०४९

विश्वास-प्रस्तुतिः

जैमिनिरुवाच
अथानुज्ञाय सगरो वसिष्ठमृषिसत्तमम् ।
बलेन महता युक्तो विदर्भानभ्यवर्त्तत ॥ २.४९.१ ॥

मूलम्

ततो विदर्भराट्तस्मै स्वसुतां प्रीतिपूर्वकम् ।
केशिन्याख्यामनुपमामनुरूपां न्यवेदयत् ॥ २.४९.२ ॥

स तस्या राजशार्दूलो विधिवद्वह्निसाक्षिकम् ।
शुभे मुहूर्ते केशिन्याः पार्णिं जग्राह भूमिपः ॥ २.४९.३ ॥

स्थित्वा दिनानि कतिचिद्गृहे तस्यातिसत्कृतः ।
विदर्भराज्ञा सम्मन्त्र्य ततो गन्तुं प्रजक्रमे ॥ २.४९.४ ॥

अनुज्ञातस्ततस्तेन पारिबर्हैश्च सत्कृतः ।
निष्क्रम्य तत्पुराद्राजा शूरसेनानुपेयिवान् ॥ २.४९.५ ॥

सम्भावितस्ततश्चैव यादवैर्मातृसोदरैः ।
धनौघैस्तर्पितस्तैश्च मधुराया विनिर्ययौ ॥ २.४९.६ ॥

एवं स सगरो राजा विजित्य वसुधामिमाम् ।
करैश्च स नृपान्सर्वांश्चक्रे सङ्केतगानपि ॥ २.४९.७ ॥

ततोऽनुमान्य नृपतीन्निजराज्याय सानुगान् ।
अनुजज्ञे नरपतिः समस्ताननुयायिनः ॥ २.४९.८ ॥

ततो बलेन महाता स्कन्धावारसमन्वितः ।
शनैरपीडयन्देशान्स्वराज्यमुपजग्मिवान् ॥ २.४९.९ ॥

सम्भाव्यमानश्च मुहुरुपदाभिरनेकशः ।
नानाजनपदैस्तूर्ममयोध्यां समुपागमत् ॥ २.४९.१० ॥

तदागमनमाज्ञाय नागरः सकलो जनः ।
नगरीं तामलञ्चक्रे महोत्सवसमुत्सुकः ॥ २.४९.११ ॥

ततः सा नगरी सर्वा कृतकौतुकमङ्गला ।
सिक्तसम्मृष्टभूभागा पूर्णकुम्भशतावृता ॥ २.४९.१२ ॥

समुच्छ्रितध्वजशता पताकाभिरंलकृता ।
सर्वत्रागरुधूपाञढ्या विचित्रकुसुमोज्ज्वला ॥ २.४९.१३ ॥

सद्रत्नतोरणोत्तुङ्गगोपुराट्टलभूषिता ।
प्रसूनलाजवर्षैश्च स्वलङ्कृतमहापथा ॥ २.४९.१४ ॥

महोत्सवसमायुक्ता प्रतिगेहमभूत्पुरी ।
सम्बूजिताशेषवास्तुदेवतागृहमालिनी ॥ २.४९.१५ ॥

दिक्चक्रजयिनो राज्ञः सन्दर्शनमुदान्वितैः ।
पौरजानपदैर्त्दृष्टैः सर्वतः समलङ्कृता ॥ २.४९.१६ ॥

ततः प्रकृतयः सर्वे तथान्तः पुरवासिनः ।
वारकाताकदबैश्च नगरीभिश्च सवृताः ॥ २.४९.१७ ॥

अभ्याययुस्ततः सर्वे समत्य पुरवासिनः ।
स तैः समेत्य नृपतिर्लब्धाशीर्वाद सक्त्क्रियः ॥ २.४९.१८ ॥

बधिरीकृतदिक्चक्रो जयशब्देन भूरिणा ।
नानावादित्रसङ्घोषमिश्रेण मधुरेण च ॥ २.४९.१९ ॥

सत्कृत्य तान्यथा योगं सहितस्तैर्मुदान्वितैः ।
आनन्दयन्प्रजाः सर्वाः प्रविवेश पुरोत्तमम् ॥ २.४९.२० ॥

वेदघोषैः सुमधुरैर्ब्राह्मणैरभिनन्दितः ।
संस्तूयमानः सुभृशं सूतमागधवन्दिभिः ॥ २.४९.२१ ॥

