णा वै सह ताभ्यां समादिशत् ॥ २.५०.४८ ॥

अर्घ्यपाद्यादिभिः सम्यक्पूजयित्वा महामुनिः ।
आतिथ्येन च वन्येन सभार्यं तमतोषयत् ॥ २.५०.४९ ॥

अथातिथ्योपविश्रान्तं प्रणम्या सीनमग्रतः ।
राजानमब्रवीदौर्वः शनैर्मृद्वक्षरं वचः ॥ २.५०.५० ॥

कुशलं ननु ते राज्ये बाह्येष्वाभ्यन्तरेषु च ।
अपिधर्मेण सकलाः प्रजास्त्वं परिरक्षसि ॥ २.५०.५१ ॥

अपि जेतुं त्रिवर्गं त्वमुपायैः सम्यगीहसे ।
फलन्ति हि गुणास्तुभ्यं त्वया सम्यक्प्रचोदिताः ॥ २.५०.५२ ॥

दिष्ट्यात्वया जिताः सर्वे रिपवो नृपसत्तम ।
दिष्ट्या च सकलं राज्यं त्वया धर्मेण रक्ष्यते ॥ २.५०.५३ ॥

धर्म एव स्थितिर्येषां तेषां नास्त्यत्रविप्लवः ।
न तं रक्षति किं धर्मः स्वयं येनाभिरक्षितः ॥ २.५०.५४ ॥

पूर्वमेवाहमश्रौषं विजित्य सकलां महीम् ।
सबलोनगरीं प्राप्तः कृतदारो भवानिति ॥ २.५०.५५ ॥

राज्ञां तु प्रवरो धर्मो यत्प्रजापरिपालनम् ।
भवन्ति सुखिनो नूनं तेनैवेह परत्र च ॥ २.५०.५६ ॥

स भवान्राज्य भरणं परित्यज्य मदन्तिकम् ।
भार्याभ्यां सहितो राजन्समायातोऽसि मे वद ॥ २.५०.५७ ॥

एवमुक्तस्तु मुनिना सगरो राजसत्तमः ।
कृताञ्जलिपुटो भूत्वा प्राह तं मधुरं वचः ॥ २.५०.५८ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरस्यौर्वाश्रमगमनं नाम पञ्चशत्तमोऽध्यायः ॥ ५०॥