०३८

विश्वास-प्रस्तुतिः

वसिष्ठ उवाच
अन्तर्द्धानं गते कृष्णे रामस्तु सुमहायशाः ।
समुद्रिक्तमथात्मानं मेने कृष्णानुभावतः ॥ २.३८.१ ॥

मूलम्

अकृतव्रणसंयुक्तः प्रदीप्ताग्निरिव ज्वलन् ।
समायातो भार्गवोऽसीपुरीं महिष्मतीं प्रति ॥ २.३८.२ ॥

यत्र पापहरा पुण्या नर्मदा सरितां वरा ।
पुनाति दर्शनादेव प्राणिनः पापिनो ह्यपि ॥ २.३८.३ ॥

पुरा त्रय हरेणापि निविष्टेन महात्मना ।
त्रिपुरस्य विनाशाय कृतो यत्नो महीपते ॥ २.३८.४ ॥

तत्र किं वर्ण्यते पुण्यं नृणां देवस्वरूपिणाम् ।
सदृष्ट्वा नर्मदां भूप भर्गवः कुलनन्दनः ॥ २.३८.५ ॥

नमश्चकार सुप्रीतः शत्रुसाधनतत्परः ।
नमोऽस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे ॥ २.३८.६ ॥

क्षिप्रं नाशय शत्रून्मे वरदा भव शोभने ।
इत्येवं स नमस्कृत्य नर्मदां पापनाशिनीम् ॥ २.३८.७ ॥

दूतं प्रस्थापयामास कार्त्तवीर्यार्जुनं प्रति ।
दूत राजात्वया वाच्यो यदहं वच्मि तेऽनघ ॥ २.३८.८ ॥

न सन्देहस्त्वया कार्यो दूतः क्वापि न बध्यते ।
यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः ॥ २.३८.९ ॥

तिरस्त्वं कृतवान्मूढ तत्पुत्रो योद्धुमागतः ।
शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत् ॥ २.३८.१० ॥

भार्गवं त्वं समासाद्य गच्छ लोकान्तरं त्वरा ।
इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा ॥ २.३८.११ ॥

शीघ्रमागच्छ भद्रं ते विलम्बो नेह शस्यते ।
तेनैवमुक्तो दूतस्तु गतो हैहयभूपतिम् ॥ २.३८.१२ ॥

रामोदितं तत्सकलं श्रावयामास संसदि ।
स राजात्रेयभक्तस्तु महाबलपराक्रमः ॥ २.३८.१३ ॥

चुक्रोध श्रुत्वा वाच्यं तद्दूतमुत्तरमावहत् ।
कार्त्तवीर्य उवाच
मया भुजबलेनैव दत्तदत्तेन मेदिनी ॥ २.३८.१४ ॥

जिता प्रसह्य भूपालान्बद्ध्वानीय निजं पुरम् ।
तद्बलं मयि वर्त्तेत युद्धं दास्ये तवाधुना ॥ २.३८.१५ ॥

इत्युत्क्वा विससर्ज्जाशु दूतं हैहयभूपतिः ।
सेनाध्यक्षं समाहूय प्रोवाच वदतां वरः ॥ २.३८.१६ ॥

सज्जं कुरु महाभाग सैन्यं मे वीरसम्मतः ।
योत्स्ये रामेण भृगुणा विलम्बो मा भवत्विति ॥ २.३८.१७ ॥

एवमुक्तो महावीरः सेनाध्यक्षः प्रतापनः ।
सैन्यं सज्जं विधायाशु चतुरङ्ग न्यवेदयत् ॥ २.३८.१८ ॥

सैन्यं सज्जं समाकर्ण्य कार्त्तवीर्यो नृपो मुदा ।
सूतोपनीतं स्वरथमारुरोह विशाम्पते ॥ २.३८.१९ ॥

तस्य राज्ञः समन्तात्तु सामन्ता मण्डलेश्वराः ।
अनेकाक्षौहिणीयुक्ताः परिवार्योपतस्थिरे ॥ २.३८.२० ॥

नागास्तु कोटिशस्तत्र हयस्यन्दनपत्तयः ।
असङ्ख्याता महाराज सैन्ये सागरसन्निभे ॥ २.३८.२१ ॥

दृश्यन्ते तत्र भूपाला नानावंशसमुद्भवाः ।
महावीरा महाकाया नानायुद्धविशारदाः ॥ २.३८.२२ ॥

नानाशस्त्रास्त्रकुशला नानावाहगता नृपाः ।
नानालङ्कारसंयुक्ता मत्ता दानविभूषिताः ॥ २.३८.२३ ॥

महामात्रकृतेद्देशा भान्ति नागा ह्यनेकशः ।
नानाज्ञातिसमुत्पन्ना हयाः पवनरंहसः ॥ २.३८.२४ ॥

प्लवन्तो भान्ति भूपाल सादिभिः कृतशिक्षणाः ।
स्यन्दनानि सुदीर्घाणि जवनाश्वयुतानि च ॥ २.३८.२५ ॥

चक्रनिर्घोषयुक्तानि प्रावृण्मेघोपमानि च ।
पदातयस्तु राजन्ते खड्गचर्मधरा नृप ॥ २.३८.२६ ॥

अहम्पूर्वमहम्पूर्वमित्यहम्पूर्वकान्विताः ।
यदा प्रचलितं सैन्यं कार्त्तवीर्यार्जुनस्य वै ॥ २.३८.२७ ॥

तदा प्राच्छादितं व्योम रजसा च दिशो दश ।
नानावादित्रनिर्घोषैर्हयानां ह्रेषितैस्तथा ॥ २.३८.२८ ॥

