विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
ततः कदाचिद्विपिने चतुरङ्गबलान्वितः ।
मृगयामगमच्छूरः शूरसेनादिभिः सह ॥ २.४५.१ ॥
मूलम्

ते प्रविश्य महारण्यं हत्वा बहुविधान्मृगान् ।
जग्मुस्तृषार्त्ता मध्याह्ने सरितं नर्मदामनु ॥ २.४५.२ ॥

तत्र स्नात्वा च पीत्वा च वारि नद्या गतश्रमाः ।
गच्छन्तो ददृशुर्मार्गो जमदग्नेरथाश्रमम् ॥ २.४५.३ ॥

द्दष्ट्वाश्रमपदं रम्यं मुनीनागच्छतः पथि ।
कस्येदमिति पप्रच्छुर्भाविकर्मप्रचोदिताः ॥ २.४५.४ ॥

ते प्रोचुरतिशान्तात्मा जमदग्नेर्महातपाः ।
वसत्यस्मिन्सुतो यस्य रामः शस्त्रभृतां वरः ॥ २.४५.५ ॥

तछ्रुत्वा भीरभूत्तेषां रामनामानुकीर्त्तनात् ।
क्रोधं प्रसङ्यानृशंस्यं पूर्ववैरमनुस्मरन् ॥ २.४५.६ ॥

अथ ते प्रोचुरन्योन्यं पितृहन्तुर्वधात्पितुः ।
वैर निर्यातनं किं तु करिष्यामो दिशाधुना ॥ २.४५.७ ॥

इत्यक्त्वा खड्गहस्तास्ते सम्प्रविश्य तदाश्रमम् ।
प्रजाघ्निरे प्रयातेषु मुनिवीरेषु सर्वतः ॥ २.४५.८ ॥

तं हत्वास्य शिरो हृत्वा निषादा इव निर्दयाः ।
प्रययुस्ते दुरात्मानः सबलाः स्वपुरीं प्रति ॥ २.४५.९ ॥

पुत्रास्तस्य महात्मानौ दृष्ट्वा स्वपितरं हतम् ।
परिवार्य महाराज रुरुदुः शोककर्शिताः ॥ २.४५.१० ॥

भर्त्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका ।
पपात मूर्च्छिता सद्यो लतेवाशनिताडिता ॥ २.४५.११ ॥

सा स्वचेतसि सम्मूच्छ्य शोकपावकदीपिताः ।
दूरप्रनष्टसञ्ज्ञेव सद्यः प्राणैर्व्ययुज्यत ॥ २.४५.१२ ॥

अनालपन्त्यां तस्यां तु सञ्ज्ञां याता हि ते पुनः ।
न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे ॥ २.४५.१३ ॥

ततस्तपोधना येऽन्ये तत्त पोवनवासिनः ।
समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने ॥ २.४५.१४ ॥

सान्त्व्यमाना मुनिगणैर्जामदग्न्या यथाविधि ।
आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे ॥ २.४५.१५ ॥

चक्रुरेव तदूर्द्ध्वं वै यत्कर्त्तव्यमनन्तरम् ।
पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम् ॥ २.४५.१६ ॥

ततः काले गते रामः समानां द्वादशावधौ ।
निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः ॥ २.४५.१७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे सगरोपाख्याने
भार्गवचरिते पञ्चचत्वारिंशत्तमोध्यायः ॥ ४५॥