जयशब्दैश्च परितो नानाजनपदेरितैः ।
कलतालरवोन्मिश्रवीणावेणुतलस्वनैः ॥ २.४९.२२ ॥

गायद्भिर्गायकजनैर्नृत्यद्भिर्गणिकाजनैः ।
अन्वीयमानो विलसच्छ्वेतच्छत्रविराजितः ॥ २.४९.२३ ॥

विकीर्यमाणः परितः सल्लाजकुसुमोत्करैः ।
पुरीमयोध्यामविशत्स्वपुरीमिव वासवः ॥ २.४९.२४ ॥

दृष्टिपूतेन गन्धेन ब्राह्मणानां च वर्त्मना ।
जगाम मध्येनगरं गृहं श्रीमदलङ्कृतम् ॥ २.४९.२५ ॥

अवरुह्य ततो यानाद्भार्याभ्यां सहितो मुदा ।
प्रविवेश गृहं मातुर्हृष्टपुष्टजनायुतम् ॥ २.४९.२६ ॥

पर्यङ्कस्थामुपागम्य मातरं विनयान्वितः ।
तत्पादौ संस्पृशन्मूर्ध्ना प्रणाममकरोत्तदा ॥ २.४९.२७ ॥

साभिनन्द्य तमाशीर्भिर्हर्षगद्गदया गिरा ।
ससम्भ्रमं समुत्थाय पर्यष्वजत चात्मजम् ॥ २.४९.२८ ॥

सहर्षं बहुधाशीर्भिरभ्यनन्ददुभे स्नुषे ।
स तां सम्भाव्य कथया तत्र स्थित्वा चिरादिव ॥ २.४९.२९ ॥

अनुज्ञातस्तया राजा निश्चक्राम तदालयात् ।
ततः सानुचरो राजा श्वेतव्यजनवीजितः ॥ २.४९.३० ॥

सुरराज इव श्रीमान्सभां समगमच्छनैः ।
सम्प्रविश्य सभां दिव्यामनेकनृपसेविताम् ॥ २.४९.३१ ॥

नत्वा गुरुजनं सर्वमाशीर्भिश्चाभिनन्दितः ।
सिंहासने शुभे दिव्ये निषसाद नरेश्वरः ॥ २.४९.३२ ॥

संसेव्यमानश्च नृपैर्नानाजनपदेश्वरैः ।
नानाविधाः कथाः कुर्वन्स तत्र नृपसत्तमः ॥ २.४९.३३ ॥

सम्प्रीयमामः सुतरामुवास सह बन्धुभिः ।
प्रतिज्ञां पालयित्वैवं जितदिङ्मण्डलो नृपः ॥ २.४९.३४ ॥

अन्वतिष्ठद्यन्थान्याय मर्थत्रयमुदारधीः ।
स्वप्रभावजिताशेषवैरिर्दिङ्मण्डलाधिपः ॥ २.४९.३५ ॥

एकातपत्रां पृथिवीमन्वशासद्वृषो यथा ।
स्वर्यातस्य पितुः पूर्वं परिभावममर्षितः ॥ २.४९.३६ ॥

स यां प्रतिज्ञामारूढस्तां सम्यक्परिपूर्य च ।
सप्तद्वीपाब्धिनगरग्रामायतनमालिनीम् ॥ २.४९.३७ ॥

जित्वा शत्रूनशेषेण पालयामास मेदिनीम ।
एवं गच्छति काले च वसिष्ठो भगवानृषिः ॥ २.४९.३८ ॥

अभ्यजगाम तं भूयो द्रष्टुकामो जरेश्वरम् ।
तमायान्तमतिप्रेक्ष्य मुनिवर्यं ससम्भ्रमः ॥ २.४९.३९ ॥

प्रत्युज्जगामार्घहस्तः सहितस्तैर्नपैर्नृपः ।
अर्ध्यपाद्यादिभिः सम्यक्पूजयित्वा महामतिः ॥ २.४९.४० ॥

प्रणाममकरोत्तस्मै गुरुभक्तिसमन्वितः ।
आशीर्भिर्वर्द्धयित्वा तं वसिष्ठः सगरं तदा ॥ २.४९.४१ ॥

आस्यतामिति होवाच सह सर्वैर्नरेश्वरैः ।
उपाविशत्ततो राजा काञ्चने परमासने ॥ २.४९.४२ ॥

मुनिना समनुज्ञातः सभार्यः सह राजभिः ।
आपवस्तुनृपश्रेष्ठमुपासीनमुपह्वरे ॥ २.४९.४३ ॥

उवाच शृण्वतां राज्ञां शनैर्मृद्वक्षरं वचः ।
वसिष्ठ उवाच
कुशलं ननु ते राजन्वाह्येष्वाभ्यन्तरेषु च ॥ २.४९.४४ ॥

