०२६

विश्वास-प्रस्तुतिः

वशिष्ठ उवाच
इति पृष्टस्तदा ताभ्यां रामो राजन्कृताञ्जलिः ।
तयोरकथयत्सर्वमात्मना यदनुष्ठितम् ॥ २.२६.१ ॥

मूलम्

निदेशाद्वै कुलगुरोस्तपश्चरणमात्मनः ।
शम्भोर्निदेशात्तीर्थानामटनं च यथाक्रमम् ॥ २.२६.२ ॥

तदाज्ञयैव दैत्यनां वधं चामरकारणात् ।
हरप्रसादादत्रापि ह्यकृतव्रणदर्शनम् ॥ २.२६.३ ॥

एतत्सर्वमशेषेण यदन्यच्चात्मना कृतम् ।
कथयामास तद्रामः पित्रोः सम्प्रीयमाणयोः ॥ २.२६.४ ॥

तौ च तेनोदितं सर्वं श्रुत्वा तत्कर्म विस्तरम् ।
हृष्टौ हर्षान्तरं भूयो राजन्नाप्नुवतावुभौ ॥ २.२६.५ ॥

एवं पित्रोर्महाराज शुश्रूषां भृगुपुङ्गवः ।
प्रकुर्वंस्तद्विधेयात्मा भ्रातॄणां चाविशेषतः ॥ २.२६.६ ॥

एतस्मिन्नेव काले तु कदाचिद्धैहयेश्वरः ।
इत्येष मृगयां गान्तुं चतुरङ्गबलान्वितः ॥ २.२६.७ ॥

संरज्यमाने गगने बन्धूककुसुमारुणैः ।
ताराजालद्युतिहरैः समन्तादरुणांशुभिः ॥ २.२६.८ ॥

मन्दं वीजति प्रोद्धूतकेतकीवनराजिभिः ।
प्राभातिके गन्धवहे कुमुदाकरसंस्पृशि ॥ २.२६.९ ॥

वयांसि नर्मदातीरतरुनीडाश्रयेषु च ।
व्याहरन्स्वाकुला वाचो मनःश्रोत्रसुखावहाः ॥ २.२६.१० ॥

नर्मदातीरतीर्थं तदवतीर्याघहारिणि ।
तत्तोये मुनिवृन्देषु गृणात्सुब्रह्म शाश्वतम् ॥ २.२६.११ ॥

विधिवत्कृतमैत्रेषु सन्निवृत्य सरित्तटात् ।
आशमं प्रति गच्छत्सु मुनिमुख्येषु कर्मिषु ॥ २.२६.१२ ॥

प्रत्येकं वीरपत्नीषु व्यग्रासु गृहकर्मसु ।
होमार्थं मुनिकल्पाभिर्दुह्यमानासु धेनुषु ॥ २.२६.१३ ॥

स्थाने मुनिकुमारेषु तं दोहं हि नयत्सु च ।
अग्निहोत्राकुले जाते सर्वभूतसुखावहे ॥ २.२६.१४ ॥

विकसत्सु सरोजेषु गायत्सु भ्रमरेषु च ।
वाशत्सु नीडान्निष्पत्य पतत्रिषु समन्ततः ॥ २.२६.१५ ॥

अनति व्यग्रमत्तेभतुरङ्गरथगामिनाम् ।
गात्राल्हादविवर्द्धन्यां वेलायां मन्दवायुना ॥ २.२६.१६ ॥

गच्छत्सु चाश्रमोपान्तं प्रसूनजलहारिषु ।
स्वाध्या यदक्षैर्बहुभिरजिनाम्बरधारिभिः ॥ २.२६.१७ ॥

सम्यक्प्रयोज्यमानेषु मन्त्रेषूच्चावचेषु च ।
प्रैषेषूच्चार्यमाणेषु हूयमानेषु वह्निषु ॥ २.२६.१८ ॥

यथा वन्मन्त्रतन्त्रोक्तक्रियासु विततासु च ।
ज्वलदग्निशिखाकारे तमस्तपनतेजसि ॥ २.२६.१९ ॥

प्रतिहत्य दिशः सर्वा विवृण्वाने च मेदिनीम् ।
सवितर्युदयं याति नैशे तमसि नश्यति ॥ २.२६.२० ॥

तारकासु विलीनासु काष्ठासु विमलासु च ।
कृतमैत्रादिको राजा मृगयां हैहयेश्वरः ॥ २.२६.२१ ॥

निर्ययौ नगरात्तस्मात्पुरोहितसमन्वितः ।
बलैः सर्वैः समुदितैः सवाजिरथकुञ्जरैः ॥ २.२६.२२ ॥