गजानां बृंहितै राजन्व्याप्तं गगनमण्डलम् ।
मार्गे ददर्श राजेन्द्रो विपरीतानि भूपते ॥ २.३८.२९ ॥

शकुनानि रणे तस्य मृत्युदौत्यकराणि च ।
मुक्तकेशां छिन्ननासां रुदतीं च दिगम्बराम् ॥ २.३८.३० ॥

कृष्णवस्त्रपरीधानां वनितां स ददर्श ह ।
कुचैलं पतितं भग्नं नग्नं काषायवाससम् ॥ २.३८.३१ ॥

अङ्गहीनं ददर्शासौ नरं दुःशितमानसम् ।
गोधां च शशकं शल्यं रिक्तकुम्भं सरीमृपम् ॥ २.३८.३२ ॥

कार्पासं कच्छपं तैलं लवणं चास्थिखण्डकम् ।
स्वदक्षिणे शृगालं च कुर्वन्तं भैर्वं रवम् ॥ २.३८.३३ ॥

रोगिणं पुंल्कसं चैव वृषं च श्येनभल्लुकौ ।
दृष्ट्वापि प्रययौ योद्धुं कालपाशावृतो हझात् ॥ २.३८.३४ ॥

नर्मदोत्तरतीरस्थो ह्यकृतव्रणसंयुतः ।
वटच्छायासमासीनो रामोऽपश्यदुपागतम् ॥ २.३८.३५ ॥

कार्त्तवीर्यं नृपवरं शतकोटिनृपान्वितम् ।
सहस्राक्षौहिणीयुक्तं दृष्ट्वा बभूव ह ॥ २.३८.३६ ॥

अद्य मे सिद्धिमायातं कार्यं चिरसमीहितम् ।
यद्दृष्टिगोचरो जातः कार्तवीर्यो नृपाधमः ॥ २.३८.३७ ॥

इत्येवमुक्त्वा चोत्थाय धृत्वा परशुमायुधम् ।
व्यञ्जृभतारिनाशायसिंहः क्रुद्धो यथा तथा ॥ २.३८.३८ ॥

दृष्ट्वा समुद्यतं रामं सैनिकानां वधाय च ।
चकम्पिरे भृशं सर्वे मृत्योरिव शरीरिणः ॥ २.३८.३९ ॥

स यत्र यत्रानिलरंहसं भृगुश्चिक्षेप रोषेण युतः परश्वधम् ।
ततस्ततश्छिन्नभुजोरुकङ्घरा नागा हयाः शूरनरा निपेतुः ॥ २.३८.४० ॥

यथा गजेन्द्रो मदयुक्समन्ततो नालं वनं भर्द्दयति प्रधावन् ।
तथैव रामोऽपि मनोनिलौजा विमर्द्दयामास नृपस्य सेनाम् ॥ २.३८.४१ ॥

दृष्ट्वा तमित्थं प्रहरन्तमोजसा रामं रणे शस्त्रभृतां वरिष्ठम् ।
उद्यम्य चापं महदास्थितो रथं सृज्यं च कृत्वा किलमन्स्यराजः ॥ २.३८.४२ ॥

आकृष्य वाणाननलोग्रतेजसः समाकिरन्भार्गवमाससाद ।
दृष्ट्वा तमायान्तमथो महात्मा रामो गृहीत्वा धनुषं महोग्रम् ॥ २.३८.४३ ॥

वायव्यमस्त्रं विदधे रुषाप्लुतो निवारयन्मङ्गलबाणवर्षम् ।
स चापि राजातिबलो मनस्वी ससर्ज रामाय तु पर्वतास्त्रम् ॥ २.३८.४४ ॥

तस्तम्भ तेनातिबलं तदस्त्रं वायव्यमिष्वस्त्रविधानदक्षः ।
रामोऽपि तत्रातिबलं विदित्वा तं मत्स्यराजं विविधास्त्रपूगैः ॥ २.३८.४५ ॥

किरन्तमाजौ प्रसभं सुमोच नारायणास्त्रं विधिमन्त्रयुक्तम् ।
नारायणास्त्रे भृगुणा प्रयुक्ते रामेण राजन्नृपतेर्वधाय ॥ २.३८.४६ ॥

दिशस्तु सर्वाः सुभृशं हि तेजसा प्रजज्वलुर्मत्स्यपतिश्चकम्पे ।
रामस्तु तस्याथ विलक्ष्य कम्पं बाणैश्चतुर्भिर्निजघान वाहान् ॥ २.३८.४७ ॥

शरेण चैकेन ध्वजं महात्मा चिच्छेद चापं च शरद्वयेन ।
बाणेन चैकेन प्रसह्य सारथिं निपात्य भूमौ रथमार्द्दयत्त्रिभिः ॥ २.३८.४८ ॥

त्यक्त्वा रथं भूमिगतं च मङ्गलं परश्वधेनाशु जघान मूर्द्धनि ।
स भिन्नशीर्षो रुधिरं वमन्मुहुर्मर्च्छामवाप्याथ ममार च क्षणात् ॥ २.३८.४९ ॥

तत्सैन्यमस्त्रेण च सम्प्रदग्धं विनाशमायादथ भस्मसात्क्षणात् ।
तस्मिन्निपतिते राज्ञि चन्द्रवंशसमुद्भवे ॥ २.३८.५० ॥

मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः ॥ २.३८.५१ ॥

विश्वास-प्रस्तुतिः

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यम भागे तृतीय
उपोद्धातपादे भार्गवचरिते अष्टात्रिंशत्तमोऽध्यायः ॥ ३८॥