विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
ततो मूर्द्धाभिषिक्तानां राज्ञाममिततेजसाम् ।
षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान् ॥ २.४७.१ ॥
मूलम्

ततो राजसहस्राणि गृहीत्वा मुनिभिः सह ।
स जगाम महातेजाः कुरुक्षेत्रं तपोमयम् ॥ २.४७.२ ॥

सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः ।
सुखावगाहतीर्थानि तानि चक्रे समन्ततः ॥ २.४७.३ ॥

जघान तत्र वै राज्ञः शरीरप्रभवामृजा ।
सरांसि तानि वै पञ्च पूरयामास भार्गवः ॥ २.४७.४ ॥

स्नात्वा तेषु यथान्यायं जामदग्नयः प्रतापवान् ।
पितॄन्सन्तर्पयामास यथाशास्त्रमतन्द्रितः ॥ २.४७.५ ॥

पितुः प्रेतस्य राजेन्द्र श्राद्धादिकमशेषतः ।
ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम् ॥ २.४७.६ ॥

एवं तीर्णप्रतीकः स कुरुक्षेत्रे तपोमये ।
उवासातन्द्रितः सम्यक्पितृपूजापरायणः ॥ २.४७.७ ॥

ततः प्रभृत्यभूद्राजंस्तीर्थानामुत्तमोत्तमम् ।
विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने ॥ २.४७.८ ॥

सस्यमं तपञ्चकमिति स्थानं त्रैलोक्यविश्रुतम् ।
यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम् ॥ २.४७.९ ॥

स्नानदानतपोहोमद्विजभोजनतर्पणैः ।
भृशमाप्यायितास्तेन यत्र ते पितरोऽखिलाः ॥ २.४७.१० ॥

अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतम् ।
समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम् ॥ २.४७.११ ॥

सर्वपापक्षयकरं महापुण्योपबृंहितम् ।
मर्त्यानां यत्र यातानामेनांसि निखिलानि तु ॥ २.४७.१२ ॥

दूरादेवापयास्यन्ति प्रवाते शुष्कपर्णवत् ।
तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह ॥ २.४७.१३ ॥

न लभ्यते महाराज जातु जन्मशतैरपि ।
समन्तपञ्चकं तीर्थं कुरुक्षेत्रेऽतिपावनम् ॥ २.४७.१४ ॥

यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः ।
कृतकृत्यस्ततो रामः सम्यक्पूर्णमनोरथः ॥ २.४७.१५ ॥

उवास तत्र नियतः कञ्चित्कालं महामतिः ।
ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी ॥ २.४७.१६ ॥

पितृपिण्डप्रदानाय जामदग्न्योऽगमद्गयाम् ।
ततो गत्वा ततः श्राद्धे यथाशास्त्रमरिन्दमः ॥ २.४७.१७ ॥

ब्राह्मणांस्तर्पयामास पितॄनुद्दिश्य सत्कृतान् ।
शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम् ॥ २.४७.१८ ॥

पितृतृप्तिकरं क्षेत्रं तादृग्लोके न विद्यते ।
यत्रार्चिताः स्वकुलजैर्यथाशक्ति मनागपि ॥ २.४७.१९ ॥

पितरः पिण्डदानाद्यैः प्राप्स्यन्ति गतिमक्षयाम् ।
पितॄनुद्दिश्य तत्रासौ तर्प्पितेषु द्विजातिषु ॥ २.४७.२० ॥

ददौ च विधिवत्पिण्डं पितृभक्तिसमन्वितः ।
ततस्तत्पितरः सर्वे पितृलोकादुपागताः ॥ २.४७.२१ ॥

जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः ।
अथ सम्प्रीतमनसः समेत्य भृगुनन्दनम् ॥ २.४७.२२ ॥

ऊचुस्तत्पितरः सर्वेऽदृश्या भूत्वान्तरिक्षगाः ।
पितर ऊचुः
महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम् ॥ २.४७.२३ ॥

अस्मानपि यथान्यायं सम्यक्तर्पितवानसि ।
अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि ॥ २.४७.२४ ॥

क्षत्रहत्यां हि कृत्वा तु कृतकर्माभवद्यतः ।
क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम् ॥ २.४७.२५ ॥

प्राप्ताःस्म पूजिताः किं तु नाक्षय्यफलभागिनः ।
त्समात्त्वं वीरहत्यादिपापप्रशमनाय हि ॥ २.४७.२६ ॥