सचिवः सहितः श्रीमान् सवयोभिश्च राजभिः ।
महता बलभारेण नमयन्वसुधातलम् ॥ २.२६.२३ ॥

मूलम्

सचिवः सहितः श्रीमान् सवयोभिश्च राजभिः ।
महता बलभारेण नमयन्वसुधातलम् ॥ २.२६.२३ ॥

विश्वास-प्रस्तुतिः

नादयन्रथघोषेण ककुभः सर्वतो नृपः ।
स्वबलौघपदक्षेपप्रक्षुण्णावनिरेणुभिः ॥ २.२६.२४ ॥

ययौ सञ्च्छादयन्व्योम विमानशतसङ्कुलम् ।
सम्प्रवश्य वनं घोरं विन्ध्योद्रेर्बलसञ्चयैः ॥ २.२६.२५ ॥

भृशं विलोलया मास समन्ताद्राजसत्तमः ।
परिवार्य वनं तत्तु स राजा निजसैनिकैः ॥ २.२६.२६ ॥

मृगान्नानाविधान्हिंस्रान्निजघान शितैः शरैः ।
आकर्णकृष्टकोदण्डयोधमुक्तैः शितेषुभिः ॥ २.२६.२७ ॥

निकृत्तगात्राः शार्दूला न्यपतन्भुवि केचन ।
उदग्रवेगपादातखड्गखण्डितविग्रहाः ॥ २.२६.२८ ॥

वराहयूथपाः केचिद्रुधिरार्द्रा धरामगुः ।
प्रचण्डशाक्तिकोन्मुक्तशक्तिनिर्भिन्नमस्तकाः ॥ २.२६.२९ ॥

मृगौघाः प्रत्यपद्यन्त पर्वता इव मेदिनीम् ।
नाराचा विद्धसर्वाङ्गाः सिंहर्क्षशरभादयः ॥ २.२६.३० ॥

वसुधामन्वकीर्यन्त शोणितार्द्राः समन्ततः ।
एवं सवागुरैः कैश्चित्पतद्भिः पतितैरपि ॥ २.२६.३१ ॥

श्वभिश्चानुद्रुतैः कैश्चिद्धावमानैस्तथा मृगैः ।
आत्तैर्विक्रोशमानैश्च भीतैः प्राणभयातुरैः ॥ २.२६.३२ ॥

युगापाये यथात्यर्थं वनमाकुलमाबभौ ।
वराहसिंहशार्दूलश्वाविच्छशकुलानि च ॥ २.२६.३३ ॥

चमरीरुरुगोमायुगवयर्क्षवृकान्बहून् ।
कृष्णसारान्द्वीपिमृगान्रक्तखड्गमृगानवि ॥ २.२६.३४ ॥

विचित्राङ्गान्मृगानन्यान्न्यङ्कूनपि च सर्वशः ।
बालान्स्तनन्धयान्यूनः स्थविरान्मिथुनान्गणान् ॥ २.२६.३५ ॥

निजघ्नुर्निशितैः शस्त्रैः शस्त्रवध्यान्हि सैनिकाः ।
एवं हत्वा मृगान् घोरान्हिंस्रप्रायानशेषतः ॥ २.२६.३६ ॥

श्रमेण महता युक्ता बभूवुर्नृपसैनिकाः ।
मध्ये दिनकरे प्राप्ते ससैन्यः स तदा नृपः ॥ २.२६.३७ ॥

नर्मदां धर्मसन्तप्तः पिपासुरगमच्छनैः ।
अवतीय ततस्तस्यास्तोये सबलवाहनः ॥ २.२६.३८ ॥

विजागाह शुभे राजा क्षुत्तृष्णापरिपीडितः ।
स्नात्वा पीत्वा च सलिलं स तस्याः सुखशीतलम् ॥ २.२६.३९ ॥

बिसाङ्कुराणि शुभ्राणि स्वादूनि प्रजघास च ।
विक्रीड्य तोये सुचिरमुत्तीर्य सबलो नृपः ॥ २.२६.४० ॥

विशश्राम च तत्तीरे तरुखण्डोपमण्डिते ।
आलम्बपाने तिग्मांशौ ससैन्यः सानुगो नृपः ॥ २.२६.४१ ॥

निश्चक्राम पुरं गन्तुं विन्ध्याद्रिवनगह्वरात् ।
स गच्छन्नेव ददृशे नर्मदा तीरमाश्रितम् ॥ २.२६.४२ ॥

आश्रमं पुण्यशीलस्य जमदग्नेर्महात्मनः ।
ततो निवृत्य सैन्यानि दूरेऽवस्थाप्य पार्थिवः ॥ २.२६.४३ ॥