मन्त्रिष्वमात्यवर्गेषु राज्ये वा सकलेऽधुना ।
दिष्ट्या च विजिताः सर्वे समग्रबलवाहनाः ॥ २.४९.४५ ॥

अयत्नेनैव युद्धेषु भवता रिपवो हि यत् ।
दिष्ट्यारूढप्रतिज्ञेन मम मानयता वचः ॥ २.४९.४६ ॥

अरयस्त्यक्तधर्माणस्त्वया जीवविसर्जिताः ।
तान्विजित्येतराञ्जेतुं पुनर्दिग्विजयेच्छया ॥ २.४९.४७ ॥

गतस्सवाहनबलस्त्वमित्यशृणवं वचः ।
जितदिङ्मण्डलं भूयः श्रुत्वा त्वां नगरस्थितम् ॥ २.४९.४८ ॥

प्रीत्याहमागतो द्रष्टुमिदानीं राजसत्तम ।
जैमिनिरुवाच
वसिष्ठेनैवमुक्तस्तु सगरस्तालजङ्घजित् ॥ २.४९.४९ ॥

कृताञ्जलिपुटो भूत्वा प्रत्युवाच महामुनिम् ।
सगर उवाच
कुशलं ननु सर्वत्र महर्षे नात्र संशयः ॥ २.४९.५० ॥

कल्याणाभिमुखाः सर्वे देवताश्च मुनेऽनिशम् ।
भवान्ध्यायति कल्याणं मनसा यस्य सन्ततम् ॥ २.४९.५१ ॥

तस्य मे चोपसर्गाश्च सम्भवन्ति कथं मुने ।
भवतानुगृहीतोऽस्मि कृतार्थश्चाधुना कृतः ॥ २.४९.५२ ॥

यन्मां द्रष्टुमिहायातः स्वयमेव भवान्गुरो ।
यन्मह्यमाह भगवान्विपक्षविजयादिकम् ॥ २.४९.५३ ॥

तत्तथानुष्ठितं किं तु सर्वं भवदनुग्रहात् ।
भवत्प्रसादतः सर्वं मन्ये प्राप्तं महीक्षिताम् ॥ २.४९.५४ ॥

अन्यथा मम का शक्तिः शत्रून्हन्तुं तथाविधान् ।
अनल्पी कुरुते फल्यं यन्मे व्यवसितं भवान् ॥ २.४९.५५ ॥

फलमल्पमपि प्रीत्यै स्यादगस्याधिरोपितुः ।
जैमिनिरुवाच
एवं सम्भावितः सम्यक्सगेरण महामुनिः ॥ २.४९.५६ ॥

अभ्यनुज्ञाय तं भूयः प्रजागाम निजाश्रमम् ।
वसिष्टे तु गते राजा सगरःप्रीतमानसः ॥ २.४९.५७ ॥

अयोध्यायामभिवसन्प्रशशासाखिलां भुवम् ।
भार्याभ्यां समुपेताभ्यां रूपशीलगुणादिभिः ॥ २.४९.५८ ॥

बुभुजे विषयान्रम्यान्यथाकामं यथासुखम् ।
सुमतिः केशिनी चोभे विकसद्वदनाम्बुजे ॥ २.४९.५९ ॥

रूपौदार्यगुणोपेते पीनवृत्तपयोधरे ।
नीलकुञ्चितकेशाढ्ये सर्वाभरणभूषिते ॥ २.४९.६० ॥

सर्वलक्षणसम्पन्ने नवयौवनगोचरे ।
प्रिये सन्निहिते तस्य नित्यं प्रियहिते रते ॥ २.४९.६१ ॥

स्वाचारभावचेष्टाभिर्जह्रतुस्तन्मनोऽनिशम् ।
स चापि भरणोत्कर्षप्रतीतात्मा महीपतिः ॥ २.४९.६२ ॥

रममाणो यथाकामं सह ताभ्यां पुरेऽवसत् ।
अन्येषां भुवि राज्ञां तु राजशब्दो न चाप्यभूत् ॥ २.४९.६३ ॥

गुणेन चाभवत्तस्य सगरस्य महात्मनः ।
अल्पोऽपि धर्मः सततं यथा भवति मानसे ॥ २.४९.६४ ॥

रा५ तस्यार्थकामौ तु न तथा विपुलावपि ।
अलुब्धमानसोर्ऽथं च भेजे धर्ममपीडयन् ॥ २.४९.६५ ॥

तदर्थमेव राजेन्द्र कामं चापीडयंस्तयोः ॥ २.४९.६६ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरदिग्विजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