०४२

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच
एवं सम्भ्रामितो रामो गणाधीशेन भूपते ।
हर्षशोकसमाविष्टो विचिन्त्यात्मपराभवम् ॥ २.४२.१ ॥

मूलम्

गणेशं चाभितो वीक्ष्य निर्विकारमवस्थितम् ।
क्रोधाविष्टो भृशं भूत्वा प्राक्षिपत्स्वपरश्वधम् ॥ २.४२.२ ॥

गणेशस्त्वभिवीक्ष्याथ पित्रा दत्तं परश्वधम् ।
अमोघं कर्त्तुकामस्तु वामे तं दशनेऽग्रहीत् ॥ २.४२.३ ॥

स तु दन्तः कुठारेण विच्छिन्नो भूतलेऽपतत् ।
भुवि शोणितसन्दिग्धो वज्राहत इवाचलः ॥ २.४२.४ ॥

दन्तपातेन विद्वस्ता साब्धिद्वीपधरा धरा ।
चकम्पे पृथिवीपाल लोकास्त्रासमुपागताः ॥ २.४२.५ ॥

हाहाकारो महानासी द्देवानां दिवि पश्यताम् ।
कार्त्तिकेयादयस्तत्र चुक्रुशुर्भृशमातुराः ॥ २.४२.६ ॥

अथ कोलाहलं श्रुत्वा दन्तपातध्वनिं तथा ।
पार्वतीशङ्करौ तत्र समाजग्मतुरीश्वरौ ॥ २.४२.७ ॥

हेरम्बं पुरतो दृष्ट्वा वक्रतुण्डैकदन्तिनम् ।
पप्रच्छ स्कन्दं पार्वती किमेतदिति कारणम् ॥ २.४२.८ ॥

स तु पृष्टस्तदा मात्रा सेनानीः सर्वमादितः ।
वृत्तान्तं कथयामास मात्रे रामस्य शृण्वतः ॥ २.४२.९ ॥

सा श्रुत्वोदन्तमखिलं जगतां जननी नृप ।
उवाच शङ्करं रुष्टा पार्वती प्राणनायकम् ॥ २.४२.१० ॥

पार्वत्युवाच
अयं ते भार्गवः शम्भो शिष्यः पुत्रः समोऽभवत् ।
त्वत्तोलब्ध्वा परं तेजो वर्म त्रैलोक्यजिद्विभो ॥ २.४२.११ ॥

कार्त्तवीर्यार्जुनं सङ्ख्ये जितवानूर्जितं नृपम् ।
स्वकार्यं साधयित्वा तु प्रादात्तुभ्यं च दक्षिणाम् ॥ २.४२.१२ ॥

यत्ते सुतस्य दशन कुठारेण न्यपातयत् ।
अनेनैव कृतार्थस्त्वं भविष्यसि न संशयः ॥ २.४२.१३ ॥

त्वमिमं भार्गवं शम्भो रक्षान्तेवासिसत्तमम् ।
तव कार्याणि सर्वाणि साधयिष्यति सद्गुरोः ॥ २.४२.१४ ॥

अह नैवात्र तिष्ठामि यत्त्वया विमता विभो ।
पुत्राभ्यां सहिता यास्ये पितुः स्वस्य निकेतनम् ॥ २.४२.१५ ॥

सन्तो भुजिष्यातनयं सत्कुर्वन्त्यात्मपुत्रवत् ।
भवता तु कृतोनैव सत्कारो वचसापि हि ॥ २.४२.१६ ॥

आत्मनस्तनयस्यास्य ततो यास्यामि दुःखिता ।
वसिष्ठ उवाच
एतच्छ्रुत्वा तु वचनं पार्वत्या भगवान्भवः ॥ २.४२.१७ ॥

नोवाच किञ्चिद्वचनं साधु वासाधु भूपते ।
सस्मार मनसा कृष्णं प्रणतक्लेशनाशनम् ॥ २.४२.१८ ॥

गोलोकनाथं गोपीशं नानानुनयकोविदम् ।
स्मृतमात्रोऽथ भगवान् केशवः प्रणतार्त्तिहा ।
आजगाम दयासिन्धुर्भक्तवश्योऽखिलेश्वरः ॥ २.४२.१९ ॥

मेघश्यामो विशदवदनो रत्नकेयूरहारो विद्युद्वासा मकरसदृशे कुण्डले सन्दधानः ।
बर्हापीडं मणिगणयुतं बिभ्रदीषत्स्मितास्यो गोपीनाथो गदितसुयशाः कौस्तुभोद्भासिवक्षाः ॥ २.४२.२० ॥

राधया सहितः श्रीमान् श्रीदाम्ना चापराजितः ॥ २.४२.२१ ॥

विश्वास-प्रस्तुतिः

मुष्णंस्तेजांसि सर्वेषां स्वरुचा ज्ञानवारिधिः ।
अथैनमागतं दृष्ट्वा शिवः संहृष्टमानसः ॥ २.४२.२२ ॥

प्रणिपत्य यथान्यायं पूजयामास चागतम् ।
प्रवेश्याभ्यन्तरे वेश्मराधया सहितं विभुम् ॥ २.४२.२३ ॥

रत्नसिंहासने नम्ये सदारं स न्यवेशयत् ।
थ तत्र गता देवी पार्वती तनयान्विता ॥ २.४२.२४ ॥