प्रायश्चित्तं यथान्यायं कुरु धर्मं च शाश्वतम् ।
वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम् ॥ २.४७.२७ ॥

पितुर्न्न तेऽपराध्यन्ते न स्वतन्त्रं यतो जगत् ।
तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा ॥ २.४७.२८ ॥

हन्तुं कं कः समर्थः स्याल्लोके रक्षितुमेव वा ।
निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः ॥ २.४७.२९ ॥

ध्रुवं कर्मानुरूपं ते चेष्टन्ते सर्व एव हि ।
कालानुवृत्तं बलवान्नृलोको नात्र संशयः ॥ २.४७.३० ॥

बाधितुं भुवि भूतानि भूतानां न विधिं विना ।
शक्यते वत्स सर्वोऽपि यतः शक्त्या स्वकर्मकृत् ॥ २.४७.३१ ॥

क्षत्रं प्रति ततो रोषं विमुच्यास्मत्प्रियेप्सया ।
शममा प्नुहि भद्रं ते स ह्यस्माकं परं बलम् ॥ २.४७.३२ ॥

इत्युक्त्वान्तर्दधुः सर्वे पितरो भृगुनन्दनम् ।
स चापि तद्वचः सर्वं प्रतिजग्राह सादरम् ॥ २.४७.३३ ॥

अकृतव्रणसंयुक्तो मुदा परमया युतः ।
प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम् ॥ २.४७.३४ ॥

तस्मिन्स्थित्वा भृगुश्रेष्ठो ब्राह्मणैः सहितो नृप ।
तपसे धृतसङ्कल्पो बभूव स महामनाः ॥ २.४७.३५ ॥

सरथं सहसाहं च धनुःसंहननानि च ।
पुनरागमसङ्केतं कृत्वा प्रास्थापयत्तदा ॥ २.४७.३६ ॥

ततः स सर्वतीर्थेषु चक्रे स्नानमतन्द्रितः ।
परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः ॥ २.४७.३७ ॥

एवं क्रमेण पृथिवीं त्रिवारं भुगुनन्दनः ।
परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः ॥ २.४७.३८ ॥

ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ ।
जगाम तपसे राजन्बाह्मणैरभिसंवृतः ॥ २.४७.३९ ॥

स तस्मिंश्चिररात्राय मुनि सिद्धनिषेविते ।
निवासमात्मनो राजन्कल्पयामास धर्मवित् ॥ २.४७.४० ॥

मुनयस्तं तपस्यन्तं सर्वक्षेत्रनिवासिनः ।
द्रष्टुकामाः समाजग्मुर्नियता ब्रह्मवादिनः ॥ २.४७.४१ ॥

ददृशुस्ते मुनिगणास्तपस्यासक्तमानसम् ।
क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम् ॥ २.४७.४२ ॥

अथ तानागतान्दृष्ट्वा मुनीन्दिव्यांस्तपोमयान् ।
अर्घ्यादिसमुदाचारैः पूजयामास भार्गवः ॥ २.४७.४३ ॥

कृतकौशलसम्प्रश्नपूर्वकाः सुमहोदयाः ।
तेषां तस्य च संवृत्ताः कथाः पुण्या मनोहराः ॥ २.४७.४४ ॥

ततस्तेषामनुमते मुनीनां भावितात्मनाम् ।
हयमेधं महायज्ञमाहर्तुमुपचक्रमे ॥ २.४७.४५ ॥

सम्भृत्य सर्वसम्भारानौर्वाद्यैः सहितो नृप ।
विश्वामित्रभरद्वाजमार्कण्डेयादिभिस्तथा ॥ २.४७.४६ ॥

तेषा मनुमते कृत्वा काश्यपं गुरुमात्मनः ।
वाजिमेधं ततो राजन्नाजहार महाक्रतुम् ॥ २.४७.४७ ॥

तस्याभूत्काश्यपोऽध्वर्युरुद्गाता गौतमो मुनिः ।
विश्वामित्रोऽभवद्धोता रामस्य विदितात्मनः ॥ २.४७.४८ ॥

ब्रह्मत्वमकरोत्तस्य मार्कण्डेयो महामुनिः ।
भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः ॥ २.४७.४९ ॥

मुनयश्चक्रुरन्यानि कर्माण्यन्ये यथाक्रमम् ।
पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः ॥ २.४७.५० ॥

