विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
तस्मिन्पुरे सन्तुलितामरेद्रपुरीप्रभावे मुनिवर्यधेनुः ।
विनिर्ममे तेषु गृहेषु पश्चात्तद्योग्यनारीनरवृन्दजातम् ॥ २.२७.१ ॥
मूलम्

विचित्रवेषाभरणप्रसूनगन्धांशुकालङ्कृतविग्रहाभिः ।
सहावभावाभिरुदारचेष्टाश्रीकान्तिसौन्दर्यगुणान्विताभिः ॥ २.२७.२ ॥

मन्दस्फुरद्दन्तमरीचिजाल विद्योतिताननसरोजजितेन्दुभाभिः ।
प्रत्यग्रयौवनभरासवल्गुगीर्भिः स प्रेममन्थरकटाक्षनिरीक्षणाभिः ॥ २.२७.३ ॥

प्रीतिप्रसन्नहृदयाभिरतिप्रभाभिः शृङ्गारकल्पतरुपुष्पविभूषिताभिः ।
देवाङ्गनातुलितसौभगसौकुमार्यरूपाभिलाषमधुराकृतिरञ्जिताभिः ॥ २.२७.४ ॥

उत्तप्तहेमकलशोपमचारुपीनवक्षोरुहद्वयभरानतमध्यमाभिः ।
श्रोणीभराक्रमणखेदपरिश्रितास्मृगारक्तपावकरसारुणिताङ्घ्रिभूभिः ॥ २.२७.५ ॥

केयूरहारमणिकङ्कणहेम कण्ठसूत्रामलश्रवणमण्डलमण्डिताभिः ।
स्रग्दामचुम्बितसकुन्तलकेशपाशकाञ्चीकलापपरिशिञ्जितनूपुराभिः ॥ २.२७.६ ॥

आमृष्टरोषपरिसान्त्वननर्महासकेलीप्रियालपनभर्त्सनरोषणेषु ।
भावेषु पार्थिवनिजप्रियधैर्यबन्धसर्वापहारचतुरेषु कृतान्तराभिः ॥ २.२७.७ ॥

तन्त्रीस्वनोपमितमञ्जुलसौम्यगेयगन्धर्वतारमधुरारवभाषिणीभिः ।
वीणाप्रवीणतरपाणितलाङ्गुलीभिर्गम्भीरचक्रचटुवादरतोत्सुकाभिः ॥ २.२७.८ ॥

स्त्रीभिर्मदालस तराभिरतिप्रगल्भभावाभिराकुलितकामुकमानसाभिः ।
कामप्रयोगनिपुणाभिरहीनसम्पदौदार्यरूपगुणशीलसमन्विताभिः ॥ २.२७.९ ॥

सङ्ख्यातिगाभिरनिशं गृहकृत्यकर्मव्यग्रात्मकाभिरपि तत्परिचारिकाभिः ।
पुम्भिश्च तद्गुणगणोचितरूपशोभैरुद्भासितैर्गृहचरैः परितः परीतम् ॥ २.२७.१० ॥

सराजमार्गापणसौधसद्मसोपानदेवालयचत्वरेषु ।
पौरैरशेषार्थगुणैः समन्तादध्यास्यमानं परिपूर्णकामैः ॥ २.२७.११ ॥

अनेक रत्नोज्ज्वलितैर्विचित्रैः प्रासादसङ्घैरतुलैरसङ्ख्यैः ।
रथाश्वमातङ्गखरोष्ट्रगोजायोग्यैरनेकैरपि मन्दिरैश्च ॥ २.२७.१२ ॥

नरेद्रसामन्तनिषादिसादिपदातिसेनपतिनायकानाम् ।
विप्रादिकानां रथिसारथीनां गृहैस्तथा मागधबन्दिनां च ॥ २.२७.१३ ॥

विविक्तरथ्यापणचित्रचत्वरैरनेकवस्तुक्रयविक्रयैश्च ।
महाधनोपस्करसाधुनिर्मितैर्गृहैश्च शुभ्रैर्गणिकाजनानाम् ॥ २.२७.१४ ॥

महार्हरत्नोज्ज्वलतुङ्गगोपुरैः सह श्वगृध्रव्रजनर्तनालयैः ।
चित्रैर्ध्वचैश्चापि पताकिकाभिः शुभ्रैः पटैर्मण्डपिकाभिरुन्नतैः ॥ २.२७.१५ ॥

कह्लारकञ्जकुमुदोत्पलरेणुवासितैश्चकाह्वहंसकुररीबकसारसानाम् ।
नानारवाढ्यरमणीयतटाकवापीसरोवरैश्चापि जलोपपन्नैः ॥ २.२७.१६ ॥

