विश्वास-प्रस्तुतिः
सगर उवाच
ब्रह्मपुत्र महाभाग महान्मेऽनुग्रहः कृतः ।
यदिदं कवचं मह्यं प्रकाशितमनामयम् ॥ २.३४.१ ॥
मूलम्

और्वेणानुगृहीतोऽहं कृतास्त्रो यदनुग्रहात् ।
भवतस्तु कृपापात्रं जातोऽहमधुना विभो ॥ २.३४.२ ॥

रामेण भार्गवेन्द्रेण कार्त्तवीर्यो नृपो गुरो ।
यथा समापितो वीरस्तन्मे विस्तरतो वद ॥ २.३४.३ ॥

कृपापात्रं स दत्तस्य राजा रामः शिवस्य च ।
उभौ तौ समरे वीरौ जघटाते कथं गुरो ॥ २.३४.४ ॥

वसिष्ठ उवाच
शृणु राजन्प्रवक्ष्यामि चरितं पापनाशनम् ।
कार्त्तवीर्यस्य भूपस्य रामस्य च महात्मनः ॥ २.३४.५ ॥

स रामः कवचं लब्ध्वा मन्त्रं चैव गुरोर्मुखात् ।
चकार साधनं तस्य भक्त्या परमया युतः ॥ २.३४.६ ॥

भूमिशागी त्रिषवणं स्नानसध्यापरायणः ।
उवासपुष्करे राम शतवर्षमतन्द्रितः ॥ २.३४.७ ॥

समित्पुष्पकुशादीनि द्रव्याण्यहरहर्भृगोः ।
आनीय काननाद्भूप प्रायच्छदकृतव्रणः ॥ २.३४.८ ॥

सततं ध्यानसंयुक्तो रामो मतिमतां वरः ।
आराधयामास विभुं कृष्णं कल्मषनाशनम् ॥ २.३४.९ ॥

तस्यैवं यजमानस्य रामस्य जगतीपते ।
गतं वर्षशतं तत्र ध्यानयुक्तस्य नित्यदा ॥ २.३४.१० ॥

एकदा तु महाराज रामः स्नातुं गतो महान् ।
मध्यमं पुष्करं तत्र ददर्शाश्चर्यमुत्तमम् ॥ २.३४.११ ॥

मृग एकः समायातो मृग्य युक्तः पलायितः ।
व्याधस्य मृगयां प्राप्तो घर्मतप्तोऽतिपीडितः ॥ २.३४.१२ ॥

पिपासितो महाभाग जलपानसमुत्सुकः ।
रामस्य पश्यतस्तत्र सरसस्तटमागतः ॥ २.३४.१३ ॥

पश्चान्मृगी समायाता भीता सा चकितेक्षणा ।
उभो तौ पिबतस्तत्र जलं शङ्कितमानसौ ॥ २.३४.१४ ॥

तावत्समागतो व्याधो बाणपाणिर्धनुर्द्धरः ।
स दृष्ट्वा तत्र संविष्टं रामं भार्गवनन्दनम् ॥ २.३४.१५ ॥

अकृतव्रणसंयुक्तं तस्थौ दूरकृतेक्षणः ।
स चिन्तयामास तदा शङ्कितो भृगुनन्दनात् ॥ २.३४.१६ ॥

अयं रामो महावीरो दुष्टानामन्तकारकः ।
कथमेतस्य हन्म्येतौ पश्यतो मृगयामृगौ ॥ २.३४.१७ ॥

इति चिन्ता समाविष्टो व्याधो राजन्यसत्तम ।
तस्थौ तत्रैव रामस्य भयात्सन्त्रस्तमानसः ॥ २.३४.१८ ॥

रामस्तु तौ मृगों दृष्ट्वा पिबन्तौ सभयं जलम् ।
तर्कयामास मेधावी किमत्र भयकारणम् ॥ २.३४.१९ ॥

