विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
एवं सुस्निग्धचित्तेषु तेषु तिष्ठत्सु भूपते ।
भवान्युत्सङ्गतो रामः समुत्थाय कृताजलिः ॥ २.४३.१ ॥
मूलम्

तुष्टाव प्रयतो भूत्वा निर्विशेष विशेषवत् ।
अद्वयं द्वैतमापन्नं निर्गुणं सगुणात्मकम् ॥ २.४३.२ ॥

राम उवाच
प्रकृतिविकृतिजातं विश्वमेतद्विधातुं मम कियदनुभातं वैभवं तत्प्रमातुम् ।
अविदिततनुनामाभीष्टवस्त्वेकधामाभवदथ भव भामा पातु मां पूर्णकामा ॥ २.४३.३ ॥

प्रकटितगुणाभानं कालसङ्ख्याविधानं सकलभवनिदानं कीर्त्यते यत्प्रधानम् ।
तदिह निखिलतातः सम्बभूवोक्षपातः कृतकृतकनिपातः पातु मामद्य मातः ॥ २.४३.४ ॥

दनुजकुलविनाशीलेखपाताविनाशी प्रथमकुलविकाशी सर्वविद्याप्रकाशी ।
प्रसभरचितकाशी भक्तदत्ताखिलाशीरवतु विजितपाशी मांसदा षण्मुखाशी ॥ २.४३.५ ॥

हरनिकट निवासी कृष्णसेवाविलासी प्रणतजनविभासी गोपकन्याप्रहासी ।
हरकृतबहुमानो गोपिकेशैकतानो विदितबहुविधानो जायतां कीर्तिहा नौ ॥ २.४३.६ ॥

प्रभुनियतमाना यो नुन्नभक्तान्तरायो त्दृतदुरितनिकायो ज्ञानदातापरायोः ।
सकलगुणगरिष्ठो राधिकाङ्केनिविष्टो मम कृतमपराधं क्षन्तुमर्हत्वगाधम् ॥ २.४३.७ ॥

या राधा जगदुद्भवस्थितिलयेष्वाराध्यते वा जनैः शब्दं बोधयतीशवक्त्रंविगलत्प्रेमामृतास्वादनम् ।
रासेशी रसिकेश्वरी रमणत्दृन्निष्ठानिजानन्दिनी नेत्री सा परिपातु मामवनतं राधेति य कीर्त्यते ॥ २.४३.८ ॥

यस्या गर्भसमुद्भवो ह्यतिविराड्यस्यांशभूतो विराट्यन्नाभ्यम्बुरुहोद्भवेन विधिनैकान्तोपदिष्टेन वै सृष्टं सर्वमिदं चराचरमयं विश्वं च यद्रोमसु ब्रह्माण्डानि विभान्ति तस्य जननी शश्वत्प्रसन्नास्तु सा ॥ २.४३.९ ॥
विश्वास-प्रस्तुतिः
पायाद्यः स चराचरस्य जगतो व्यापी विभुः सच्चिदानन्दाब्धिः प्रकटस्थितो विलसति प्रेमान्धया राधया ।
कृष्णः पूर्णतमो ममोपरि दयाक्लिन्नान्तरः स्तात्सदा येनाहं सुकृती भवामि च भवाम्यानन्दलीनान्तरः ॥ २.४३.१० ॥

स्तुत्वैवं जामदग्न्यस्तु विरराम ह तत्परम् ।
विज्ञाताखिलतत्त्वार्थो हृष्टरोमा कृतार्थवत् ॥ २.४३.११ ॥

अथोवाच प्रसन्नात्मा कृष्णः कमललोचनः ।
भार्गवं प्रणतं भक्त्या कृपापात्रं पुरस्थितम् ॥ २.४३.१२ ॥

कृष्म उवाच
सिद्धोऽसि भार्गवेन्द्र त्वं प्रसादान्मम सम्प्रतम् ।
अद्य प्रभृति वत्सास्मिंल्लोके श्रेष्ठतमो भव ॥ २.४३.१३ ॥