परिचारैः कतिपथैः सहितोऽयात्तदाशमम् ।
गत्वा तदाश्रमं रम्यं पुरोहितसमन्वितः ॥ २.२६.४४ ॥

उपेत्य मुनिशार्दूलं ननाम शिरसा नृपः ।
अभिनं द्याशषा तं वै जमदग्निर्नृपोत्तमम् ॥ २.२६.४५ ॥

पूजयामास विधिवदर्घपाद्यासनादिभिः ।
सम्भावयित्वा तां पूजां विहितां मुनिना तदा ॥ २.२६.४६ ॥

निषसादासने शुभ्र पुरस्तस्य महामुनेः ।
तमासीनं नृपवरं कुशासनगतो मुनिः ॥ २.२६.४७ ॥

पप्रच्छ कुशलप्रश्नं पुत्रमित्रादिबन्धुषु ।
सह सङ्कथयंस्तेन राज्ञा मुनिवरोत्तमः ॥ २.२६.४८ ॥

स्थित्वा नातिचिरं कालमातिथ्यार्थं न्यमन्त्रयत् ।
ततः स राजा सुप्रीतो जमदग्नि मभाषत ॥ २.२६.४९ ॥

महर्षे देहि मेऽनुज्ञां गमिष्यामि स्वकं पुरम् ।
समग्रवाहनबलो ह्यहं तस्मान्महामुने ॥ २.२६.५० ॥

कर्तु न शक्यमा तिथ्यं त्वया वन्याशिना वने ।
अथवा त्वं तपःशक्त्या कर्तुमातिथ्यमद्य मे ॥ २.२६.५१ ॥

शक्नोष्यपि पुरीं गन्तुं मामनुज्ञातुर्हसि ।
अन्यथा चेत्खलैः सैन्यैरत्यर्थं मुनिसत्तम ॥ २.२६.५२ ॥

तपस्विनां भवेत्पीडा नियमक्षयकारिका ।
वसिष्ठ उवाच
इत्येवमुक्तः स मुनिस्तं प्राहस्थीयतां क्षणम् ॥ २.२६.५३ ॥

सर्वं सम्पादयिथ्येऽहमातिथ्यं सानुगस्य ते ।
इत्युक्त्वाहूय तां दोग्ध्रीमुवाचायं ममातिथिः ॥ २.२६.५४ ॥

उपाग तस्त्वया तस्मात्क्रियतामद्य सत्कृतिः ।
इत्युक्ता मुनिना दोग्ध्री सातिथेयमशेषतः ।
दुदोह नृपतेराशु यद्योग्यं मुनिगौरवात् ॥ २.२६.५५ ॥

अथाश्रमं तत्सुरराजसद्मनिकाशमासीद्भृगुपुङ्गवस्य ।
विभूतिभेदैरविचिन्त्यरुपमनन्यसाध्यं सुरभिप्रभावात् ॥ २.२६.५६ ॥

अनेकरत्नोज्ज्वलचित्रहेमप्रकाशमालापरिवीतमुच्चैः ।
पूर्णेन्दुशुभ्राभ्रविषक्तशृङ्गैः प्रासादसङ्घैः परिवीतमन्तः ॥ २.२६.५७ ॥

कांस्यारकूटारसताम्रहेमदुर्वर्णसौधो पलदारुमृद्भिः ।
पृथग्विमिश्रैर्भवनैरनेकैः सद्भासितं नेत्रमनोभिरामैः ॥ २.२६.५८ ॥

महार्हरत्नोज्ज्वलहेमवेदिकानिष्कूटसोपानकुटीविटङ्ककैः ।
तुलाकपाटर्गलकुड्यदेहलीनिशान्तशालाजिरशोभितैर्भृशम् ॥ २.२६.५९ ॥

वलभ्यलिन्दाङ्गपाचारुतोरणैरदभ्रपर्यन्तचतुष्किकादिभिः ।
स्तम्भेषु कुड्येषु च दिव्यरत्नविचित्रचित्रैः परिशोभमानैः ॥ २.२६.६० ॥

उच्चावचै रत्नवरैर्विचित्रसुवर्णसिंहासनपीठिकाद्यैः ।
स भक्ष्यभोज्यादिभि रन्नपानैरुपेतभाण्डोपगतैकदेशैः ॥ २.२६.६१ ॥

गृहैरमर्त्योचितसर्वसम्पत्समन्वितैर्नेत्रमनोऽभिरामैः ।
तस्याश्रमं सन्नगरोपमानं बभौ वधूभिश्चमनोहराभिः ॥ २.२६.६२ ॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय
उपोद्धातपादेर्ऽजुनोपाख्याने षड्विंशतितमोऽध्यायः ॥ २६॥