नैवात्र व्याघ्रसन्नादो न च व्याधो हि दृश्यते ।
केनैतौ कारणेनाहो शङ्कितौ चकितेक्षणौ ॥ २.३४.२० ॥

अथ वा मृगजातिर्हि निसर्गाच्चकितेक्षणा ।
येनैतौ जलपानेऽपि पश्यतश्चकितेक्षणौ ॥ २.३४.२१ ॥

नैतावत्कारणं चात्र किन्तु खेदभयातुरौ ।
लक्षयेते खिन्नसर्वाङ्गौ कम्पयुक्तौ यतस्त्विमौ ॥ २.३४.२२ ॥

एवं सञ्चिन्त्य मतिमान्स तस्थौ मध्यपुष्करे ।
शिष्येण संयुतो रामो यावत्तौ चापि संस्थितौ ॥ २.३४.२३ ॥

पीत्वा जलं ततस्तौ तु वृक्षच्छायासमाश्रितौ ।
रामं दृष्ट्वा महात्मानं कथां तौ चक्रतुर्मुदा ॥ २.३४.२४ ॥

मृग्युवाच
कान्त चात्रैव तिष्ठावो यावद्रामोऽत्र संस्थितः ।
अस्य वीरस्य सान्निध्ये भयं नैवावयोर्भवेत् ॥ २.३४.२५ ॥

अत्राप्यागत्य चेद्व्याधो ह्यावयोः प्रहरिष्यति ।
दृष्टमात्रो हि मुनिना भस्मीभूतो भविष्यति ॥ २.३४.२६ ॥

इत्युक्ते वचने मृग्या रामदर्शनतुष्टया ।
मृगश्चोवाच हर्षेण समाविष्टः प्रियां स्वकाम् ॥ २.३४.२७ ॥

एवमेव महाभागे यद्वै वदसि भामिनि ।
जानेऽहमपि रामस्य प्रभावं सुमहात्मनः ॥ २.३४.२८ ॥

योऽयं सन्दृश्यते चास्य पार्श्वं शिष्योऽकृतव्रणः ।
सचानेन महाभागस्त्रातो व्याघ्रभयातुरः ॥ २.३४.२९ ॥

अयं रामो महाभागे जमदग्निसुतोऽनुजः ।
पितरं कार्त्तवीर्येण दृष्ट्वा चैव तिरस्कृतम् ॥ २.३४.३० ॥

चकारातितरां क्रुद्धः प्रतिज्ञां नृपघातिनीम् ।
तत्पूर्तिकामो ह्यगमद्ब्रह्मलोकं पुरा ह्ययम् ॥ २.३४.३१ ॥

स ब्रह्मा दिष्टवांश्चैनं शिवलोकं व्रजेति ह ।
तस्य त्वाज्ञां समादाय गतोऽसौ शिवसन्निधिम् ॥ २.३४.३२ ॥

प्रोवाचाखिलवृत्तान्तं राज्ञश्चाप्यात्मनः पितुः ।
स कृपालुर्महादेवः सभाज्य भृगुनन्दनम् ॥ २.३४.३३ ॥

ददौ कृष्णस्य सन्मन्त्रमभेद्यं कवचं तथा ।
स्वीयं पाशुपतं चास्त्रमन्यास्त्रग्राममेव च ॥ २.३४.३४ ॥

विसर्जयामास मुदा दत्त्वा शस्त्राणि चादरात् ।
सोऽयमत्रागतो भद्रे मन्त्रसाधनतत्परः ॥ २.३४.३५ ॥

नित्यं जपति धर्मात्मा कृष्णस्य कवचं सुधीः ।
शतवर्षाणि चाप्यस्य गतानि सुमहात्मनः ॥ २.३४.३६ ॥

मन्त्रं साधयतो भद्रे न च तत्सिद्धिरेति हि ।
अत्रास्ति कारणं भक्तिः सा च वै त्रिविधा मता ॥ २.३४.३७ ॥