तुभ्यं वरो मया दत्तः पुरा विष्णुपदाश्रमे ।
तत्सर्वं क्रमतो भाव्यं समा बह्वीस्त्वया विभो ॥ २.४३.१४ ॥

दया विधेया दीनेषु श्रेय उत्तममिच्छता ।
योगश्च सादनीयो वै शत्रूणां निग्रहस्तथा ॥ २.४३.१५ ॥

त्वत्समो नास्ति लोकेऽस्मिंस्तेजसा च बलेन च ।
ज्ञानेन यशसा वापि सर्वश्रेष्ठतमो भवान् ॥ २.४३.१६ ॥

अथ स्वगृहमासाद्य पित्रोः शुश्रूषणं कुरु ।
तपश्चर यथाकालं तेन सिद्धिः करस्थिता ॥ २.४३.१७ ॥

राधोत्सङ्गात्समुत्थाप्य गणेशं राधिकेश्वरः ।
आलिङ्ग्य गाढं रासेण मैत्रीं तस्य चकार ह ॥ २.४३.१८ ॥

अथोभावपि सम्प्रीतौ तदा रामगणेश्वरौ ।
कृष्णाज्ञया महाभागौ बभूवतुररिन्दम ॥ २.४३.१९ ॥

एतस्मिन्नन्तरे देवी राधा कृष्णप्रिया सती ।
उभाभ्यां च वरं प्रादात्प्रसन्नास्या मुदान्विता ॥ २.४३.२० ॥

राधोवाच ।
सर्वस्य जगतो वन्द्यौ दुराधर्षौं प्रियावहौ ।
मद्भक्तौ च विशेषेण भवन्तौ भवतां सुतौ ॥ २.४३.२१ ॥

भवतोर्नाम चौच्चार्य यत्कार्यं यः समारभेत् ।
सिद्धिं प्रयातु ततसर्वं मत्प्रसादाद्धि तस्य तु ॥ २.४३.२२ ॥

अथोवाच जगन्माता भवानी भववल्लभा ।
वत्स राम प्रसन्नाहं तुभ्यं कं प्रददे वरम् ।
तं प्रब्रूहि महाभाग भयं त्यक्त्वा सुदूरतः ।
राम उवाच
जन्मान्त रसहस्रेषु येषुयेषु व्रजाम्यहम् ॥ २.४३.२३ ॥

कृष्णयोर्भवयोर्भक्तो भविष्यामीति देहि मे ।
अभेदेन च पश्यामि कृष्णौ चापि भवौ तथा ॥ २.४३.२४ ॥

पार्वत्युवाच
एवमस्तु महाभाग भक्तोऽसि भवकृष्णयोः ।
चिरञ्जीवी भवाशु त्वं प्रसादान्मम सुव्रत ॥ २.४३.२५ ॥

अथोवाच धराधीशः प्रसन्नस्तमुमापतिः ।
प्रणतं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः ॥ २.४३.२६ ॥

शिव उवाच
रामभक्तोऽसि मे वत्स यस्ते दत्तो वरो मया ।
स भविष्यति कार्त्स्येन सत्यमुक्तं न चान्यथा ॥ २.४३.२७ ॥

अद्यप्रभृति लोकेऽस्मिन् भवतो बलवत्तरः ।
न कोऽपि भवताद्वत्स तेजस्वी च भवत्परः ॥ २.४३.२८ ॥

अथ कृष्णोऽप्यनुज्ञाप्य शिवं च नगनन्दिनीम् ।
गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया ॥ २.४३.२९ ॥

अथ रामोऽपि धर्मात्मा भवानीं च भवं तथा ।
सम्पूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत् ॥ २.४३.३० ॥

गणेशं कार्त्तिकेयं च नत्वापृच्छ्य च भूपते ।
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात् ॥ २.४३.३१ ॥

निष्क्रम्यमाणो रामस्तु नन्दीश्वरमुखैर्गणैः ।
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा ॥ २.४३.३२ ॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