विश्वास-प्रस्तुतिः
सगर उवाच
श्रुतं सर्वं मुनिश्रेष्ठ कीर्त्यमानं त्वया विभो ।
कवचं वद सर्वत्र त्रैलोक्यविजयप्रदम् ॥ २.३३.१ ॥
मूलम्

वसिष्ठ उवाच
शृणु वत्स प्रवक्ष्यामि कवचं परमाद्भुतम् ।
मन्त्र च सिद्धिद शश्वत्साधकानां सुखावहम् ॥ २.३३.२ ॥

गोपीजनपदस्यात वल्लभाय समुच्चरेत् ।
स्वाहान्तोऽयं महामन्त्रो दशार्णो भुक्तिमुक्तिदः ॥ २.३३.३ ॥

सदाशिवस्त्वस्य ऋषिः पङ्क्तिश्छन्द उदाहृतम् ।
देवता कृष्ण उदितो विनियोगोऽखिलाप्तये ॥ २.३३.४ ॥

त्रैलोक्यविजयस्याथ कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च जगती देवो राजेश्वरः स्वयम् ॥ २.३३.५ ॥

त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः ।
प्रणवो मेशिरः पातु श्रीकृष्णाय नमः सदा ॥ २.३३.६ ॥

पायात्कपालं कृष्णाय स्वाहेति सततं मम ।
कृष्णेति पातु नेत्रे मे कृष्णस्वाहेति तारकाम् ॥ २.३३.७ ॥

हरये नम इत्येष भ्रूलतां पातु मे सदा ।
ओं गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ॥ २.३३.८ ॥

गोपालाय नमो गण्डं पातु मे सततं मनुः ।
क्लीं कृष्णाय नमः कर्णौं पातु कल्पतरुर्मम ॥ २.३३.९ ॥

श्रीं कृष्णाय नमः पातु नित्यं मेऽधरयुग्मकम् ।
ओं गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु ॥ २.३३.१० ॥

श्रीकृष्णेति रदच्छिद्रं पातुमे त्र्यक्षरो मनुः ।
ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ॥ २.३३.११ ॥

रामेश्वराय स्वाहेति तालुकं पातु मे सदा ।
राधिकेशाय स्वाहेति कण्ठं मे पातु सर्वदा ॥ २.३३.१२ ॥

नमो गोपीगणेशाय ग्रीवां मे पातु सर्वदा ।
ओं गोपेशाय स्वाहेति स्कन्धौ पातु सदा मम ॥ २.३३.१३ ॥

नमः किशोरवेषाय स्वाहा पृष्ठं ममावतु ।
उदरं पातु मे नित्यं मुकुन्दाय नमो मनुः ॥ २.३३.१४ ॥

ह्नीं श्रीङ्क्लीङ्कृष्णाय स्वाहा करौ पातु सदा मम ।
ओं विष्णवे नमः स्वाहा बाहुयुग्मं ममावतु ॥ २.३३.१५ ॥

ओं ह्रीम्भगवते स्वाहा नखपङ्क्तिं ममावतु ।
नमो नारायणायेति नखरन्ध्रं ममावतु ॥ २.३३.१६ ॥

ओं ह्रींश्रीम्पद्मनाभाय नाभिं पातु सदा मम ।
ओं सर्वेशाय स्वाहेति केशान्मम सदावतु ॥ २.३३.१७ ॥

नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदावतु ।
ओं माधवाय स्वाहेति भालं मे सर्वदावतु ॥ २.३३.१८ ॥

ओं ह्रींश्रींरसिकेशाय कटिं मम सदावतु ।
नमो गोपीजनेशाय ऊरू पातु सदा मम ॥ २.३३.१९ ॥

ओं नमो दैत्यनाशाय स्वाहेत्यवतु जानुनी ।
यशोदानन्दनायेति नमोतो जङ्घकेऽवतु ॥ २.३३.२० ॥

रासारम्भप्रियायेति स्वाहान्तो हीं ममावतु ।
वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मेऽवतु ॥ २.३३.२१ ॥

परिबुर्णमनाः कृष्मः प्राच्यां मां सर्वदावतु ।
स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥ २.३३.२२ ॥

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदावतु ।
नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः ॥ २.३३.२३ ॥

गोविन्दः पातु वायव्यामुत्तरे रसिकेश्वरः ।
ऐशान्यां मे सदा पातु वृन्दावनविहार कृत् ॥ २.३३.२४ ॥

वृन्दाप्राणेश्वरः शश्वत्पातु मामूर्द्ध्वदेशतः ।
सदैव मामधः पातु बलिध्वंसी महाबलः ॥ २.३३.२५ ॥

जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ।
स्वप्ने जागरणे चैव पातु मां माधवः स्वयम् ॥ २.३३.२६ ॥

सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः ।
इति ते कथितं भूप सर्वाघौघविनाशनम् ॥ २.३३.२७ ॥

त्रैलोक्यविजयं नाम कवचं परमेशितुः ।
मया श्रुतं शिवमुखात्प्रवक्तव्यं न कस्यचित् ॥ २.३३.२८ ॥

गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ २.३३.२९ ॥

स साधकोऽवसद्यत्र तत्र वाणीरमे स्थिते ।
यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः ॥ २.३३.३० ॥

निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ।
राजसूर्यसहस्राणि वाजपेयशतानि च ॥ २.३३.३१ ॥

महादानानि यान्येव भुवश्चापि प्रदक्षिणा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ २.३३.३२ ॥

व्रतोपवासनियमाः स्वाध्यायाध्ययने तथा ।
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ २.३३.३३ ॥

सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ २.३३.३४ ॥

स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचो विजयी स भवेद्ध्रुवम् ॥ २.३३.३५ ॥

राज्यं देयं शिरो देयं प्राणा देयाश्च भूपते ।
एतत्तु कवचं वत्स न देयं सङ्कटेऽपि च ॥ २.३३.३६ ॥

मया प्रकाशितं यत्ते चैतेषां त्राणकारणात् ।
ममाज्ञाकरणाच्चैव तद्विद्धि कुलभास्कर ।
इदं धृत्वा तु कवचं चक्रवर्त्ती भवान्भव ॥ २.३३.३७ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते त्रयस्त्रिंशत्तमोऽध्यायः