चूतप्रियालपनसाम्रमधूकजम्बूप्लक्षैर्नवैश्च तरुभिश्च कृतालवालैः ।
पर्यन्तरोपितमनोरमनागकेतकीपुन्नागचम्पकवनैश्च पतत्रिजुष्टैः ॥ २.२७.१७ ॥

मन्दारकुन्दकरवीरमनोज्ञयूथिकाजात्यादिकैर्विविधपुष्पफलैश्च वृक्षैः ।
संलक्ष्यमाणपरितोपवनालिभिश्च संशोभितं जगति विस्मयनीयरूपैः ॥ २.२७.१८ ॥

सर्वर्त्तुकप्रवरसौरभवायुमन्दमन्दप्रचारिभर्त्सितधर्मकालम् ।
इत्थ सुरासुरमनोरमभोगसम्पद्विस्पष्टमानविभवं नगरं नरेद्र ॥ २.२७.१९ ॥

सौभाग्यभोगममितं मुनिहोमधेनुः सद्यो विधाय विनिवेदयदाशु तस्मै ।
ज्ञात्वा ततो मुनिवरो द्विजहोमधेन्वा सम्पादितं नरपते रुचिरातिथेयम् ॥ २.२७.२० ॥

आहूय कञ्चन तदन्तिक मात्मशिष्यं प्रास्थापयत्सगुणशालिनमाशु राजन् ।
गत्वा विशामधिपतेस्तरसा समीपं सम्प्रश्रयं मुनिसुतस्तमिदं बभाषे ॥ २.२७.२१ ॥

आतिथ्यमस्मदुपपादितमाशु राज्ञा सम्भावनीयमिति नः कुलदेशिकाज्ञा ।
राजा ततो मुनिवरेण कृताभ्यनुज्ञः सम्प्राविशत्पुरवरं स्वकृते कृतं तत् ॥ २.२७.२२ ॥

सर्वोपभोग्यनिलयं मुनिहोमधेनुसामर्थ्यसूचकमशोषबलैः समेतः ।
अन्तः प्रविश्य नगरर्द्धिमशेषलोकसम्मोहिनीं भिसमीक्ष्य स राजवर्यः ॥ २.२७.२३ ॥

प्रीतिप्रसन्नवदनः सबलस्तु दानी धीरोऽपि विस्मयमवाप भृशं तदानीम् ।
गच्छन्सुरस्त्रीनयना लियूथपानैकपात्रोचितचारुमूर्त्तिः ॥ २.२७.२४ ॥

रेमे स हैहयपतिः पुरराजमार्गे शक्रः कुबेरवसताविव सामरौघः ।
तं प्रस्थितं राजपथात्समन्तात्पौराङ्गनाश्चन्दनवारिसिक्तैः ॥ २.२७.२५ ॥

प्रसूनलाजाप्रकरैरजस्रमवीपृषन्सौधगताः सुत्दृद्यैः ।
अभ्यागतार्हणसमुत्सुकपौरकान्ता हस्तारविन्दगलितामललाजवर्षैः ॥ २.२७.२६ ॥

कालेयपङ्कसुरभीकृतनन्दनोत्थशुभ्रप्रसूननिकरैरलिवृन्दगीतैः ।
तत्रत्यपौरवनिताञ्जनरत्नसारमुक्ताभिरप्यनुपदं प्रविकीर्यमामः ॥ २.२७.२७ ॥

व्यभ्राजतावनिपतिर्विशदैः समन्ताच्छीतांशुरश्मिनिकरैरिव मन्दराद्रिः ।
ब्राह्मीं तपःश्रिय मुदारगणमचिन्त्यां लोकेषु दुर्लभतरां स्पृहणीयशोभाम् ॥ २.२७.२८ ॥

पश्यन्विशामधिपतिः पुरसम्पदं तामुच्चैः शशंस मनसा वचसेव राजन् ।
मेने च हैहयपतिर्भुवि दुर्लभेयं क्षात्री मनोहरतरा महिता हि सम्पत् ॥ २.२७.२९ ॥

अस्याः शतांशतुलनामपि नोपगन्तुं विप्रशियः प्रभवतीति सुरार्चितायाः ।
मध्येपुरं पुरजनोपचितां विभूतिमालोकयन्सह पुरोहितमन्त्रिसार्थैः ॥ २.२७.३० ॥

गच्छत्स्वपार्श्वचर दर्शितवर्णसौधो लेभे मुदं पुरजनैः परिपूज्यमानः ।
राजा ततो मुनिवरोपचितां सपर्यामात्मानुरूपमिह सानुचरो लभस्व ॥ २.२७.३१ ॥