सादस्यमकरोद्राजन्नन्यैश्च मुनिभिः सह ।
स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः ॥ २.४७.५१ ॥

ब्रह्माणं पूजयामास यथावद्गुरुणा सह ।
अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम् ॥ २.४७.५२ ॥

पुरग्रामशतोपेतां समुद्राम्बरमालिनीम् ।
आहूय भृगुशार्दूलः सशैलवनकाननाम् ॥ २.४७.५३ ॥

काश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् ।
आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत् ॥ २.४७.५४ ॥

ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः ।
हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा ॥ २.४७.५५ ॥

पुरा समाप्य यज्ञान्ते तथा चावभृथाप्लुतः ।
चक्रे द्रव्यपरित्यागं तेषामनुमते तदा ॥ २.४७.५६ ॥

दत्त्वा च सर्वभूतानामभयं भृगुनन्दनः ।
तत्रापि पर्वतवरे तपश्चर्तुं समारभत् ॥ २.४७.५७ ॥

ततस्तं समनुज्ञाय सदस्या ऋत्विजस्तथा ।
ययुर्यथागतं सर्वे मुनयः शंसितव्रताः ॥ २.४७.५८ ॥

गतेषु तेषु भगवानकृतव्रणसंयुतः ।
तपो महत्समास्थाय तत्रैव न्यवसत्सुखी ॥ २.४७.५९ ॥

काश्यपी तु ततो भूमिर्जननाथा ह्यनेकशः ।
सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु ॥ २.४७.६० ॥

तत्र दीपप्रतिष्ठाख्यव्रतं विष्णुमुखोदितम् ।
चचार धरणी सम्यक्दुखैर्ःमुक्ताभवच्च सा ॥ २.४७.६१ ॥

इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृतः ।
यस्मिञ्श्रुते नरः सर्वपातकैर्विप्रमुच्यते ॥ २.४७.६२ ॥

प्रभावः कार्त्तवीर्यस्य लोके प्रथिततेजसः ।
प्रसङ्गात्कथितः सम्यङ्नातिसङ्क्षेपविस्तरः ॥ २.४७.६३ ॥

एवम्प्रभावः स नृपः कार्त्तवीर्योऽभवद्भुवि ।
न तादृशः पुमात्कश्चिद्भावी भूताथवा श्रुतः ॥ २.४७.६४ ॥

दत्तात्रेयाद्वरं वव्रे मृतिमुत्तमपूरुषात् ।
यत्पुरा सोऽगमन्मुक्तिं रणे रामेण घातितः ॥ २.४७.६५ ॥

तस्यासीत्पञ्चमः पुत्रः पख्यातो यो जयध्वजः ।
पुत्रस्तस्य महाबाहुस्तालजङ्घोऽभवन्नृप ॥ २.४७.६६ ॥

अभूत्तस्यापि पुत्राणां शतमुत्तमधन्विनाम् ।
तालजङ्घाभिधा येषां वीतिहोत्रोऽग्रजोऽभवत् ॥ २.४७.६७ ॥

पुत्रैः सवीतिहोत्राद्यैर्हैहयाद्यैश्च राजभिः ।
कालं महान्तमवसद्धिमाद्रिवानगह्वरे ॥ २.४७.६८ ॥

यः पूर्वं राम बाणेन द्रवन्पृष्ठेऽभिताडितः ।
तालजङ्घोऽपतद्भूमौ मूर्छितो गाढवेदनः ॥ २.४७.६९ ॥

ददर्श वीतिहोत्रस्तं द्रवन्दैववशादिव ।
रथमारोप्य वेगेन पलायनपरोऽभवत् ॥ २.४७.७० ॥

ते तत्र न्यवसन्सर्वे हिमाद्रौ भयपीडिताः ।
कृच्छ्रं महान्तमासाद्य शाकमूलफलाशनः ॥ २.४७.७१ ॥

ततः शान्तिं गते रामे तपस्यासक्तमानसे ।
जालजङ्घः स्वकं राज्यं सपुत्रः प्रत्यपद्यत ॥ २.४७.७२ ॥

सन्निवेश्य पुरीं भूयः पूर्ववन्नृपसत्तमः ।
वसंस्तदा निजं राज्यमापालयदरिन्दमः ॥ २.४७.७३ ॥

सुपुत्रः सानुगबलः पूर्ववैरमनुस्मरन् ।
अभ्याययौ महाराज तालजङ्घः पुरं तव ॥ २.४७.७४ ॥

