०३५

विश्वास-प्रस्तुतिः

सगर उवाच
मुने परमतत्त्वज्ञध्यानज्ञानार्थकोविद ।
भगवद्भक्तिसंलीनमानसानुग्रहः कुतः ॥ २.३५.१ ॥

मूलम्

त्वयापि हि महाभाग यतः शंससि सत्कथाः ।
श्रुत्वा मृगमुखात्सर्वं भार्गवस्य विचेष्टितम् ॥ २.३५.२ ॥

भूतं भवद्भविष्यं च नारायणकथान्वितम् ।
पुनः प्रपच्छ किं नाथ तन्मे वद सविस्तरम् ॥ २.३५.३ ॥

वसिष्ठ उवाच
शृणु राजन्प्रवक्ष्यामि मृगस्य चरितं महत् ।
यथा पृष्टं तया सोऽस्यै वर्णयामास तत्त्ववित् ॥ २.३५.४ ॥

श्रुत्वा तु चरितं तस्य भार्गवस्य महात्मनः ।
भूयः प्रपच्छ तं कान्तं ज्ञानतत्त्वार्थमादरात् ॥ २.३५.५ ॥

मृग्युवाच
साधुसाधु महाभाग कृतार्थस्त्वं न संशयः ।
यदस्य दर्शनात्तेऽद्य जातं ज्ञानमतीद्रियम् ॥ २.३५.६ ॥

अथातश्चात्मनः सर्वं ममापि वद कारणम् ।
कर्मणा येन सम्प्राप्तावावां तिर्यग्जनिं प्रभो ॥ २.३५.७ ॥

इति वाक्यं समाकर्ण्य प्रियायाः स मृगः स्वयम् ।
वर्णयामास चरितं मृग्यश्चैवात्मनस्तदा ॥ २.३५.८ ॥

मृग उवाच
शृणु प्रिये महाभागे यथाऽवां मृगतां गतौ ।
संसारेऽस्मिन्नमहाभागे भावोऽस्य भवकारणम् ॥ २.३५.९ ॥

जीवस्य सदसभ्द्यां हि कर्मभ्यामागतः स्मृतिम् ।
पुरा द्रविडदेशे तु नानाऋद्धिसमाकुले ॥ २.३५.१० ॥

ब्राह्मणानां कुले वाहं जातः कौशिकगोत्रिणाम् ।
पिता मे शिवदत्तोऽभून्नाम्ना शास्त्रविशारदः ॥ २.३५.११ ॥

तस्य पुत्रा वयं जाताश्चत्वारो द्विजसत्तमाः ।
ज्येष्ठो रामोऽनुजस्तस्य धमस्तस्यानुजः पृथुः ॥ २.३५.१२ ॥

चतुर्थोऽहं प्रिये जातो सूरिरित्यभिविश्रुतः ।
उपनीय क्रमात्सर्वाञ्छिवदत्तो महायशाः ॥ २.३५.१३ ॥

वेदानध्यापयामास साङ्गांश्च सरहस्यकान् ।
चत्वारोऽपि वयं तत्र वेदाध्ययनतत्पराः ॥ २.३५.१४ ॥

गुरुशुश्रूषणे युक्ता जाता ज्ञानपरायणाः ।
गत्वारण्यं फलान्यम्बुसमित्कुशमृदोऽन्वहम् ॥ २.३५.१५ ॥

आनीय पित्रे दत्त्वाथ कुर्मोऽध्ययनमेव हि ।
एकदा तु वयं सर्वे सम्प्राप्ता पर्वते वने ॥ २.३५.१६ ॥

औद्भिदं नाम लोलक्षि कृतमालातटे स्थितम् ।
सर्वे स्नात्वा महानद्यामुषसि प्रीतमानसाः ॥ २.३५.१७ ॥

दत्तार्घाः कृतजप्याश्च समारूढा नगोत्तमम् ।
शालस्तमालैः प्रियकैः पनसैः कोविदारकैः ॥ २.३५.१८ ॥

सरलार्जुनपूगैश्च खर्जूरैर्नारिकेलकैः ।
जम्बूभिः सहकारैश्च कट्फलैर्बृहतीद्रुमैः ॥ २.३५.१९ ॥

अन्यैर्नानाविधैर्वृक्षैः परार्थप्रतिपादकैः ।
स्निग्धच्छायैः समाहृष्टनानापक्षिनिनादितैः ॥ २.३५.२० ॥