ननाम चरणान्प्रभ्वोः पुत्राभ्यां सहिता मुदा ।
थ रामोऽपि तत्रैव गत्वा नमितकन्धरः ॥ २.४२.२५ ॥

पार्वत्याश्चरणोपान्ते पपाताकुलमानसः ।
सा यदा नाभ्यनन्दत्तं भार्गवं प्रणतं पुरः ॥ २.४२.२६ ॥

तदोवाच जगन्नाथः पार्वतीं प्रीणयन्गिरा ॥ २.४२.२७ ॥

विश्वास-प्रस्तुतिः

श्रीकृष्म उवाच
अयि नगनं दिनि निन्दितचन्द्रमुखि त्वमिमं जमदग्निसुतम् ।
नय निजहस्तसरोजसमर्पितम्स्तकमङ्कमनन्तगुणे ॥ २.४२.२८ ॥

भवभयहारिणि शम्भुविहारिणि कल्मषनाशिनि कुम्भिगते ।
तव चरणे पतितं सततं कृतकिल्बिषमप्यव देहि वरम् ॥ २.४२.२९ ॥

श्रुणु देवि महाभागे वेदोक्तं वचनं मम ।
यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः ।
विनायकस्ते तनयो महात्मा महतां महान् ॥ २.४२.३० ॥

यं कामः क्रोध उद्वेगो भयं नाविशते कदा ।
वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ २.४२.३१ ॥

नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः ।
यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ २.४२.३२ ॥

प्रमथानां गणा ये च नानारूपा महाबलाः ।
तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ २.४२.३३ ॥

भूतानि च भविष्याणि वर्त्तमानानि यानि च ।
ब्रह्माण्डान्यखिलान्येव यस्मिंल्लम्बोदरः स तु ॥ २.४२.३४ ॥

यः स्थिरो देवयोगेन च्छिन्नं संयोजितं पुनः ।
गजस्य शिरसा देवितेन प्रोक्तो गजाननः ॥ २.४२.३५ ॥

चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः ।
अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ २.४२.३६ ॥

शप्तः पुरा सप्तभिस्तु मुनिभिः सङ्क्षयं गतः ।
जातवेदा दीपितोऽभूद्येनासौशूर्पकर्मकः ॥ २.४२.३७ ॥

पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः ।
विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ २.४२.३८ ॥

अद्यायं देवि रामेण कुठारेण निपात्य च ।
दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ २.४२.३९ ॥

भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभे ।
वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ २.४२.४० ॥

एवं तवास्य पुत्रस्य सन्ति नामानि पार्वति ।
स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ २.४२.४१ ॥

अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे ।
मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ २.४२.४२ ॥

जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च ।
यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ २.४२.४३ ॥

सङ्कष्टे काम्यसिद्ध्यर्थं पूजयेद्यो गजाननम् ।
तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः ॥ २.४२.४४ ॥

इत्युक्तं तु समाकर्ण्य कृष्णेन सुमहात्मना ।
पार्वती जगतां नाथा विस्मितासीच्छुभानना ॥ २.४२.४५ ॥

यदा नैवोत्तरं प्रादात्पार्वती शिवसन्निधौ ।
तदा राधाब्रवीद्देवीं शिवरूपा सनातनी ॥ २.४२.४६ ॥

श्रीराधोवाच ।
प्रकृतिः पुरुषश्चोभावन्योन्याश्रयविग्रहौ ।
द्विधा भिन्नौ प्रकाशेते प्रपञ्चेऽस्मिन् यथा तथा ॥ २.४२.४७ ॥

त्वं चाहमावयोर्देवि भेदो नैवास्ति कश्चन ।
विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः ॥ २.४२.४८ ॥

शिवस्य हृदये विष्णुर्भवत्या रूपमास्थितः ।
मम रूपं समास्थाय विष्णोश्च हृदये शिवः ॥ २.४२.४९ ॥

एष रामो महाभागे वैष्णवः शैवतां गतः ।
गणेशोऽयं शिवः साक्षाद्वैष्णवत्वं समास्थितः ॥ २.४२.५० ॥

एतयोरोवयोः प्रभवोश्चापि भेदो न दृश्यते ।
एवामुक्त्वा तु सा राधा क्रोडे कृत्वा गजाननम् ॥ २.४२.५१ ॥

मूर्ध्न्युपाघ्राय पस्पर्श स्वहस्तेन कपोलके ।
स्पृष्टमात्रे कपोले तु क्षतं पूर्त्तिमुदागतम् ॥ २.४२.५२ ॥

पार्वती मुप्रसन्नाभूदनुनीताथ राधया ।
पादयोः पतितं राममुत्थाप्य निजपाणिना ॥ २.४२.५३ ॥

क्रोडीचकार सुप्रीता मूर्ध्न्यु पाघ्राय पार्वती ।
एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः ॥ २.४२.५४ ॥

कृष्णः स्कन्दमुपाकृष्य स्वाङ्के प्रेम्णा न्यवेशयत् ।
अथ शम्भुरपि प्रीतः श्रीदामानं पस्थितम् ॥ २.४२.५५ ॥

स्वोत्सङ्गे स्थापयामास प्रेम्णा मत्कृत्य मानदः ॥ २.४२.५६ ॥

विश्वास-प्रस्तुतिः

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२॥