विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
जमदग्निस्ततो भूयस्तमुवाच रुषान्वितः ।
ब्रह्मस्वं नापहर्त्तव्यं पुरुषेण विजानता ॥ २.२९.१ ॥
मूलम्

प्रसह्य गां मे हरतो पापमाप्स्यसि दुर्मते ।
आयुर्जाने परिक्षीणं न चेदेतत्करिष्यति ॥ २.२९.२ ॥

बलादिच्छसि यन्नेतुं तन्न शक्यं कथञ्चन ।
स्वयं वा यदि सायुच्येद्विनशिष्यति पार्थिवः ॥ २.२९.३ ॥

दानं विनापहरणं ब्राह्मणानां तपस्विनाम् ।
शतायुषोर्ऽजुनादन्यः को न्विच्छति जिजीविषुः ॥ २.२९.४ ॥

इत्युक्तस्तेन सङ्क्रुद्धः स मन्त्रीकालचोदितः ।
बद्ध्वा तां गां दृढैः पाशैर्विचकर्ष बलान्वितः ॥ २.२९.५ ॥

जमदग्निरथ क्रोधाद्भाविकर्मप्रचोदितः ।
रुरोध तं यथाशक्ति विकर्षन्तं पायस्विनीम् ॥ २.२९.६ ॥

जीवन्न प्रतिमोक्ष्यामि गामेनामित्यमर्षितः ।
जग्राह सुदृढं कण्ठे वाहुभ्यां तां महामुनिः ॥ २.२९.७ ॥

ततः क्रोधपरीतात्मा चन्द्रगुप्तोऽतिनिर्घृणः ।
उत्सारयध्वमित्येनमादिदेश स्वसैनिकान् ॥ २.२९.८ ॥

अप्रधृष्यतमं लोके तमृषिं राजकिङ्कराः ।
भर्त्राज्ञया प्रसह्यैनं परिवव्रुः समन्ततः ॥ २.२९.९ ॥

दण्डैः कशाभिर्लकुडैर्विनिघ्नन्तश्च मुष्टिभिः ।
ते समुत्सारयन् धेनोः सुदूरतरमन्तिकात् ॥ २.२९.१० ॥

स तथा हन्यमोनोऽपि व्यथितःक्षमयान्वितः ।
न चुक्रोधाक्रोधनत्वं सतो हि परमं धनम् ॥ २.२९.११ ॥

स च शक्तः स्वतपसा संहर्त्तुमपि रक्षितुम् ।
जगत्सर्वं क्षयं तस्य चिन्तयन्न प्रचुक्रुधे ॥ २.२९.१२ ॥

सपूर्वं क्रोधनोऽत्यर्थं मातुरर्थे प्रसादितः ।
रामेणाभूत्ततो नित्यं शान्त एव महातपाः ॥ २.२९.१३ ॥

स हन्यमानः सुभृशं चूर्णिताङ्गास्थिवन्धनः ।
निपपात महातेजा धरण्यां गतचेतनः ॥ २.२९.१४ ॥

तस्मिन्मुनौ निपतिते स दुरात्मा विशङ्कितः ।
किङ्करानादिशच्छीघ्रं धेनोरानयने बलात् ॥ २.२९.१५ ॥

ततः सवत्सां ता धेनुं बद्ध्वा पाशैर्दृढैर्नृपः ।
कशाभिरभिहन्यन्त चकृषुश्च निनीषया ॥ २.२९.१६ ॥

आकृष्यमाणा बहुभिः कशाभिर्लगुडैरपि ।
हन्यमाना भृशं तैश्च चुक्रुधे च पयस्विनी ॥ २.२९.१७ ॥

व्यथितातिकशापातैः क्रोधेन महातान्विता ।
आकृष्य पाशान् सुदृढान् कृत्वात्मानममोचयत् ॥ २.२९.१८ ॥

विमुक्तपाशवन्धासा सर्वतोऽभिवृता बलैः ।
हुंहारवं प्रकुर्वाणा सर्वतोऽह्यपतद्रुषा ॥ २.२९.१९ ॥

विषाणखुरपुच्छाग्रैरभिहत्य समन्ततः ।
राजमन्त्रिबलं सर्वं व्यद्रावयदमर्षिता ॥ २.२९.२० ॥

विद्राव्य किङ्करान्सर्वांस्तरसैव पयस्विनी ।
पश्यतां सर्वभूतानां गगनं प्रत्यपद्यत ॥ २.२९.२१ ॥

ततस्ते भग्नसङ्कल्पाः सम्भग्नक्षतविग्रहाः ।
प्रसह्य बद्ध्वा तद्वत्सं जग्मुरेवातिनिर्घृणाः ॥ २.२९.२२ ॥

पयस्विनीं विना वत्सं गृहीत्वा किङ्करैः सह ।
स पापस्तरसा राज्ञः सन्निधिं समुपागमत् ॥ २.२९.२३ ॥

गत्वा समीपं नृपतेः प्रणम्यास्मै प्रशंसकृत् ।
तद्व्रत्तान्तमशेषेण व्याचचक्षे ससाध्वसः ॥ २.२९.२४ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने एकोनत्रिंशत्तमोऽध्यायः ॥ २९॥