शार्दूल हरिभिर्भल्लैर्गण्डकैर्मृगनाभिभिः ।
गजेन्द्रैः शारभाद्यैश्च सेवितं कन्दरागतैः ॥ २.३५.२१ ॥

मल्लिकापाटलाकुन्दकर्णिकारकदम्बकैः ।
सुगन्धिभिर्वृतं चान्यैर्वातोद्धूतपरागिभिः ॥ २.३५.२२ ॥

नानामणिगणाकीर्णैर्नीलपीतसितारुणैः ।
शृङ्गैः समुल्लिखन्तं च व्योम कौतुकसंयुतम् ॥ २.३५.२३ ॥

अत्युच्चपातध्वनिभिर्निर्झरैः कन्दरोद्गतैः ।
गर्ज्जतमिव संसक्तं व्यालाद्यैर्मृगपक्षिभिः ॥ २.३५.२४ ॥

तत्रातिकौतुकाहृष्टदृष्टयोभ्रातरो वयम् ।
नास्मार्ष्म चात्मनात्मानं वियुक्ताश्च परस्परम् ॥ २.३५.२५ ॥

एतस्मिन्नन्तरे चैका मृगी ह्यगात्पिपासिता ।
निर्झरापात शिरसि पातुकामा जलं प्रिये ॥ २.३५.२६ ॥

तस्याः पिबन्त्यास्तु जलं शार्दूलोऽतिभयङ्करः ।
तत्र प्राप्तो यदृच्छातो जगृहे तां भयर्दिताम् ॥ २.३५.२७ ॥

अहं तद्ग्रहणं पश्यन्भयेन प्रपलायितः ।
अत्युच्चवत्त्वात्पतितो मृतश्चैणीमनुस्मरन् ॥ २.३५.२८ ॥

सा मृता त्वं मृगी जाता मृगस्त्वाहमनुस्मरन् ।
जातो भद्रे न जाने वै क्व गता भ्रातरोऽग्रजाः ॥ २.३५.२९ ॥

एतन्मे स्मृतिमापन्नं चरितं तव चात्मतः ।
भूतं भविष्यं च तथा शृणु भद्रे वदाम्यहम् ॥ २.३५.३० ॥

योऽयं वा पृष्ठसंलग्नो व्याधो दूरस्थितोऽभवत् ।
रामस्यास्य भयात्सोऽपि भक्षितो हरिणाधुना ॥ २.३५.३१ ॥

प्राणांस्त्यक्त्वा विधानेन स्वर्गलोकं गमिष्यति ।
अवाभ्यां तु जलं पीतं मध्यमे पुष्करे त्विह ॥ २.३५.३२ ॥

सन्दृष्टो भार्गवश्चायं साक्षाद्विष्णुस्वरूपधृक् ।
तेनानेकभवोत्पन्नं पातकं नाशमागतम् ॥ २.३५.३३ ॥

अगस्त्यदर्शनं लब्ध्वा श्रुत्वा स्तोत्रं गतिप्रदम् ।
गमिष्यावः शुभांल्लोकान्येषु गत्वा न शोचति ॥ २.३५.३४ ॥

इत्येवमुक्त्वा स मृगः प्रियायै प्रियदर्शनः ।
विरराम प्रसन्नात्मा पश्यन्राममना तुरः ॥ २.३५.३५ ॥

भार्गवः श्रुतवांश्चैव मृगोक्तं शिष्यसंयुतः ।
विस्मितोऽभूच्च राजेन्द्र गन्तुं कृतमतिस्तथा ॥ २.३५.३६ ॥

अकृतव्रणसंयुक्तो ह्यगस्त्यस्याश्रमं प्रति ।
स्नात्वा नित्यक्रियां कृत्वा प्रतस्थे हर्षितो भृशम् ॥ २.३५.३७ ॥

रामेण गच्छता मार्गे दृष्टो व्याधो मृतस्तदा ।
सिंहस्य सम्प्रहारेण विस्मितेन महात्मना ॥ २.३५.३८ ॥

अध्यर्द्धयोजनं गत्वा कनिष्ठं पुष्करं प्रति ।
स्नात्वा माध्याह्निकीं सन्ध्यां चकारातिमुदान्वितः ॥ २.३५.३९ ॥