चतुरङ्गबलोपेतः कम्पयन्निव मेदिनीम् ।
रुरोदाभ्येत्य नगरीमयोध्यां स महीपतिः ॥ २.४७.७५ ॥

ततो निष्क्रम्य नगरात्फल्गुतन्त्रोऽपि ते पिता ।
युयुधे तैर्नृपैः सर्वैर्वृद्धोऽपि तरुणो यथा ॥ २.४७.७६ ॥

निहतानेकमातङ्गतुरङ्गरथसैनिकः ।
शत्रुभिर्निर्जितो वृद्धः पलायनपरोऽ भवत् ॥ २.४७.७७ ॥

त्यक्त्वा स नगरं राज्यं सकोशबलवाहनम् ।
अन्तर्वत्न्या च ते मात्रा सहितो वनमाविशत् ॥ २.४७.७८ ॥

तत्र चौर्वाश्रमोपान्ते निवसन्नचिरादिव ।
शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम् ॥ २.४७.७९ ॥

विलोक्यमानो मात्रा ते बाष्पगद्गदकण्ठया ।
अनाथ इव राजेन्द्र स्वर्गलोकमितो गतः ॥ २.४७.८० ॥

ततस्ते जननी राजन्दुःखशोकसमन्विता ।
चितामारोपयद्भर्तू रुदती सा कलेवरम् ॥ २.४७.८१ ॥

अनशनादिदुःखेन भर्त्तुर्व्यसनकर्शिता ।
चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः ॥ २.४७.८२ ॥

और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः ।
निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत् ॥ २.४७.८३ ॥

न मर्त्तव्यं त्वया राज्ञि साम्प्रतं जठरे तव ।
पुत्रस्तिष्ठति सर्वेषां प्रवरश्चवर्त्तिनाम् ॥ २.४७.८४ ॥

इति तद्वचनं श्रुत्वा माता तव मनस्विनी ।
विरराम मृतेस्तां तु मुनिः स्वाश्रममानयत् ।
ततः सा सर्वदुःखानि नियम्य त्वन्मुखाम्बुजम् ॥ २.४७.८५ ॥

दिदृक्षुराश्रमोपान्ते तस्यैव न्यवसत्सुखम् ।
सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा ॥ २.४७.८६ ॥

जातकर्मादिकं सर्वं भवतः सोऽकरोन्मुनिः ।
और्वाश्रमे विवृद्धश्च भवांस्तेनानुकम्पितः ॥ २.४७.८७ ॥

त्वयैव विदितं सर्वमतः परमरिन्दम ।
एवं प्रभावो नृपतिः कार्त्तवीर्योऽभवद्भुवि ॥ २.४७.८८ ॥

व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः ।
यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत् ॥ २.४७.८९ ॥

तद्वृत्तान्तमशेषेण मया ते समुदीरितम् ।
एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव ॥ २.४७.९० ॥

समन्त्रतन्त्रं लोकेषु सर्वलोकफलप्रदम् ।
न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये ॥ २.४७.९१ ॥

भवत्यभीप्सितं किञ्चिद्दर्ल्लभं भुवनत्रये ।
सङ्क्षेपेण मयाख्यातं व्रतं हैहयभूभुजः ।
जामदग्न्यस्य च मुने किमन्यत्कथयामि ते ॥ २.४७.९२ ॥

जैमिनिरुवाच
ततः स सगरो राजा कृताञ्जलिपुटो मुनिम् ॥ २.४७.९३ ॥

उवाच भगवन्नेतत्कर्तुमिच्छाम्यहं व्रतम् ।
सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे ॥ २.४७.९४ ॥

कर्मणानेन विप्रर्षे कृतार्थोऽस्मि न संशयः ।
इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः ॥ २.४७.९५ ॥

दीक्षयामास राजानं शस्त्रोक्तेनैव वर्त्मना ।
स दीक्षितो वसिष्ठेन सगरो राजसत्तमः ॥ २.४७.९६ ॥

द्रव्याण्यानीय विधिवत्प्रचचार शुभव्रतम् ।
पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः ॥ २.४७.९७ ॥

समाप्य च यथायोग्यमनुज्ञाय गुरुं ततः ।
प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम् ॥ २.४७.९८ ॥

आजीवान्तं धरिष्यामि यत्नेनेति महामतिः ।
अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः ॥ २.४७.९९ ॥