उत्तमा मध्यमा चैव कनिष्ठा तरलेक्षणे ।
शिवस्य नारदस्यापि शुकस्य च महात्मनः ॥ २.३४.३८ ॥

अम्बरीषस्य राजर्षे रन्तिदेवस्य मारुतेः ।
बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः ॥ २.३४.३९ ॥

उत्तमा भक्तिरेवास्ति गोपीनामुद्धवस्य च ।
वसिष्ठादिमुनीशानां मन्वादीनां शुभेक्षणे ॥ २.३४.४० ॥

मध्या च भक्तिरेवास्ति प्राकृतान्यजनेषु सा ।
मध्यभक्तिरयं रामो नित्यं यमपरायणः ॥ २.३४.४१ ॥

सेवते गोपिकाधीशं तेन सिद्धिं न चागतः ।
वसिष्ठ उवाच
इत्युक्ता त्वरितं कान्तं सा मृगी हृष्टमानसा ॥ २.३४.४२ ॥

पुनः पप्रच्छ भक्तेस्तु लक्षणं प्रेमदायकम् ।
मृग्युवाच
साधुकान्त महाभाग वचस्तेऽलौकिकं प्रिय ।
ईदृग्ज्ञानं तव कथं सञ्जातं तद्वदाधुना ॥ २.३४.४३ ॥

मृग उवाच
शृणु प्रिये महाभागे ज्ञानं पुण्येन जायते ॥ २.३४.४४ ॥

तत्पुण्यमद्य सञ्जातं भार्गवस्यास्य दर्शनात् ।
पुण्यात्मा भार्गवश्चायं कृष्णाभक्तो जितेन्द्रियः ॥ २.३४.४५ ॥

गुरुशुश्रूषको नित्यं नित्यनैमित्तिकादरः ।
अतोऽस्य दर्शनाज्जातं ज्ञानं मे ऽद्यैव भामिनि ॥ २.३४.४६ ॥

त्रैलोक्यस्थितसत्त्वानां शुभाशुभनिदर्शकम् ।
अद्यैव विदितं मेऽभूद्रामस्यास्य महात्मनः ॥ २.३४.४७ ॥

चरितं पुण्यदं चैव पापघ्नं शृण्वतामिदम् ।
यद्यत्करिष्यते चैव तदपि ज्ञानगोचरम् ॥ २.३४.४८ ॥

योत्तमा भक्तिराख्याता तां विना नैव सिद्ध्यति ।
कवचं मन्त्रसहितं ह्यपि वर्षायुतायुतैः ॥ २.३४.४९ ॥

यद्ययं भार्गवो भद्रे ह्यगस्त्यानुग्रहं लभेत् ।
कृष्णप्रेमामृतं नाम स्तोत्रमुत्तमभक्तिदम् ॥ २.३४.५० ॥

ज्ञात्वा च लप्स्यते सिद्धिं मन्त्रस्य कवचस्य च ।
स मुनिर्ज्ञाततत्त्वार्थः सानुकम्पोऽभयप्रदः ॥ २.३४.५१ ॥

उपदेक्ष्यति चैवैनं तत्त्वज्ञानं मुदावहम् ।
श्रीकृष्णचारितं सर्वं नामभिर्ग्रथितं यतः ॥ २.३४.५२ ॥

कृष्णप्रेमामृतस्तोत्राज्ज्ञास्यतेऽस्य महामतिः ।
ततः संसिद्ध कवचौ राजनं हैहयाधिपम् ॥ २.३४.५३ ॥

हत्वा सपुत्रामात्यं च ससुहृद्बलवाहनम् ।
त्रिः सप्तकृत्वो निर्भूपां करिष्यत्यवनीं प्रिय ॥ २.३४.५४ ॥

एवमुक्त्वा मृगो राजन्विरराम मृगीं ततः ।
आत्मनो मृगभावस्य कारणं ज्ञातवांश्च ह ॥ २.३४.५५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादे भार्गवचरिते चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४॥