हितं तदात्मनः प्रोक्तं मृगेण स विचारयन् ।
तावत्तत्पृष्ठसंलग्नं मृगयुग्ममुपागतम् ॥ २.३५.४० ॥

पुष्करे तु जलं पीत्वाभिषिच्यात्मतनुं जलैः ।
पश्यतो भार्गवस्यागादगस्त्याश्रमसम्मुखम् ॥ २.३५.४१ ॥

रामोऽपि सन्ध्यां निर्वर्त्त्य कुम्भजस्याश्रमं ययौ ।
विपद्गतं पुष्करं तु पश्यमानो महामनाः ॥ २.३५.४२ ॥

विष्णोः पदानि नागानां कुण्डं सप्तर्षिसंस्थितम् ।
गत्वोपस्पृश्य शुच्यम्भो जगामागस्त्यसंश्रयम् ॥ २.३५.४३ ॥

यच्च ब्रह्मसुता राजन्समायाता सरस्वती ।
त्रीन्सम्पूरयितुं कुण्डानग्निहोत्रस्य वै विधेः ॥ २.३५.४४ ॥

तत्र तीरे शुभं पुण्यं नानामुनिनिषेवितम् ।
ददर्श महदाश्चर्यं भार्गवः कुम्भजाश्रमम् ॥ २.३५.४५ ॥

मृगैः सिंहैः सहगतैः सेवितं शान्तमानसैः ।
कुटरैरर्जुनैर्निम्बैः पारिभद्रधवेगुदैः ॥ २.३५.४६ ॥

खदिरासनखर्जूरैः सङ्कुलं बदरीद्रुमैः ।
तत्र प्रविश्य वै रामो ह्यकृतव्रणसंयुतः ॥ २.३५.४७ ॥

ददर्श मुनिमासीनं कुम्भजं शान्तमानसम् ।
स्तिमितोदसरः प्रख्यं ध्यायन्तं ब्रह्म शाश्वतम् ॥ २.३५.४८ ॥

कौश्यां वृष्यां मार्गकृत्तिं वसानं पल्लवोटजे ।
ननाम च महाराज स्वाभिधानं समुच्चरन् ॥ २.३५.४९ ॥

रामोऽस्मि जामदग्न्योऽहं भवन्तं द्रष्टुमागतः ।
ताद्विद्धि प्रणिपातेन नमस्ते लोकभावन ॥ २.३५.५० ॥

इत्युक्तवन्तं रामं तु उन्मील्य नयने शनैः ।
दृष्ट्वा स्वागतमुच्चार्य तस्मायासनमादिशत् ॥ २.३५.५१ ॥

मधुपर्कं समानीय शिष्येण मुनिपुङ्गवः ।
ददौ पप्रच्छ कुशलं तपसश्च कुलस्य च ॥ २.३५.५२ ॥

स पृष्टस्तेन वै रामो घटोद्भवमुवाच ह ।
भवत्सन्दर्शनादीश कुशलं मम सर्वतः ॥ २.३५.५३ ॥

किं त्वङ्कं संशयं जातं छिन्धि स्ववचनामृतैः ।
मृगश्चैको मया दृष्टो मध्यमे पुष्करे विभो ॥ २.३५.५४ ॥

तेनोक्तमखिलं वृत्तं मम भूतमनागतम् ।
तच्छ्रुत्वा विस्मयाविष्टो भवच्छरणमागतः ॥ २.३५.५५ ॥

पाहि मां कृपया नाथ साधयन्त महामनुम् ।
शिवेन दत्तं कवचं मम साधयतो गुरो ॥ २.३५.५६ ॥

कृष्णस्य समतीतं तु साधिकं हि शरच्छतम् ।
न च सिद्धिमवाप्तोऽहं तन्मे त्वं कृपया वद ॥ २.३५.५७ ॥

एवं प्रश्नं समाकर्ण्य रामस्य सुमहात्मनः ।
क्षणं ध्यात्वा महाराज मृगोक्तं ज्ञातवान् हृदा ॥ २.३५.५८ ॥

मृगं चापि समायातं मृग्या सह निजाश्रमे ।
श्रोतुं कृष्णामृतं स्तोत्रं सर्वं तत्कारण मुनिः ।
विचार्याश्वासयामास भार्गवः स्ववचोमृतैः ॥ २.३५.५९ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय
उपोद्धातपादे भार्गवचरिते पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५॥