इत्यश्रमेण नृपतिर्विनिवर्त्तयित्वा स्वार्थं प्राल्पितगृहाभिमुखो जगाम ।
पौरेः समेत्य विविधार्हणपाणिभिश्च मार्गे मुदा विरचिताजलिभिः समन्तात् ॥ २.२७.३२ ॥

सम्भावितोभ्यनुपदं जयशब्दघोषैस्तूर्यारवैश्च बधिरीकृतदिग्विभागैः ।
कक्षान्तराणि नृपतिः शनकैरतीत्य त्रीणि क्रमेण च ससम्भ्रमकञ्चुकीनि ॥ २.२७.३३ ॥

दूरप्रसारितपृथग्जनसङ्कुलानि सद्माविवेश सचिवादरदत्तहृस्तः ।
तत्र प्रदीपदधिदर्पणगन्धपुष्पदूर्वाक्षतादिभिरलं पुरकामिनीभिः ॥ २.२७.३४ ॥

निर्याय राजभवनान्तरतः सलीलमानन्दितो नरपतिर्बहुमान पूर्वकम् ।
ताभिः समाभिविनिवेशितमाशु नानारत्नप्रवेकरुचिजालविराजमानम् ॥ २.२७.३५ ॥

सूक्ष्मोत्तरच्छदमुदारयशा मनोज्ञमध्या रुरोह कनकोत्तरविष्टरं तम् ।
तस्मिन्गृहे नृप तदीयपुरन्ध्रिवर्गः स्वासीनमाशु नृपतिर्विविधार्हणाभिः ॥ २.२७.३६ ॥

वाद्यादिभिस्तदनुभूषणगन्धपुष्पवस्त्राद्यलङ्कृतिभिरग्र्यमुदं ततान ।
तस्मिन्नशेषदिवसोचितकर्म सर्वं निर्वर्त्य हैहयपतिः स्वमतानुसारम् ॥ २.२७.३७ ॥

नाना विधालयननर्मविचित्रकेलीसम्प्रेक्षितैर्दिनमशेषमलं निनाय ।
कृत्वा दिनान्तसमयोचितकर्म चैव राजा स्वमन्त्रिसचिवानुगतः समन्तात् ॥ २.२७.३८ ॥

आसन्नभृत्यकरसंस्थितदीपकौधसंशान्तसन्तमसमाशु सदः प्रपेदे ।
तत्रासने समुपविश्य पुरोधमन्त्रिसामन्तनायकशतैः समुपास्यमानः ॥ २.२७.३९ ॥

अन्वास्त राजसमितौ विविधैर्विनोदैर्हृष्टः सुरेद्र इव देवगणैरुपेतः ।
ततश्चिरं विविधवाद्यविनोदनृत्तप्रेक्षाप्रवृत्तहसनादिकथाप्रसङ्गः ॥ २.२७.४० ॥

आसाञ्चकार गणिकाजन्नर्महासक्रीडाविलासपरितोषितचित्तवृत्तिः ।
इत्थं विशामधिपतिर्भृशमानिशार्द्धं नानाविहारविभवानुभवैरनेकैः ॥ २.२७.४१ ॥

स्थित्वानुगान्नरपतीनपि तन्निवासं प्रस्थाप्य वासभवनं स्वयमप्ययासीत् ।
तद्राजसैन्यमखिलं निजवीर्यशौर्यसम्पत्प्रभावमहिमानुगुणं गृहेषु ॥ २.२७.४२ ॥

आत्मानुरुपविभवेषु महार्हवस्त्रस्रग्भूषणादिभिरलं मुदितं बभूव ।
सैन्यानि तानि नृपतेर्विविधान्नपानसद्भक्ष्यभोज्यमधुमांसपयोघृताद्यैः ॥ २.२७.४३ ॥

तृप्तान्यवात्सुरखिलानि सुखोपभौगैस्तस्यां नरेद्रपुरि देवगणा दिवीव ।
एवं तदा नरपतेरनुयायिनस्ते नानाविधोचितसुखानुभवप्रतीताः ॥ २.२७.४४ ॥

अन्योन्यमूचुरिति गेहधनादिभिर्वा किं साध्यते वयमिहैव वसाम सर्वे ।
राजापि शार्वरविधानमथो विधाय निर्वर्त्य वासभवने शयनीयमग्र्यम् ।
अध्यास्य रत्ननिकरैरति शैभि भद्रं निद्रामसेवत नरेद्र चिरं प्रतीतः ॥ २.२७.४५ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने सप्तविंशतितमोऽध्यायः ॥ २७॥